चित्तं
cittaM
मन
चित्तं
,
क्ली,
(चेतत्यनेनेति
।
चित्
+
करणे
क्तः
।)
अनु-
सन्धानात्मिकान्तःकरणवृत्तिः
।
इति
वेदान्तः
॥
“यत्तत्
सत्वगुणं
स्वच्छं
स्वान्तं
भगवतः
पदम्
।
यदाहुर्वासुदेवाख्यं
चित्तं
तन्महदात्मकम्
॥
स्वच्छत्वमविकारित्वं
शान्तत्वमिति
चेतसः
।
प्रवृत्तिलक्षणं
प्रोक्तं
यथापां
प्रकृतिः
परा
॥”
इति
श्रीभागवतम्
॥
अस्यार्थः
।
“अधिभूतस्वरूपेण
तस्यैव
महा-
नितिसंज्ञा
अध्यात्मरूपेण
चित्तं
उपास्यरूपेण
वासुदेवः
अधिष्ठाता
तु
तस्य
क्षेत्रज्ञः
।”
इति
श्रीधरस्वामी
॥
(अनेनैव
चिच्छक्तेः
प्रथमसम्बन्धः
।
अतएव
भगवत्पतञ्जलिपादैरुपदिष्टं
प्रथमसूत्रे
“योगश्चित्तवृत्तिनिरोधः
।”
तथा
च
मुण्डकोप-
निषदि
।
३
।
१
।
९
।
“एषोऽणुरात्मा
चेतसा
वेदितव्यो
यस्मिन्
प्राणः
पञ्चधा
संविवेश
।
प्राणैश्चित्तं
सर्व्वमोतं
प्रजानां
यस्मिन्
विशुद्धे
विभवत्येष
आत्मा
॥”)
मनः
।
इत्यमरः
।
१
।
४
।
३१
॥