| YouTube Channel

ऋध (Rdha)

 
शब्दसागरः
English
ऋध r. 4th cl. (उ) ऋधु (ऋध्यति) To increase, to grow, to flourish, to
prosper. r. 5th cl. (ऋध्नोति)
1. To increase, &c.
2. To augment or
make increase.
3. To please.
Wilson
English
ऋध r. 4th cl. (उ) ऋधु (ऋध्यति) To increase, to grow, to
flourish, to prosper. r. 5th cl. (ऋध्नीति)
1 To increase, &c.
2 To augment or make increase.
3 To please.
शब्दकल्पद्रुमः
Sanskrit
ऋध, इर वृद्धौ इति कविकल्पद्रुमः
(दिवां, स्वां-परं-सकं-सेट् ।) ऋद्ध्यति उअर्द्धित्वा ऋद्धा ऋध्नोति इर आर्धत् आ-र्धोत् क्वचित्तृप्तौ चायम् सोऽहं प्राग्भवतैवभूतजननीमृध्नोमीति भवभूतिः
अन्तर्भूतञ्यर्थ-त्वादिदं सिद्धमिति केचित् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ऋध वृद्धौ दिवा० स्वा०
पर०
अक० सेट् उदित् इरि-च्च दि० ऋध्यति ऋध्यात् ऋध्यतु आर्द्ध्यत् स्वा० ऋ-ध्नोति ऋध्नुवन्ति ऋध्नुयात् ऋध्नेतु ऋध्नुहि आ-र्ध्नोत् उभयतः आर्द्धत्--आर्द्धीत् आनर्द्ध आनृधतुः आर्द्धिता ऋध्यात् अर्द्धिष्यति आर्द्धिष्यत् ।अर्द्धितव्यः अर्द्धनीयः ऋध्यः ऋद्धः ऋद्धिः ऋध्यन्ऋध्नुवन् अर्द्धः उदित्त्वात् वेट् अर्द्धित्वा--ऋद्ध्वा समृध्य ।“नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्द्धते” ममुः “सपत्ना-नृध्यतो दृष्ट्वा हीनमात्मानमेव सोऽहं स्त्री नचाप्य-स्त्री पुमान् नापुमानाप” भा० स० ४६ अ० “पृथिव्याम-ग्नये समनमन्त् आर्घ्नोत्” अथ० ४, ३९, येभक्षयन्तो वसून्यानृधुः” २, २५, आत्मनेपदित्वमपि“ते लोमश! लोकेऽस्मिन्नृध्यन्ते केन हेतुना” भा० व०९४ वेदे गणव्यत्यासात् श्नम् “य एषां भृत्यानृणधत् सजीवात्” ऋ० १, ८४, १६ मन्मानि धीतिरुत यज्ञमृन्धन्”१०, ११०, अन्तर्भूतण्यर्थत्वात्
सक०
णिचि अ-र्द्धयति ये “त्वां यज्ञैर्यज्ञिये अर्द्धयन्ति” अ० ७, ८३, ।सनि वेट् अर्द्दिधिषति ईर्त्सति वेदे गणव्यत्यासात्श तेन “इन्धानास्त्वा शतं हिमा ऋधेम” अथ० १९, ५५, ऋधच्छब्दे उदा० “ऋधद्यस्ते धिया मर्त्तः शश-मते” ऋ० ६, २, स्वा० तर्पणे वर्द्धने
सक०
“आ-दृध्नोति हविष्कृतिम्” ऋ० १, १८, “अन्तत एव तद्दे-वानृध्नुवन्ति” ऐ० ब्रा० “सोऽहं प्राग्भवतैव मूतजननी-मृध्नोमि” भवभूतिः ।अधि + अधिकवृद्धौ “यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्द्धः”इति शत० ब्रा० १४, ६, १० ।आ + समृद्धौ “ऋणान्नोनर्ण्णमेर्त्समानो यमस्य लोकेऽधिर-रज्जुरायत्” अथ० ६, ११८, ताच्छील्ये चानश्उप + उपगमे “तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जि-घांसतीव” शत० ब्रा० २, १, २, १७ “उपर्त्सेत् स्वीकुर्य्या-त्” भा० “एतेषामेव संवत्सरमुपेर्त्सेत्” २, ३, २, १४ ।वि + ऋद्धिविगमे विगतायां वृद्धौ “अथ यस्मान्न कृत्तिकास्वाद-धीतर्क्षाणां वा एता अग्रे पत्न्य आसुः सप्तर्षीनु स्म वैपुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्द्धन्तामी ह्युत्तराहिसप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्योमिथुनेनव्यृद्धः नेन्मिथुनेन व्यृद्धा” इति शत० ब्रा० २, १, २, ।“व्यार्द्धन्त विगतर्द्धिका अभवन्” भा० गणव्य० साधुः ।“यद्यज्ञमुखे यज्ञमुखे जुहुयात् पशुभिर्व्यृध्येत पा-पीयान्त्स्यात्” १३, १, ३, “अव्ययं विभक्तीत्यादि”पा० सूत्रे विगता ऋद्धिः व्यृद्धिः” सि० कौ० ।सम् + ऋद्धेराधिक्ये अतिशयितर्द्धौ “अव्ययं विभक्तीत्यादि”पा० “ऋद्धेराधिक्य समृद्धिः” सि० कौ० “कः क्षिण्वंस्तान्समृध्नुयात्” मनुः “शत्रुपक्षं समृध्यन्तं यो मोहात्ससुपेक्षते” भा० व० ५४ अ० “अयं कामः समृध्य-ताम्” यजु० २६, पदव्यत्यासः