| YouTube Channel

-भापयमानः (-bhApayamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भा दीप्तौ”@} 2 3 भायकः-यिका, 4 भापकः-पिका, बिभासकः-सिका, बाभायकः-यिका
भाता-भात्री, भापयिता-त्री, बिभासिता-त्री, बाभायिता-त्री
5 6 भान्-भान्ती-भाती, 7 भापयन्-न्ती, बिभासन्-न्ती
-- भास्यन्-न्ती-ती, भापयिष्यन्-न्ती-ती, बिभासिष्यन्-न्ती-ती
-- 8 व्यतिप्रभानः, भापयमानः, भापयिष्यमाणः, -- बाभायमानः, बाभायिष्यमाणः
भाः-भौ-भाः
-- -- सुप्रभातम्-तः, भापितः, बिभासितः, बाभायितः-तवान्
9 निभः, 10 आभः, 11 भम्, 12 विभावरी, 13 भायः, बिभासुः, 14 बाभाः
भातव्यम्, भापयितव्यम्, बिभासितव्यम्, बाभायितव्यम्
15 प्रभानीयम्, 16 प्रभापनीयम्, बिभासनीयम्, बाभायनीयम्
भेयम्, भाप्यम्, बिभास्यम्, बाभाय्यम्
ईषद्भानः- 17 दुर्भानः-सुभानः
-- -- भायमानः, भापयमानः, बिभास्यमानः, बाभाय्यमानः
18 भायः, भापः, बिभासः, बाभायः
भातुम्, भापयितुम्, बिभासितुम्, बाभायितुम्
भातिः, 19 प्रतिभा, प्रभा, विभा, आभा, भाः भापना, बिभासा, बाभाया
20 प्रभानम्, भापनम्, बिभासनम्, बाभायनम्
भात्वा, भापयित्या, बिभासित्वा, बाभायित्वा
प्रभाय, प्रभाप्य, प्रबिभास्य, प्रबाभाय्य
भायम् २, भात्वा २, भापम् २, भापयित्वा २, बिभासम् २, बिभासित्वा २, बाभायम्
बाभायित्वा
21 भातुः, 22 भानुः, 23 भामः।
प्रासङ्गिक्यः
01
=>
(११५३)
02
=>
(२-अदादिः-१०५१। अक। अनि। पर।)
03
=>
[[७। ‘आतो युक्चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि, णमुल्यपि ज्ञेयम्।]]
04
=>
[[८। ण्यन्ते सर्वत्र, आदन्तलक्षणः पुगागमो ज्ञेयः।]]
05
=>
[पृष्ठम्०९४७+ २८]
06
=>
[[१। शतरि शपि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शपो लुकि रूपमेवम्। स्त्रियाम्, ‘आच्छीनद्योः--’ (७-१-८०) इति नुम्विकल्पः।]]
07
=>
[[२। दीप्तेः चित्तवत्कर्तृकत्वे, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु शानजपि भवतीति विशेषः।]]
08
=>
[[आ। ‘ष्यतिप्रभानो विविधस्तदोच्चकैः तत्रैधते माङ्गलिकः स्म निस्वनः।’ वा। वि। १। ३५]]
09
=>
[[३। ‘आतश्चोपसर्गे, (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इति आकारलोपः। निभः = तुल्यः। अत्र धात्वर्थानुगमाभावस्तु उपसर्गवशात् धातोरर्थान्तरे वृत्तेरिति ज्ञेयम्।]]
10
=>
[[B। ‘मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम्।’ रघुवंशे २। १०।]]
11
=>
[[४। ‘अन्येभ्योऽपि दृश्यत इति वाच्यम्’ (वा। ३-२-१०१) इति वचनादत्र डप्रत्यये, डित्त्वसामर्थ्यात् भसंज्ञाभावेऽपि टिलोपे रूपमेवम्। भातीति भम् = नक्षत्रम्।]]
12
=>
[[५। विपूर्वकादस्मात्, ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्प्रत्यये, स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीब्रेफौ भवतः। विभावरी = रात्रिः।]]
13
=>
[[६। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्यये युगागमे रूपम्।]]
14
=>
[[७। यङन्तात् पचाद्यचि यङो लोपे, रूपमेवम्।]]
15
=>
[[८। ‘न भाभूपू--’ (८-४-३४) इत्यनेन, उपसर्गस्थ न्निमित्तात् परस्याच उत्तरस्य कृन्नकारस्य णत्वनिषेधः।]]
16
=>
[[९। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति वचनात् ण्यन्तेऽपि कृन्न- कारस्य णत्वनिषेधः।]]
17
=>
[[१०। ईषदाद्युषपदेषु खलपवादः, आदन्तलक्षणो युच्प्रत्ययः। ‘दुरः षत्वणत्वयोरुप- सर्गत्वप्रतिषेधो वाच्यः। (वा। १-४-६०)’ इति वचनान्न णत्वं षत्वं वाऽत्रेति ज्ञेयम्।]]
18
=>
[पृष्ठम्०९४८+ २४]
19
=>
[[१। स्त्रियाम्, ‘आतश्चोपसर्गे’ (३-३-१०६) इति भावादावङ् प्रत्ययः। सम्पदादि- त्वात् (वा। ३-३-९४) भावे क्विपि तु भाः इत्यपि भवति।]]
20
=>
[[आ। ‘हरेः प्रगमनं नास्ति प्रभानं हिमद्रुहः।’ भ। का। ९। १०७।]]
21
=>
[[२। ‘कमिमनिजनिगाभा--’ (द। उ। १-१२५) इत्यादिना तुप्रत्ययः। भातीति भातुः = प्रकाशः।]]
22
=>
[[३। ‘दाभाभ्यां नुः’ (द। उ। १-१४३) इति नुप्रत्ययः। भानुः = आदित्यः, किरणश्च।]]
23
=>
[[४। ‘अर्तिस्तु--’ (द। उ। ७-२६) इति मन्प्रत्ययः। भामः = क्रोधः।]]
1 {@“ञि भी भये”@} 2 भायकः-यिका, 3 भापकः- 4 भीषकः-षिका, 5 भायकः-यिका, 6 बिभीषकः-षिका, बेभीयकः-यिका
भेता-भेत्री, 7 भापयिता-भीषयिता-भाययिता-त्री, बिभीषिता-त्री, बेभीयिता-त्री
8 9 बिभ्यत्-बिभ्यतौ-बिभ्यतः, 10 11 भाययन्-न्ती, बिभीषन्-न्ती
-- 12 भेष्यन्-न्ती-ती, भाययिष्यन्-न्ती-ती, बिभीषिष्यन्-न्ती-ती
-- -- 13 14 भापयमानः, 15 16 भीषयमाणः, -- बेभीयमानः
-- भापयिष्यमाणः-भीषयिष्यमाणः -- बेभीयिष्यमाणः
भीः-भियौ-भियः
-- -- -- -- भीतः-भीतवान्, भापितः-भीषितः-भायितः, बिभीषितः, बेभीयितः-तवान्
17 भीतः, वृकभीतः, 18 भीरुः 19 -भीलुकः, 20 भीरुकः, 21 विभीषणः, 22 भापः-भीषः-भायः, बिभीषुः, बेभ्यः
भेतव्यम्, भापयितव्यम्-भीषयितव्यम्-भाययितव्यम्, बिभीषितव्यम्, बेभीयितव्यम्
23 प्रनिभयनीयम्-प्रणिभयनीयम्, भापनीयम्-भीषणीयम्-भायनीयम्, बिभीषणीयम्, बेभीयनीयम्
भेयम्, भाप्यम्-भीष्यम्-भाय्यम्, बिभीष्यम्, बेभीय्यम्
भायमानः, भाप्यमानः-भीष्यमाणः-भाय्यमानः, बिभीष्यमाणः, बेभीय्यमानः
ईषद्भयः-दुर्भयः-सुभयः
-- -- -- 24 25 भयम्-वृकभयम्, भापः-भीषः-भायः, बिभीषः, बेभीयः
भेतुम्, भापयितुम्-भीषयितुम्-भाययितुम्, बिभीषितुम्, बेभीयितुम्
भीतिः, वृकभीतिः, 26 भीः, भापना-भीषणा-भायना, 27 भीषा- 28 जातभीषा, बिभीषा, बेभीया
-- भापनम्-भीषणम्-भायनम्, बिभीषणम्, बेभीयनम्
भीत्वा, भापयित्वा-भीषयित्वा-भाययित्वा, बिभीषित्वा, बेभीयित्वा
प्रभीय, प्रभाप्य-प्रभीष्य-प्रभाय्य, प्रबिभीष्य, प्रबेभीय्य
भायम् २, भीत्वा २, भापम् -भीषम् -भायम् २, भापयित्वा -भीषयित्वा -भाययित्वा २, बिभीषम् २, बिभीषित्वा २, बेभीयम्
बेभीयित्वा
29 भेकः, 30 भयानकः, 31 भीमः-भीष्मः।
प्रासङ्गिक्यः
01
=>
(११६१)
02
=>
(३-जुहोत्यादिः-१०८४। अक। अनि। पर।)
03
=>
[[६। ‘बिभेतेर्हेतुभये’ (६-१-५६) इति विकल्पेन णावात्वे, आदन्तलक्षणः पुगागमः।]]
04
=>
[[७। आत्वाभावपक्षे, ‘भियो हेतुभये षुक्’ (७-३-४०) इति षुगागमः।]]
05
=>
[[८। अहेतुभये तु (करणादिजन्ये भये तु) णिज्निमित्तकवृद्धौ, आयादेशे रूपमेवम्। एवमेव ण्यन्ते रूपत्रयस्योपपत्तिर्ज्ञेया।]]
06
=>
[[९। सन्नन्तात् ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवमुत्त- रत्रापि सन्नन्तेषु ज्ञेयम्।]]
07
=>
[[आ। ‘विस्मापयित्री जनमुग्रसेनजं द्राग् भापयित्री भृशमस्य पञ्चताम्।’ वा। वि। १। ३८।]]
08
=>
[[१०। शतरि शपो जुहोत्यादित्वात् श्लौ, द्विर्वचने, अभ्यासह्रस्वे, उत्तरखण्डे यणि ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुमो निषेधः।]]
09
=>
(चोरात्)
10
=>
[कुञ्जिकया एनं]
11
=>
[[११। हेतुभये एवात्मनेपदविधानादत्र अहेतु (करण) भयत्वात् ण्यन्ताच्छतैव।]]
12
=>
[पृष्ठम्०९५५+ २४]
13
=>
(जटिलो)
14
=>
[[१। ‘भीस्म्योर्हेतुभये’ (१-३-६८) इति ण्यन्तादात्मनेपदम्।]]
15
=>
(मुण्डो)
16
=>
[[आ। ‘शत्रून् भीषयमाणं तं रामं विस्मापयेत कः।’ भ। का। ५-५८।]]
17
=>
[[२। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने कर्तरि क्तप्रत्ययः। वृकभीतः इत्यत्र ‘भयभीतभीतिभीभिरिति वक्तव्यम्’ (वा। २-१-३७) इति वचनात् समासो बोध्यः।]]
18
=>
[[३। तच्छीलादिषु कर्तृषु ‘भियः क्रुक्लुकनौ’ (३-२-१७४) इति क्रुः क्लुकन् प्रत्ययौ भवतः। क्रमेण भीरुः, भीलुकः इति रूपे सिद्ध्यतः।]]
19
=>
[[B। ‘अभीरुरवसं स्त्रीभिर्भास्वराभिरिहेश्वरः।।’ भ। का। ७-२५।]]
20
=>
[[४। ‘क्रुकन्नपि वक्तव्यः’ (वा। ३-२-१७४) इति वचनात् क्रुकन्प्रत्यये रूपमेवम्। अयमपि ताच्छीलिकप्रत्ययः।]]
21
=>
[[५। विशेषेण भीषयत इति विभीषणः। ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। षुगागमः।]]
22
=>
[[C। ‘बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः।।’ शि। व। ३-४५।]]
23
=>
[[६। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति उपसर्गस्थान्निमित्तात् परस्य नेः णत्वविकल्पः।]]
24
=>
[पृष्ठम्०९५६+ २३]
25
=>
[[१। ‘अज्विधौ-भयादीनामुपसंख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनादत्र ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः। अच्प्रत्ययान्तस्य पुंलिङ्गत्वं तु प्रायिकम्। अतोऽत्र नपुंसकत्वम्। वार्तिकेऽत्र ‘क्तादिनिवृत्त्यर्थम्’ इत्युक्तत्वात् नपुंसके भावे विहितः ल्युट्प्रत्ययोऽप्यस्य धातोर्नेति ज्ञेयम्। वृकभयम् इत्यत्र ‘पञ्चमी भयेन’ (२-१-३७) इति समासः।]]
26
=>
[[२। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-९४) क्विप्।]]
27
=>
[[३। हेतुमण्ण्यन्तात् बाहुलकेन ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः, युजपवादः।]]
28
=>
[[आ। ‘जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत्।।’ या। अ। १३-५७।]]
29
=>
[[४। ‘इण्भीका--’ (द। उ। ३-२१) इति कन्प्रत्यये रूपमेवम्। बिभेतीति भेकः।]]
30
=>
[[५। ‘आनकः शीङ्भियः’ (द। उ। ३-२६) इत्यानकप्रत्ययः। बिभेति तस्मादिति भयानकः = भीषणः। ‘भीमादयोऽपादाने’ (३-४-७४) इति अपादानेऽयं प्रत्ययः।]]
31
=>
[[६। ‘भियः षुग् वा’ (द। उ। ७-३५) इति मक्प्रत्ययः, पक्षे षुगागमश्च। बिभेत्यस्मा- ज्जन इति भीमः, भीष्मो वा। ‘भीमादयोऽपादाने’ (३-४-७४) इत्यपादानेऽयं प्रत्ययो ज्ञेयः।]]