| YouTube Channel

-तम्-तवान् (-tam-tavAn)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अर्क स्तवने”@} 2 ‘तपने’ इत्येके।
अर्ककः-र्किका, अर्चि 3 कयिषकः-षिका
अर्कयिता-त्री, अर्चिकयिषिता-त्री
अर्कयन्-न्ती, अर्चिकयिषन्-न्ती
अर्कयिष्यन्-न्ती-ती, अर्चिकयिषिष्यन्-न्ती-ती
अर्कयमाणः, अर्चिकयिषमाणः
अर्कयिष्यमाणः, अर्चिकयिषिष्यमाणः
4 अर्क्-अर्कौ-अर्कः
अर्कित 5ः- तम्-तवान्, अर्चिकयिषितम्-तः-तवान्
अर्कः, अर्चिकयिषुः
अर्कयितव्यम्, अर्चिकयिषितव्यम्
अर्कणीयम्, अर्चिकयिषणीयम्
अर्क्य 6म्, अर्चिकयिष्यम्
ईषदर्कः, दुरर्कः, स्वर्कः
अर्क्यमाणः, अर्चिकयिष्यमाणः
अर्कः, अर्चिकयिषः
अर्कयितुम्, अर्चिकयिषितुम्
अर्कणा 7, अर्चिकयिषा
अर्कणम्, अर्चिकयिषणम्
अर्कयित्वा, अर्चिकयिषित्वा
समर्क्य, समर्चिकयिष्य
अर्कम् २, अर्कयित्वा २, अर्चिकयिषम्
अर्चिकयिषित्वा
8
प्रासङ्गिक्यः
01
=>
(३५)
02
=>
(१०-चुरादिः-१६४४। सक। सेट्। उभ।)
03
=>
[[१। ‘न न्द्राः संयोगादयः’ (६-१-३) इति रेफस्य द्वित्वनिषेधः।]]
04
=>
[[२। ‘रात्सस्य’ (८-२-२४) इति नियमात् ककारस्य संयोगान्तलोपो न।]]
05
=>
[[३। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
06
=>
[[आ। ‘सौधे विटङ्कजुषि पश्यति धूसितो- ऽयं राजारिकीटबलचूर्णनयातिपूज्यः। अर्क्येण तेन समरेष्वविशोठितस्त्वं संशुण्ठिताहितमदेन विजोडितोऽसि।।’ धा। का। ३-२७।]]
07
=>
[[४। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच्।]]
08
=>
[पृष्ठम्००३४+ ३९]
1 {@“घ्रा गन्धोपादाने”@} 2 3 घ्रायकः-यिका, 4 घ्रापकः-पिका, जिघ्रासकः-सिका, 5 जेघ्रीयकः-यिका
घ्राता-त्री, घ्रापयिता-त्री, जिघ्रासिता-त्री, जेघ्रीयिता-त्री
6 जिघ्रन्- 7 न्ती, घ्रापयन्-न्ती, जिघ्रासन्-न्ती, -- घ्रास्यन्-न्ती-ती, घ्रापयिष्यन्-न्ती-ती, जिघ्रासिष्यन्-न्ती-ती
-- -- घ्रापयमाणः, घ्रापयिष्यमाणः, -- जेघ्रीयमाणः, जेघ्रीयिष्यमाणः
संघ्राः-संघ्रौ-संघ्राः
-- -- -- 8 घ्राणः-घ्राणम्-घ्राणवान्, घ्रातः, -तम्-तवान्, घ्रापितः, जिघ्रासितः, जेघ्रीयितः-तवान्
9 व्याघ्रः-व्याघ्री, 10 आजिघ्रः 11, 12 घ्रायः, 13 पुष्पसङ्घ्रायः, घ्रापः, जिघ्रासुः, 14 जाघ्राः
15 घ्रातव्यम्, घ्रापयितव्यम्, जिघ्रासितव्यम्, जेघ्रीयितव्यम्
घ्राणीयम्, घ्रापणीयम्, जिघ्रासनीयम्, जेघ्रीयणीयम्
16 घ्रेयः, आघ्रेयः, घ्राप्यम्, जिघ्रास्यम्, जेघ्रीय्यम्
17 ईषद्घ्राणः-दुर्घ्राणः-सुघ्राणः
-- -- घ्रायमाणः, घ्राप्यमाणः, जिघ्रास्यमानः, जेघ्रीय्यमाणः
घ्रायः, घ्रापः, जिघ्रासः, जेघ्रीयः
घ्रातुम्, घ्रापयितुम्, जिघ्रासितुम्, जेघ्रीयितुम्
घ्रातिः, 18 आघ्रा, घ्रापणा, जिघ्रासा, जेघ्रीया
19 प्रणिघ्राणम्-प्रनिघ्राणम्, घ्रापणम्, जिघ्रासनम्, जेघ्रीयणम्
घ्रात्वा, घ्रापयित्वा, जिघ्रासित्वा, जेघ्रीयित्वा
घ्रायम् २, घ्रात्वा २, घ्रापम् २। घ्रापयित्वा २, जिघ्रासम् २, जिघ्रासित्वा २, जेघ्रीयम्
जेघ्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(४८१)
02
=>
(१-भ्वादिः-९२६। सक। अनि। पर।)
03
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[२। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति णौ पुगागमः। एवं ण्यन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। ‘ई घ्राध्मोः’ (७-४-३१) इति आकारस्य ईकारादेशः। अभ्यासे गुणः।]]
06
=>
[[४। शपि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौ शीयसीदाः’ (७-३-७८) इत्यनेन प्रकृतेः जिघ्रादेशे रूपम्।]]
07
=>
[[आ। ‘स्नातावदातः पिबंस्तदाभाञ्जिघ्रन् सुगन्धं विधमन्नघानि।’ धा। का। २-३३।]]
08
=>
[[५। ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (८-२-५६) इति निष्ठातकारस्य नकारविकल्पः। नत्वपक्षे णत्बम्।]]
09
=>
[[६। ‘आतश्चोपसर्गे’ (३-१-१-३६) इति कर्तरि कः। स्त्रियां, ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः’ (परिभाषा ७७) इति सुबुत्पत्तेः प्राक् समासे, अदन्तत्वेन प्राप्तं टापं बाधित्वा जातिलक्षणो ङीष् भवति।]]
10
=>
[[७। सोपसर्गात् ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) कर्तरि शप्रत्ययः। ‘पाघ्राध्मास्थाम्नादाण्--’ (७-३-७८) इत्यादिना जिघ्रादेशः। मध्ये विकरणप्रत्ययः शप्। ‘{??}पमितं व्याघ्रादिभिः--’ (२-१-५६) इति निर्देशात् संज्ञायाम् उपसृष्टेऽपि जिघ्रादेशो न।]]
11
=>
[[B। ‘ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम्। आजिघ्रैः पुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्।।’ भ। का। ६-७७।]]
12
=>
[[८। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना आदन्तलक्षणे णप्रत्यये युगागमः।]]
13
=>
[[९। ‘आतोऽनुपसर्गे कः’ (३-२-३) इत्यत्र, ‘अनुपसर्गे’ इत्युक्तत्वात्--सोपसृष्टात् ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
14
=>
[[१०। यङ्न्तात् अचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, यङ्परकत्वाभावादी- त्वाभावे, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे रूपम्।]]
15
=>
[पृष्ठम्०४६६+ २४]
16
=>
[[१। ‘ईद्यति’ (६-४-६५) इति धात्वाकारस्य ईकारे गुणः।]]
17
=>
[[२। ‘आतो युच्’ (३-३-१२८) खलपवादो युच्।]]
18
=>
[[३। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियां अङ् भवति।]]
19
=>
[[४। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वं वा।]]