-जूयमानः (-jUyamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“जु गतौ वेगे च”@} 2 सौत्रोऽयं धातुः साक्षाद्धातुपाठेष्वपठितोऽपि, ‘जुचङ्क्रम्य--’ 3, ‘प्रजोरिनिः’ 4, ‘भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्’ 5 ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ 6 इत्यादिषु अनुवादबलाद् अभ्युपगम्यते।
‘वेगितायां गतौ’ इति काशिकादिष्वर्थ- निर्देशस्योपलम्भात् तदनुसारेणास्माभिरप्यर्थोऽस्य निर्दिष्टः।
क्षीरस्वामी तु ‘जुङ्’ इति ङितं पपाठ।
वृत्तिन्यासपदमञ्जर्यादिषु अस्य धातोः सौत्रत्वमेवाङ्गीकृतम्।
माधवधातुवृत्तौ तु परस्मैपदिष्वेव पाठोऽभ्युपगतः।
जावकः-विका, जावकः-विका, 7 जिजावयिष्कः, 8 जुजूषकः-षिका, 9 जोजूयकः-यिका
10 जोता-त्री, जावयिता-त्री, जिजावयिषिता-त्री, जुजूषिता-त्री, जोजूयिता-त्री
जवन्-न्ती, जावयन्-न्ती, जिजावयिषन्-न्ती, जुजूषन्-न्ती
-- जोष्यन्, जावयिष्यन्-न्ती-ती, जिजावयिषिष्यन्-न्ती-ती, जुजूषिष्यन्-न्ती-ती
11 12 जवमानः, जावयमानः, जिजावयिषमाणः, -- जोजूयमानः
जोष्यमाणः, जावयिष्यमाणः, जिजावयिषिष्यमाणः, -- जोजूयिष्यमाणः
13 जूः-जुवौ-जुवः
-- -- जुतम्-जुतः-जुतवान्, जावितः, जिजावयिषितः, जुजूषितः, जोजूयितः-तवान्
जवः, 14 जवनः, 15 16 प्रजवी, 17 जावः, जिजावयिषुः, जुजूषुः, 18 जोजुवः
जोतव्यम्, जावयितव्यम्, जिजावयिषितव्यम्, जुजूषितव्यम्, जोजूयितव्यम्
जवनीयम्, जावनीयम्, जिजावयिषणीयम्, जुजूषणीयम्, जोजूयनीयम्
19 जव्यम्-अवश्यजाव्यम् 20, जाव्यम्, जिजावयिष्यम्, जुजूष्यम्, जोजूय्यम्
ईषज्जवः-दुर्जवः-सुजवः
-- -- -- 21 जूयमानः, जाव्यमानः, जिजावयिष्यमाणः, जुजूष्यमाणः, जोजूय्यमानः
22 जवः, जावः, जिजावयिषः, जुजूषः, जोजूयः
जोतुम्, जावयितुम्, जिजावयिषितुम्, जुजूषितुम्, जोजूयितुम्
23 जूतिः, 24 जावना, जिजावयिषा, जुजूषा, जोजूया
25 जवनम्, जावनम्, जिजावयिषणम्, जुजूषणम्, जोजूयनम्
जुत्वा, जावयित्वा, जिजावयिषित्वा, जुजूषित्वा, जोजूयित्वा
26 प्रजुत्य, प्रजाव्य, प्रजिजावयिष्य, प्रजुजूष्य, प्रजोजूय्य
जावम् २, जुत्वा २, जावम् २, जावयित्वा २, जिजावयिषम् २, जिजावयिषित्वा २, जुजूषम् २, जुजूषित्वा २, जोजूयम् २, जोजूयित्वा २।
01 (६०७)
02 (१-भ्वादिः-अक। अनि। पर।)
03 (३-२-१५०)
04 (३-२-१५६)
05 (३-२-१७७)
06 (३-३-९७)
07 [[५। यद्यपि ण्यन्तात् सन्प्रत्यये रूपप्तदर्शनमस्माभिः न प्रतिज्ञातम्
\n\n अथापि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यनेनाभ्यासघटकोकारस्येत्त्वविधानसामर्थ्यात् तानि रूपाणि प्रकृते प्रदर्शितानि। एवं सर्वत्र ण्यन्तात् सनि अभ्यासे इकारो ज्ञेयः।]]
08 [[६। ‘इको झल्’ (१-२-९) इति सनः कित्त्वेन न गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। षत्वम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
09 [[७। अभ्यासस्य ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणे, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
10 [[८। ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णिषेधे गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
11 [पृष्ठम्०५७६+ २५]
12 [[१। क्षीरस्वामिमते धातोरस्य ङित्त्वात् ‘अनुदात्तङित आत्मनेपदम्’ (१-३-१२) इति शानच्।]]
13 [[२। ‘भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्’ (३-२-१७७) इति ताच्छीलिके क्विपि, ‘वचिप्रच्छ्यायस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च’ (वा। ३-२-१७८) इति वचनाद् दीर्घः। जूः = पिशाचः।]]
14 [[३। ‘जुचङ्क्रम्यदन्द्रम्य--’ (३-२-१५०) इति ताच्छीलिको युच्। अनादेशः।]]
15 [[आ। ‘विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः।।’ किरातार्जुनीये ५। ७।]]
16 [[४। ‘प्रजोरिनिः’ (३-२-१५६) इति तच्छीलादिषुकर्तृषु इनिप्रत्ययः।]]
17 [[B। ‘जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वया।’ भ। का। ७। १९।]]
18 [[५। यङन्तात् पचाद्यचि, यङो लुकि, ‘न धातुलोप--’ (१-१-४) इति गुणनिषेधे, ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
19 [[६। ‘अचो यत्’ (३-१-९७) इति यति, गुणावादेशौ।]]
20 [[७। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, वृद्धिः आवादेशश्च।]]
21 [[८। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
22 [[९। ‘ॠदोरप्’ (३-३-५७) इति घञपवादः अप्प्रत्ययः।]]
23 [[१०। ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ (३-३-९७) इति सूत्रेण क्तिनि दीर्घो निपातितः।]]
24 [[C। ‘जूतिमिच्छथ चेत् तूर्णं कीर्ति वा पातुमात्मनः’ भ। का। ७। ६९।]]
25 [पृष्ठम्०५७७+ २२]
26 [[१। समासे क्त्वाप्रत्ययस्य ल्यबादेशे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
