| YouTube Channel

-कृशः (-kRzaH)

 
Hindi
Hindi
(विशे) पतली
Wordnet
Sanskrit
Synonyms:
कृशः
noun
शरीरस्य कृशभावः
"राजसि कृशाङ्गि मङ्गलकलसी सहकारपल्लवेनेव"[आर्यासप्तशति 895]"
Synonyms:
कृशाङ्गः, तनुः, प्रतनुः, वितनुः, क्षीणः, सूक्ष्मः, क्षामः, कृशः, शीर्णः, अविपुलः
adjective
यस्य शरीरं कृशम् अस्ति।
"कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।"
शब्दकल्पद्रुमः
Sanskrit
कृशः, त्रि, (कृशधातोः क्तप्रत्यये “अनुपसर्गात्फुल्लक्षीवेति” ५५ निपातनात् साधुः ।)अल्पः (यथा, मनौ १८४ ।“आकाशेशाश्च विज्ञेया बालवृद्धकृशातुराः”
)सूक्ष्मः इत्यमरः ६१
(यथा, आर्य्यासप्तशती ४९५ ।“राजसि कृशाङ्गि ! मङ्गलकलसी सहकारपल्ल-वेनेव तेनैव चूम्बितमुखी प्रथमाविर्भूतरागेण”
“व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् ।कृशो सहते तद्वदतिशीतोष्णमैथुनम्
प्लीहा कासः क्षयः श्वासो गुल्मार्शांस्युदराणि ।कृशं प्रायोऽभिधावन्ति, रोगाश्च ग्रहणीमताः”
“सततं व्याधितावेतावतिस्थूलकृशौ नरौ ।सततञ्चोपचय्यौ हि कर्षणैर्वृंहणैरपि”
“स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हितौ ।यद्युभौ व्याधिरागच्छेत् स्थूलमेवाति पीडयेत्”
इति चरके सूत्रस्थाने २१ अध्याये
“कश्चिदन्यः कृशोऽतीव बलवान् दृश्यते तदा”
तत्र हेतुमाह ।“आधानसमये यस्य शुकभागोऽधिको भवेत् ।मेदोभागस्तु हीनः स्यात् कृशोऽपि महाबलः”
यस्याधानसमये जनयितुः शुक्रस्याधिक्यं भवति ।मेदसोऽल्पता तस्य कृशस्यापि बहु बलमित्यर्थः
अथ कार्श्यस्य चिकित्सा ।“रूक्षान्नादि निमित्ते तु कृशे युञ्जीत भेषजम् ।वृंहणं बलकृद्वृष्यं तथा वाजीकरञ्च यत्
पीताश्वगन्धा पयसार्द्धमासंघृतेन तैलेन सुखाम्बुना वा ।कृशस्य पुष्टिं वपुषो विधत्तेबालस्य शस्यस्य यथाम्बुवृष्टी
अश्वगन्धस्य कल्केन क्वाथे तस्मिन् पयस्यपि ।सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम्”
इति अश्वगन्धातैलम्
*
इति भावप्रकाशस्य मध्यखण्डे तृतीयभागे कार्श्या-धिकारे
) (अक्षमः यथा, मनौ १३५ ।“क्षत्त्रियञ्चैव सर्पञ्च ब्राह्मणं वा बहुश्रुतम् ।नावमन्येत वै भूष्णुः कृशानपि कदाचन”
पुं,
सर्व्वाकारवत्त्वात् विष्णुः यथा, महाभारते ।१३ १४९ १०३ ।“अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्”
स्वनामख्यातो मुनिपुत्त्रः तु परीक्षिच्छाप-प्रदातुः शृङ्गिणः सखा ।यथा, महाभारते ४१ ।“स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।अपृच्छत्तं कथं तातः मेऽद्य मृतधारकः”
ऐरावतकुलोत्पन्नो नागविशेषः यथा, तत्रैव ।१ आस्तीकपर्व्वणि ५७ ११ ।“पारावतः पारिजातः पाण्डरो हरिणः कृशः ।ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्”
)
कृदन्तरूपमाला
Sanskrit
1 {@“कृश तनूकरणे”@} 2 कर्शकः-र्शिका, कर्शकः-र्शिका, चिकर्शिषकः-षिका, 3 चरीकृशकः-शिका
4 कर्शिता-त्री, कर्शयिता-त्री, चिकर्शिषिता-त्री, चरीकृशिता-त्री
5 कृश्यन्-न्ती, कर्शयन्-न्ती, चिकर्शिषन्-न्ती
-- कर्शिष्यन्-न्ती-ती, कर्शयिष्यन्-न्ती-ती, चिकर्शिषिष्यन्-न्ती-ती
-- 6 व्यतिकृश्यमानः, कर्शयमानः, -- चरीकृश्यमानः
व्यतिकर्शिष्यमाणः, कर्शयिष्यमाणः, -- चरीकृशिष्यमाणः
चरीकृशितः-तवान्
7 कृट्-कृड्-कृशौ-कृशः
-- 8 कृशः, 9 प्रकृशितः, 10 कृशितवान्, 11 परिकृशः, कर्शितः, चिकर्शिषितः, कृशः, कर्शः, चिकर्शिषुः, चरीकृशः
कर्शितव्यम्, कर्शयितव्यम्, चिकर्शिषितव्यम्, चरीकृशितव्यम्
कर्शनीयम्, कर्शनीयम्, चिकर्शिषणीयम्, चरीकृशनीयम्
12 कृश्यम्, कर्श्यम्, चिकर्शिष्यम्, चरीकृश्यम्
ईषत्कर्शः-दुष्कर्शः-सुकर्शः
-- -- कृश्यमानः, कर्श्यमानः, चिकर्शिष्यमाणः, चरीकृश्यमानः
13 कर्शः, कर्शः, चिकर्शिषः, चरीकृशः
कर्शितुम्, कर्शयितुम्, चिकर्शिषितुम्, चरीकृशितुम्
कृष्टिः, कर्शना, चिकर्शिषा, चरीकृशा
कर्शनम्, कर्शनम्, चिकर्शिषणम्, चरीकृशनम्
14 कृशित्वा-कर्शित्वा, कर्शयित्वा, चिकर्शिषित्वा, चरीकृशित्वा
परिकृश्य, प्रकर्श्य, प्रचिकर्शिष्य, सञ्चरीकृश्य
कर्शम् २, कृशित्वा २, कर्शित्वा २, कर्शम् २, कर्शयित्वा २, चिकर्शिषम् २, चिकर्शिषित्वा २, चरीकृशम्
चरीकृशित्वा २।
प्रासङ्गिक्यः
01
=>
(२५४)
02
=>
(४-दिवादिः-१२२७। अक। सेट्। पर।)
03
=>
[[१। ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीक्। अल्लोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः।]]
05
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावात् अङ्गस्य गुणो न।]]
06
=>
[[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
07
=>
[[५। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यादिना षत्वम्। जश्त्वम्। चर्त्वविकल्पः।]]
08
=>
[[६। ‘अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः’ (८-२-५५) इति अनुपसृष्टाद्धातोः निष्ठातकारस्य लोपः, इडभावश्च निपातितः। सोपसर्गात् तु प्रकृशित इत्येव।]]
09
=>
[[आ। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसः मृश्यद्भ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे।।’ धा। का। २-६६।]]
10
=>
[[७। ‘अनुपसर्गात्--’ (८-२-५५) इत्येतत् क्तवतौ नेष्यते। तेन एवं रूपम्।]]
11
=>
[[८। कृशधात्वर्थक्रियानिरूपितोपसर्गत्वाभावात् परेः, परिगतः कृशं--परिकृशः इति प्रादिसमासः। तेन, ‘अनुपसर्गात्--’ (८-२-५५) इति निषेधो शङ्क्यः। परेः कृशधात्वर्थक्रियानिरूपितोपसर्गत्वं नास्तीत्यर्थः।]]
12
=>
[[९। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
13
=>
[पृष्ठम्०२५४+ २२]
14
=>
[[१। ‘तृषिमृषिकृशेः काश्यपस्य’ (१-२-२५) इति क्त्वायाः कित्त्वं वा। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्यापवादः।]]