| YouTube Channel

-कुच्यमानः (-kucyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुच शब्दे तारे”@} 2 कोचकः-चिका, कोचकः-चिका, चुकुचिषकः- 3 चुकोचिषकः-षिका, चोकुचकः-चिका
कोचिता-त्री, कोचयिता-त्री, चुकुचिषिता-चुकोचिषिता-त्री, चोकुचिता-त्री
कोचन्-न्ती, कोचयन्-न्ती, चुकुचिषन्-चुकोचिषन्-न्ती
-- कोचिष्यन्-न्ती-ती, कोचयिष्यन्-न्ती-ती, चुकुचिषिष्यन्-चुकोचिषिष्यन्-न्ती-ती
-- कोचयमानः, कोचयिष्यमाणः, चोकुच्यमानः, चोकुचिष्यमाणः
4 कुचितम्-कोचितम्, कोचितः-तम्, चुकुचिषितः-चुकोचिषितः, चोकुचितः-तवान्
कुचः, कोचः, चुकुचिषुः-चुकोचिषुः, चोकुचः
कोचितव्यम्, कोचयितव्यम्, चुकुचिषितव्यम्-चुकोचिषितव्यम्, चोकुचितव्यम्
कोचनीयम्, कोचनीयम्, चुकुचिषणीयम्-चुकोचिषणीयम्, चोकुचनीयम्
कोच्यम्, कोच्यम्, चुकुचिष्यम्-चुकोचिष्यम्, चोकुच्यम्
ईषत्कोचः-दुष्कोचः-सुकोचः
-- -- कुच्यमानः, कोच्यमानः, चुकुचिष्यमाणः-चुकोचिष्यमाणः, चोकुच्यमानः
5 सङ्कोचः, कोचः, चुकुचिषः-चुकोचिषः, चोकुचः
कोचितुम्, कोचयितुम्, चुकुचिषितुम्-चुकोचिषितुम्, चोकुचितुम्
कुक्तिः, कोचना, चुकुचिषा-चुकोचिषा, चुकोचयिषा, चोकुचा
कोचनम्, कोचनम्, चुकुचिषणम् चुकोचिषणम्, चोकुचनम्
6 कुचित्वा कोचित्वा कोचयित्वा, चुकुचिषित्वा-चुकोचिषित्वा, चोकुचित्वा
सङ्कुच्य, सङ्कोच्य, सञ्चुकुचिष्य-सञ्चुकोचिष्य, सञ्चोकुच्य
कोचम् २, कुचित्वा २, कोचित्वा २, कोचम् २, कोचयित्वा २, चुकुचिषम् -चुकोचिषम् २, चुकुचिषित्वा -चुकोचिषित्वा २, चोकुचम्
चोकुचित्वा २।
प्रासङ्गिक्यः
01
=>
(२००)
02
=>
(१-भ्वादिः-१८४। सक। सेट्। पर।)
03
=>
[[६। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः।]]
04
=>
[[७। ‘उदुपधात्--’ (१-२-२१) इति निष्ठायाः कित्त्वविकल्पः।]]
05
=>
[पृष्ठम्०१९६+ २६]
06
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वायाः कित्वविकल्पनात् पक्षे गुणः।]]
1 {@“कुच सङ्कोचने”@} 2 ‘सङ्कोचे कुचतीति स्यात्, कोचेत् सम्पर्चनादिषु।’ 3 इति देवः।
कोचकः-चिका, 4 कुचिता-त्री, 5 कुचन् 6 -न्ती-ती, कुचिष्यन्-न्ती-ती, कुक्-कुचौ-कुचः, कुचितम्-तः-तवान्, कुचितव्यम्, कुचनीयम्, कुच्यम्, 7 ईषत्कुचः-दुष्कुचः-सुकुचः, कुच्यमानः, 8 सङ्कोचः, कुचितुम्, 9 निकुचितिः, 10 कोचनम्-सङ्कोचनम्-कुचनम्, 11 कुचित्वा, सङ्कुच्य, कोचम् २, कुचित्वा
इति शुद्धाद्धातो रूपाणि।
ण्यन्तात्-सन्नन्तात्-यङन्ताच्च पूर्वोक्त 12 कुचधातुवद्रूपाणि ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(२०२)
02
=>
(६-तुदादिः-१३६८-अक। सेट्। पर। कुटादिः।)
03
=>
(श्लो-५४)
04
=>
[[२। ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ङिद्वद्भावान्न गुणः। एवं तव्यदादि- ष्वपि ज्ञेयम्।]]
05
=>
[[३। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावान्न गुणः।]]
06
=>
[[B। ‘ततोऽतिकुटिलाशयैः प्रपुटितैः कुचज्जीवितैः गुजद्भिरपि सैनिकैः सुगुडितां डिप- द्भिर्जनान्। सुधाच्छुरितविस्फुटस्मितरुचैव धैर्यं मुटन् धनुस्त्रुटनतो मनाक् प्रतुट- नाय शालामगात्।।’ धा। का। २-८०।]]
07
=>
[पृष्ठम्०१९७+ २५]
08
=>
[[१। ‘निष्ठामामनिट इति वक्तव्यम्’ (वा। ७-३-५२) इति वचनात्, अस्य निष्ठायां सेट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वं भवति।]]
09
=>
[[२। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति वचनात्, अस्य ग्रहादित्वात् इड् भवति--इति प्रक्रियासर्वस्वे।]]
10
=>
[[३। ‘कुच सङ्कोचने’ इति निर्देशबलात् कुटादित्वेऽपि ल्युटि परं गुणो भवत्येव इति काश्यपः। ‘सम्’ इत्युपसर्गपूर्वकात् कुचधातोरेव कुटादित्वेऽपि गुणः, अन्यत्र न--इति केचित्। तेषां मते ‘कुचनम्’ इत्येव। निरुपसृष्टादपि गुण एव इत्यन्ये। तन्मते ‘कोचनम्’ इति भवति।]]
11
=>
[[४। ‘रलो व्युपधात् हलादेः संश्च’ (१-२-२६) इति वैकल्पिककित्त्वं बाधित्वा, पूर्व- विप्रतिषेधेन ‘गाङ्कुटादिभ्यः--’ (१-२-१) इति विहितं नित्यङित्त्वमेव भवति। अत एव, ‘अनुदात्तङित आत्मनेपदम्’ (१-३-१२) इत्यत्र ‘उपदेशे’ इत्यस्य ङिदंशेऽन्वयस्य सार्थक्यं भवति।]]
12
=>
[२००]
1 {@“कुन्च कौटिल्याल्पीभावयोः”@} 2 ‘गतेः कौटिल्ये, द्रव्यस्याल्पत्वे च--’ इति क्षीरस्वामी।
नोपधोऽयं धातुः।
कुञ्चकः-ञ्चिका, कुञ्चकः-ञ्चिका, चुकुञ्चिषकः-षिका, चोकुञ्चकः-ञ्चिका
कुञ्चिता-त्री, कुञ्चयिता-त्री, चुकुञ्चिषिता-त्री, चोकुञ्चिता-त्री
कुञ्चन्-न्ती, कुञ्चयन्-न्ती, चुकुञ्चिषन्-न्ती
-- कुञ्चिष्यन्-न्ती-ती, कुञ्चयिष्यन्-न्ती-ती, चुकुञ्चिषिष्यन्-न्ती-ती
-- -- कुञ्चयमानः, कुञ्चयिष्यमाणः, चोकुच्यमानः, चोकुञ्चिष्यमाणः
कुक्-कुञ्चौ-कुञ्चः
-- -- -- 3 4 निकुचितम्-तः, 5 कुञ्चितः, चुकुञ्चिषितः, चोकुञ्चितः-तवान्
कुञ्चः, कुञ्चः, चुकुञ्चिषुः, चोकुञ्चः
कुञ्चितव्यम्, कुञ्चयितव्यम्, चुकुञ्चिषितव्यम्, चोकुञ्चितव्यम्
कुञ्चनीयम्, कुञ्चनीयम्, चुकुञ्चिषणीयम्, चोकुञ्चनीयम्
6 कुञ्च्यम्, कुञ्च्यम्, चुकुञ्चिष्यम्, चोकुञ्च्यम्
ईषत्कुञ्चः-दुष्कुञ्चः-सुकुञ्चः
-- -- 7 कुच्यमानः, कुञ्च्यमानः, चुकुञ्चिष्यमाणः, चोकुञ्च्यमानः
कुञ्चः, कुञ्चः, चुकुञ्चिषः, चोकुञ्चः
कुञ्चितुम्, कुञ्चयितुम्, चुकुञ्चिषितुम्, चोकुञ्चितुम्
कुञ्चा, 8 निकुचितिः, कुञ्चना, चुकुञ्चिषा, चोकुञ्चा
कुञ्चनम्, कुञ्चनम्, चुकुञ्चिषणम्, चोकुञ्चनम्
9 कुञ्चित्वा, कुञ्चयित्वा, चुकुञ्चिषित्वा, चोकुञ्चित्वा
सङ्कुच्य, सङ्कुञ्च्य, सञ्चुकुञ्चिष्य, सञ्चोकुञ्च्य
कुञ्चम् २, कुञ्चित्वा २, कुञ्चम् २, कुञ्चयित्वा २, चुकुञ्चिषम् २, चुकुञ्चिषित्वा २, चोकुञ्चम्
चोकुञ्चित्वा २।
प्रासङ्गिक्यः
01
=>
(२२२)
02
=>
(१-भ्वादिः-१८५। सक। सेट्। पर।)
03
=>
[पृष्ठम्०२११+ २६]
04
=>
[[१। ‘अनिदितां हल--’ (६-४-२४) इति नलोपः। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु। सकारजश्शकारश्चेर्षाट्टवर्गस्तवर्गजः।।’ इति भाष्योक्त्या अत्र ञकारः नकारस्थानिकः। तेन नलोपः। सन्निपातपरि- भाषविरोधात् गुणो न, उदुपधत्वसम्पादनद्वारा कित्त्वमुपजीव्य प्रवृत्तो नलोपः अकित्त्वस्य प्रयोजको भवति।]]
05
=>
[[आ। ‘चुकोच यत्रोत्कुचिताङ्गमुन्मुदः क्रौञ्चोऽपि लुञ्चन् हृदि सम्यगार्तताम्।।’ धा। का। १-२५।]]
06
=>
[[२। ‘न क्वादेः’ (७-३-५९) इति, ‘निष्ठायामनिट-’ (वा-७-३-५२) इति वा कुत्वं न।]]
07
=>
[[३। ‘अनिदितां--’ (६-४-२४) इति नलोपः।]]
08
=>
[[४। बाहुलकात् ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इति क्तिन्नपि। यद्वा क्तिच्। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति इण्णिषेधपर्युदासात् इट् भवति। नलोपः।]]
09
=>
[[५। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् नलोपो न।]]