| YouTube Channel

हेलाः (helAH)

 
शब्दकल्पद्रुमः
Sanskrit
हेलाः,
स्त्री,
(हिल् + घञ् टाप् ।) स्त्रीणांशृङ्गारभावजक्रियाविशेषः इत्यमरः ३२
सुरते प्रौढेच्छा हेला यदाह ।“प्रौढेच्छा याति रूढानां नारीणां सुरतोत्सवे ।शृङ्गारशास्त्रतत्त्वज्ञैर्हेला सा परिकीर्त्तिता
”इति ।अन्ये तु ।“स एव हेला सुव्यक्तः शृङ्गाररससूचकः ।”इत्याहुः अस्यार्थः हाव एव स्फुटशृङ्गा-रानुभावो हेलेति अन्ये त्वाहुः विलासादयोदश स्वाभाविकाः भावहावहेलास्त्रयोऽङ्गजाःशोभादयः सप्त प्रयत्नजाः इति विंशतिरल-ङ्काराः तेषु ।“देहात्मकं मवेत् सत्त्वं सत्त्वाद्भावः समुत्थितः ।भावात् समुत्थितो हावो हावाद्धेला समु-त्थिता
”इति
हिल हावकृतौ घञ् स्त्रीत्त्वं लोकाश्रयात् ।हेलिरपि ।“हेलिः पुंसि रवौ हेलिर्हेलायामपि योषिति ।”इति हड्डः इति भरतः
अपि ।“हाव एव भवेद्धेला व्यक्तः शृङ्गारसूचकः ।”इत्युज्ज्वलनीलमणिः
*
अवज्ञा इति मेदिनी
(यथा, मार्कण्डेय-पुराणे १४ २९ ।“स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छति ।स्पर्शं वाप्यथवा शब्द रसं रूपमथापि वा
”)ज्योत्स्ना इति केचित्