| YouTube Channel

हुर्छा (hurchA)

 
धातुप्रदीपः
Sanskrit
हुर्छाँ हुर्च्छा कौटिल्ये
-
कौटिल्यं करोति अपसरतीत्यर्थः
हूर्च्छति चौरः जुहूर्च्छ हूर्णवान् हूर्णमनेन हूर्च्छितमनेन प्रहूर्णः प्रहूर्च्छितः हूः हुरौ हुरः ।। 208 ।।
क्षीरतरङ्गिणी
Sanskrit
हुर्छाँ हुर्छा कौटिल्ये
- हूर्छति, र्वोरुपधायाः (8276) इति दीर्घः निष्ठायाम् आदितश्च (7216) इतीण् नास्ति- हूर्णः, राल्लोपः (6421) रदाभ्यां निष्ठातो नः (82)42) विभाषा भावादिकर्मणोः (7217) इति वेट्, हूर्छितमनेन, हूर्णम्, प्रहूर्छितः, प्रहूर्णः क्विप्-हूः हुरौ 208
धातुवृत्तिः
Sanskrit
हुर्छाँ हुर्छा (अर्थः) कौटिल्ये
(अर्थविवरणम्) इह कौटिल्यमपसरणमिति
मैत्रेयस्य मतम् ( हूर्छति जुहूर्छतेत्यादि) "उपधायां च'' इतीको दीर्घंः ( जुहूर्छिषति जोहूर्छीति जोहोत्ति जोहूर्त्तः जोहोर्षि जोहोर्मि जोहूर्वः जोहूर्मः) ( सूत्रम्) राल्लोपः (इति सूत्रम्) इति रेफात्परयोः छ्वोर्लोपः क्वौ झलादावनुनासिकादौ प्रत्यये अत्र सतुक्कस्य छस्याभावात् केवलो गृह्यत इति वृत्यादौ हूः हुरौ हुरः "राल्लोपः'' तत्र पदत्वे ( सूत्रम्) र्वोरुपधाया दीर्घ (इति सूत्रम्) '' इति रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घ इति इको दीर्घः हूर्णः हूर्णवान् "आदि तश्च'' इत्यनिट् निष्ठायाम् राल्लोपे "रदाभ्याम्'' इति नत्वे "रषाभ्याम्'' इति णत्वम् भावादिकर्मणोस्तु ( सूत्रम्) विभाषाभावादिकर्मणो (इति सूत्रम्) इति आदितो निष्ठायाः पक्षे इङ्विधानाद् हूर्णमनेन, हूर्छितमनेनेत्यादि द्रष्टव्यम् 209
कृदन्तरूपमाला
Sanskrit
1 {@“हुर्छा कौटिल्ये”@} 2 ‘कौटिल्यम् = अपसारणम्’ इति मैत्रेयः।
हूर्छा, 3 हूः-हुरौ-हुरः, 4 हूर्णः- हूर्णवान्, हूर्णमनेन-हूर्छितमनेन, इति विशेषः।
सामान्यरूपाणि कूजतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(२०१२)
02
=>
(१-भ्वादिः-२११। सक। सेट्। पर।)
03
=>
[[१। क्विपि ‘राल्लोपः’ (६-४-२१) इति छकारस्य लोपः। ‘र्वोरुपधायाः--’ (८-२-७०) इति दीर्घः। सर्वत्र प्रयोगे पदान्तत्वनिबन्धनः, उपधादीर्घोऽस्य द्रष्टव्यः।]]
04
=>
[[२। निष्ठायाम्, ‘आदितश्च’ (७-२-१६) इतीण्निषेधे, राल्लोपे, ‘रदाभ्यां--’ (८-२-४२) इति निष्ठानत्वम्। णत्वम्। भावे, आदिकर्मणि धातोरिण्निषेधविकल्पः।]]
05
=>
(२३९)