| YouTube Channel

हिवि (hivi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हिन्व्
मूलधातुः:
हिवि
धात्वर्थः:
प्रीणने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
हिन्वति
धातुप्रदीपः
Sanskrit
हिविँ हिवि
मानकरूपान्तरम् - दिविँ
दिवि
मानकरूपान्तरम् - धिविँ
धिवि
मानकरूपान्तरम् - जिविँ
जिवि प्रीणनार्थाः
- हिन्वति जिहिन्व दिन्वति दिन्व्यते ।धिनोति ।धिनुतः। जिन्वति। जिजिन्व ।। 591-594 ।।
धातुवृत्तिः
Sanskrit
हिविँ हिवि
मानकरूपान्तरम् - दिविँ
दिवि
मानकरूपान्तरम् - धिविँ
धिवि
मानकरूपान्तरम् - जिविँ
जिवि (अर्थः) प्रीणनार्थाः
अत्र के चिदाद्यमिकारादिं पठित्वा पुनः पाठोर्थोदादिति, धातूनामनेकार्थत्वे तु प्रयोजनमस्ति तस्मात् मैत्रेयोक्त एव हिवीति पाठो ज्यायान् (हिन्वतीत्यादि जिहिन्व हिन्वितेत्यादि पिन्वतीवत् एवं दिन्वतीत्यादि) धिनोतेः ( सूत्रम्) धिन्विकृण्व्योर (इति सूत्रम्) इति शब्विषये उप्रत्ययः, अकारश्चान्तादेशः तस्यातो लोपः, तस्य स्थानिवत्त्वात् उप्रत्ययमपेक्ष्य लघृपधगुणो भवति, तस्य पित्सु गुणः ( धिनोति धिनुतः धिन्वन्ति ) अन्तादेशे यणादेशः (धिनोषि धिनुवः धिन्वः) ( सूत्रम्) लोपश्चास्यान्यतरस्यां म्वोः (इति सूत्रम्) असंयोगपूर्वो उकारस्याभावः ( धिनोतु धिनु ) ( सूत्रम्) उतश्च प्रत्ययादसंयोगपूर्वात् (इति सूत्रम्) योसमुकारो ऽसंयोगपूर्वः तदन्तातृप्रत्ययात् परस्य हेर्लुगिति लुक् ( धिनवानि ) नित्यत्वादुकारलोपात् पूर्वमाट् ( अधिनोत् अधिनुताम् अधिनोः अधिनवम् अधिन्व अधिनुव धिनुयात् ) अन्यत्र लकारे पूर्ववत् (धिन्वयति इत्यादि जिन्वतीत्यादि देवने गतम् 586
कृदन्तरूपमाला
Sanskrit
1 {@“हिवि प्रीणनार्थः”@} 2 भौवादिकजिन्वतिवत् 3 सर्वाणि रूपाण्यूह्यानि।
प्रासङ्गिक्यः
01
=>
(२००५)
02
=>
(१-भ्वादिः-५९१। सक। सेट्। पर।)
03
=>
(६०४)