| YouTube Channel

हिताबली (hitAbalI)

 
शब्दकल्पद्रुमः
Sanskrit
हिताबली,
स्त्री,
(हितानां आवली यत्र ।)औषधविशेषः हियावली इति हिन्दी भाषा ।तत्पर्य्यायः हृद्गात्री कुष्ठघ्नः अङ्गार-कुष्ठकः अङ्गारग्रन्थिः ग्रन्थिः ग्रन्थिलः७ अस्या गुणाः सारकत्वम् तिक्तत्वम् ।प्लीहगुल्मोदरकृमिकुष्ठगदात्युग्रखर्ज्जुकण्डूतिना-शित्वञ्च इति राजनिर्घण्टः