हस्ती (hastI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit हस्ती
पौराणिकः पुरुषः।
"हस्ती एव हस्तिनापुरम् न्यवेशयत्।"
गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः
वन्यपशुः , यस्य वक्षो अथ कक्षावलयः, श्लथाश्च लम्बोदरसः त्वग्बृहतीगलश्च पेचकेन सह स्थूला कुक्षिः अस्ति। तथा च यः शुण्ावान् अस्ति।
"हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।"
हस्ती
धृतराष्ट्रस्य एकः पुत्रः।
"हस्तिनः वर्णनं पौराणिकासु कथासु लभ्यते।"
गजः, हस्ती, करी, दन्ती, द्विपः, वारणः, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, लम्बकर्णः, पद्मी, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, मामृगः, मतङ्गजः, षष्ठिहायनः
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
"गजाय इक्षुः रोचते।"
शब्दकल्पद्रुमः
Sanskritहस्ती, [न्] सुहोत्रराजपुत्त्रः । यथा । बृहत्-क्षत्त्रस्य सुहोत्रः पुत्त्रः सुहोत्राद्धस्ती य इदंहस्तिनापुरं निर्म्मापयामास । इति विष्णु-पुराणे ४ अंशे १८ अध्यायः ॥
अपि च ।“सुहोत्रस्यापि दायादो हस्तो नाम बभूव ह ।तेनेदं निर्म्मितं पूर्व्वं पुरैव हस्तिनापुरम् ॥
हस्तिनश्चैव दायादास्त्रयः परमधार्म्मिकाः ।अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥
”इति हरिवंशे पितृकल्पे २० अध्यायः ॥
* ॥
अजमोदा । इति राजनिर्घण्टः ॥
(हस्तोऽस्त्य-स्येति । हस्त + इनिः ।) वृहत्पशुविशेषः ।हाती इति भाषा । तत्पर्य्यायः । दन्ती २दन्तावलः ३ द्विरदः ४ अनेकपः ५ द्विपः ६मतङ्गजः ७ गजः ८ नागः ९ कुञ्जरः १०वारणः ११ करी १२ इभः १३ स्तम्बेरमः १४पद्मी १५ । इत्यमरः । २ । ८ । ३४ ॥
मतङ्गः १६मातङ्गः १७ पीलुः १८ वराङ्गः १९ पुष्करी २०जलकङ्कः २१ महामृगः २२ स्तरमः २३शूर्पकर्णः २४ सिन्धुरः २५ सामजः २६ कटी २७अन्तःस्वेदः २८ दोर्घमारुतः २९ विलोम-जिह्वः ३० करटी ३१ पिण्डपादः ३२ महा-मदः ३३ पेटकी ३४ कटकी ३५ कुम्भी ३६निर्झरः ३७ । इति शब्दरत्नावली ॥
सिन्दूर-तिलकः ३८ पञ्चनखः ३९ शृङ्गारी ४०करेणुः ४१ कर्णिकी ४२ लिङ्गी ४३ साम-योनिः ४४ । इति जटाधरः ॥
राजीवः ४५जलकाङ्क्षः ४६ लतालकः ४७ पेचिलः ४८ ।इति त्रिकाण्डशेषः ॥
द्विरदनः ४९ करभी ५०विषाणी ५१ रदनी ५२ महाबलः ५३ भद्रः ५४द्रुमारिः ५५ षष्टिहायनः ५६ । इति राज-निर्घण्टः ॥
* ॥
स च चतुर्जातिर्यथा, --“भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः ॥
”इति हेमचन्द्रः ॥
* ॥
तद्द्वारा भ्रमणगुणाः । वातकोपनत्वम् । अङ्ग-स्थैर्य्यबलाग्निकारित्वञ्च । इति राजवल्लभः ॥
* ॥
कामुकोन्मत्तगजारोहणदोषो यथा ।“नारोहेत् कामुकोन्मत्तं गजं राजा कदाचन ।आरुह्य कामुकं तन्तु परत्रेह विषीदति ॥
”इति कालिकापुराणे ८९ अध्यायः ॥
* ॥
अथ गजायुर्व्वेदः ।“गजायुर्व्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।गजे चतुर्गुणा मात्रा ताभिर्गजरुगर्द्दनम् ॥
गजोपसर्गव्याधीनां शमनं शान्तिकर्म्म च ।पूजयित्वा सुरान् विप्रान् ब्राह्मणे कपिलां ददेत् ॥
दन्तिदन्तद्वये मालां निबध्नीयादुपोषितः ।मन्त्रणं मन्त्रिता वैद्यो वचा सिद्धार्थकामले ॥
सूर्य्याद्याः शिवदुर्गा श्रीर्विष्णुना रक्षसाङ्गणः ।बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥
भोजनं मन्त्रितं दद्यात् भस्मनोद्धूनयेद्गजम् ।भूती रक्षा शुभा मध्या वारुणी रक्षसां सदा ॥
त्रिफला पञ्चकोले च दशमूलं विडङ्गकम् ।शतावरी गुडूची च निम्बवासककिंशुकाः ॥
गजरोगविनाशाय प्रोक्तः कल्कः कषायकः ।आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥
”इति गारुडे । २०७ । ३६ -- ४२ ॥
* ॥
गजेवर्णनीयानि यथा, --“गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम् ।अरिव्यूहविभेदित्वं कुम्भमुक्तामलादयः ॥
”इति कविकल्पलतायां १ स्तवके २ कुसुमम् ॥
* ॥
तच्छकुनानि यथा ।“ऊर्द्ध्वं करं यः कुरुतेऽथवा योधत्ते करं दक्षिणदन्तभागे ।यो वा भवेत् वृंहितपूरिताशःकरी भवेदध्वगपूरिताशः ॥
”इति वसन्तराजशाकुने चतुष्पदशाकुनम् ॥
* ॥
स च प्रजापतिदेवताकः । यथा विष्णुधर्म्मोत्तरे ।“अभयं सर्व्वदैवत्यं भूमिर्वै विष्णुदेवता ।कन्या दासस्तया दासी प्राजापत्याः प्रकीर्त्तिताः ।प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥
”इत्यादि ॥
* ॥
तस्य प्रतिग्रहे आरुह्य ग्राह्यम् । यथा ।“करे गृह्य तथा कन्यां दासदास्यौ द्विजोत्तमाः ।करत्नु हृदि विन्यस्य धर्म्म्यो ज्ञेयः प्रतिग्रहः ।आरुह्य च गजस्योक्तः कर्णे चाश्वस्यकीर्त्तितः ॥
”इत्यादि ॥
* ॥
प्रतिग्रहाशक्तेन तदग्राह्यम् । यथा, ब्रह्मपुरा-णम् ।“ब्राह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा ।अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥
”इत्यादि ॥
तद्दानफलम् । यथा नन्दिपुराणम् ।“योऽश्वं रथं गजं वापि ब्राह्मणे प्रतिपादयेत् ।स शक्रस्य वसेल्लो के शक्रतुल्यो युगान् दश ।प्राप्यान्ते चेव मानुष्यं राजा भवति बुद्धिमान् ॥
”इति शुद्धितत्त्वम् ॥
* ॥
अपि च ।“गामश्वञ्च महीं हेम मणोनथ गजांस्तिलान् ।ये प्रयच्छन्ति पापेषु निरताः सर्व्वदा मुने ! ।न तेषां रौरवः पन्था दत्त्वैषां दानमित्युत ॥
”इति वह्निपुराणे यमशर्म्मिलोपाख्याननामा-ध्यायः ॥
* ॥
अथ गजपरीक्षा । तत्र कालः ।“ऐन्द्रमित्रवरुणानिलपुष्या-चन्द्रतोयरविवारिजतारे ।सूर्य्यशुक्रगुरुसोमजवारेश्रेयसे भवति कुञ्जरयानम् ॥
लग्ने चरे शुभसमाश्रितवीक्षिते वाचन्द्रस्य दृष्टिरिभयानविधौ विरुद्धा ।सौम्ये दिने करनिशाटवसुश्रवण्य-तोयेशमैत्रमदितिश्च शुभग्रहाहः ॥
स्यात् कुञ्जरक्रयणदर्शनदानकालःशेषेषु दुःखफलमार्कसुतेऽह्नि चैव ॥
गजानामष्टधा भेदाः संक्षेपेण प्रकाश्यते ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥
पुष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः ।एषां वंशप्रसूतत्वाद्गजानामष्टजातयः ॥
ये कुञ्जराः पाण्डरसर्व्वदेहाःसुदीर्घदन्ताः सितपुष्पदन्ताः ।अलोमशा अल्पभुजो बलाढ्यामहाप्रमाणा लघुपुष्टलिङ्गाः ॥
क्रुद्धाः समीके मृदवोऽन्यकालेलघ्वम्बुपाना बहुलोग्रदानाः ।विस्तीर्णदानास्तनुलोमपुच्छाऐरावतस्याभिजनप्रसूताः ॥
तेष्वेव सर्व्वेषु विशुद्धवर्णाअतीववृत्ताः प्रभवन्ति मुक्ताः ।नाल्पेन पुण्येन महीपतीनांस्पृशन्ति भूमण्डलमध्यमेते ।दन्ता विभग्ना अपि युद्धरङ्गेपुनः प्ररोहन्ति पुरैव तेषाम् ॥
१ ॥
ये कुञ्जराः कोमलसर्व्वदेहाःपुच्छा न दण्डाः खरगण्डदेशाः ।स्रवन्मदाः सन्ततरोषभाजोऽ-मरप्रियाः सर्व्वभुजो बलाढ्याः ॥
सुतीक्ष्णदन्ता रसना गजानांते पुण्डरीकप्रवरप्रसूताः ।ते पद्मगन्धं विसृजन्ति रेतोदानञ्च नैषां वमथुः प्रभूता ॥
न तोयपानेऽभ्यधिका स्पृहा चश्रमेऽपि नैते बलमुत्सृजन्ति ।अमी तु येषां निवसन्ति राज्ञांते वै समस्तक्षितिशासनार्हाः ॥
२ ॥
ये कुञ्जराः कर्कशखर्व्वदेहाःकदापि माद्यन्ति गलन्मदाश्च ।आहारयोगाद्बलवीर्य्यभाजोनात्यम्बुकामा बहुलोमगण्डाः ।विरूपदन्तास्तनुपुच्छकर्णाज्ञेया बधैर्व्वामनवंशजाताः ॥
३ ॥
ये दीर्घदेहास्तनुदीर्घशुण्डाःकुदन्तभाजो मलपूर्णदेहाः ।स्थविष्ठगण्डाः कलहप्रियाश्चते कुञ्जराः स्युः कुमुदस्य वंशाः ।अन्यद्विपान् दर्शनमात्रतस्तुनिघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥
४ ॥
ये स्निग्धदेहाः सलिलाभिलाषामहाप्रमाणास्तनुशुण्डदन्ताः ।स्थविष्ठदन्ताः श्रमदुःसहाश्चते कुञ्जराश्चाञ्जनवंशजाताः ॥
५ ॥
रेतश्च दानञ्च सृजन्ति शश्व-दानूपदेशे प्रभवन्ति ये तु ।ते पुष्पदन्ताभिजनप्रसूतामहाजवास्ते तनुपुच्छभागाः ॥
६ ॥
सुदीर्घदन्ता षहुलोमभाजोमहाप्रमाणाश्च सुकर्क्कशाङ्गाः ।भ्राम्यन्ति नाध्वभ्रमणाभियोगा-न्नाहारपानादिषु चातिशक्तिः ॥
मरुप्रदेशे विचरन्ति ते वैमुक्ताफलानामिह जन्म मध्ये ।महाशरीरातिसुकर्क्कशाङ्गानारिष्टदन्ता मृदुशुक्लदन्ताः ॥
महाशनाः क्षीणपुरीषमूत्र-विस्तीर्णकर्णास्तनुरोमगण्डाः ।ते सार्व्वभौमाभिजनप्रसूताविशुद्धमुक्ताः प्रभवन्ति चैषु ॥
७ ॥
ये दीर्घशुण्डाः सुविभक्तदेहामहाजवाः क्रोधपरीतकाश्च ।विस्तब्धकर्णास्तनुपुच्छदन्ताःसदाशनश्चैव वशाप्रियाश्च ॥
प्रवृद्धगण्डास्तनुलोमयुक्ताः ।ते सुप्रतीकप्रवरप्रसूताः ।महाप्रमाणामितमौक्तिकानिभवन्ति चैतन्निजगाद काप्यः ॥
८ ॥
* ॥
एकजातिसमुत्पन्नो गजः शुद्ध इति स्मृतः ।लक्षणञ्च यथा प्रोक्तं शुद्धञ्चैतत्र दृश्यते ॥
शुद्धद्विजातिसम्भूतस्तल्लक्षणस्रमन्वितः ।जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥
द्विजातिद्वयजातो यः स शूर इति कथ्यते ।द्विजातिजारजोत्पन्न उद्दान्त इति कथ्यते ॥
एवं संयोगभेदेन गजजातिरनेकधा ।तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥
ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः ।विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभो-जिनः ॥
शूरा विशाला बह्वाशाः क्रुद्धाः क्षत्त्रिय-जातयः ॥
* ॥
अथ गुणाः ।“यथा रक्तं यथा खङ्गो यथा स्त्री सप्तयो यथा ।परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥
रम्यो भीमो ध्वजोऽधीरो वीरः शूरोऽष्ट-मङ्गलः ।सुनन्दः सर्व्वतोभद्रः स्थिरो गम्भीरवेद्यपि ।वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥
”तद्यथाह भोजः ।“विभक्तावयवः पुष्टः सुदन्तः सुमहानपि ।तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥
१ ॥
अङ्कुशादिप्रहारेण यस्य भीतिर्न जायते ।स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थसाधनः ॥
२ ॥
शुण्डाग्रात् पुच्छपर्य्यन्त रेखा यस्यैव दृश्यते ।ध्वजः शुद्धो गजो नाम साम्राज्यप्राणदा-यकः ॥
३ ॥
समौ कुम्भौ खराकारौ आवर्त्तौ तत्र चोच्छ्रयौ ।अधीरोऽयं गजो नाम्ना राज्ञां विप्र विना-शनः ॥
४ ॥
आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति ।पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥
५ ॥
महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः ।भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मीविवर्द्धनः ॥
६ ॥
सितौ दन्तौ सितः पुच्छः सिता रेखा सितानखाः ।रक्तकुम्भाक्षिवीर्य्याङ्गैर्विज्ञेयः सोऽष्टमङ्गलः ॥
अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही ।नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥
आयोजनशतं यावदनर्थं कुरुते क्षयम् ।नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥
८ ॥
शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः ।गण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥
शश्वन्मदस्रुतिपरिप्लुतगण्डदेशा-स्तीक्ष्णाङ्कुशेन विनिवारयितुं न शक्याः ।ज्ञातिद्विषो नवपयोदरवा गभीराःपृथ्वीभुजां सकलसौख्यकरा भवन्ति ॥
*” ॥
अथ दोषाः ।“दीनः क्षीणोऽथ विषमो विरूपो विकलःखरः ।विमदो ध्मापकः काको धूम्रो जटिल इत्यपि ॥
अजिनी मण्डली श्वित्री हतावर्त्तो महाभयः ।राष्ट्रहा मुषली भाली निःसत्त्व इति विंशतिः ।महादोषाः समाख्याता गजानां भोजभूुजा ॥
”तद्यथा, --“अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्प्रभः ।दीनाख्यः कुरुते दीनं भूभुजं नात्र संशयः ॥
१ ॥
खर्व्वशुण्डो महापुच्छो निश्वासो वेगवर्ज्जितः ।क्षीणोऽयं कुरुते क्षीणं स्वामिनं धनसम्पदा ॥
२कुम्भे दन्तेऽक्षिकर्णे च वैषम्यं पार्श्वयोस्तथा ।यस्यायं विषमो नागो नागवत् कुरुते क्षयम् ॥
३ ॥
आस्कन्धात्तु शिरः क्षीणं पश्चाद्भागस्य पुष्टता ।विरूप इति नागोऽयं कुरुते भूधनक्षयम् ॥
४ ॥
नानाभोगैरपि कृतैर्यस्य नो जायते मदः ।युद्धाय नोपक्रमते विकलं तं विवर्ज्जयेत् ॥
५ ॥
खरता सहजा यस्य शरीरेऽस्तीति लक्ष्यते ।तनुदन्तकरो हस्ती खरः कुलविनाशनः ॥
६ ॥
न जायते मदो यस्य स्वकाले जायतेऽथवा ।विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥
७ ॥
लघुप्रमाणः क्षीणाङ्गस्तनुशुण्डशिरोदरः ।अश्रान्तं श्वसिति व्यग्रः पतेद्वै नेत्रयोर्म्मलम् ॥
त्रिके पुच्छाग्रतो वापि आवर्त्तो मण्डलोऽथवा ।बहिः प्रकुरुते लिङ्गं सर्वथा गतचेष्टवत् ॥
भूभुजा नहि वीक्ष्योऽयं ध्मापकाख्यो गजाधमःयदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥
८ ॥
शङ्खदेशौ यस्य भग्नौ स्कन्धदेशोऽतिगुच्छकः ।काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥
९ ॥
विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ ।भिद्येते वा विदीर्य्येतां स्वयं शून्यान्तरावुभौ ।कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥
१० ॥
मूर्द्धजाः कर्क्कशा रूक्षा जटारूपानुबन्धिनः ।यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥
११ ॥
स्कन्धे वा गात्रदेशे वा लग्नं चर्म्मेऽवलक्ष्यते ।अजिनी नाम नागोऽयं कुरुते भूधनक्षयम् ।नैनं स्पृशेन्न वीक्षेत यदीच्छेदात्मनः श्रियम् ॥
१२ ॥
मण्डलानि प्रदृश्यन्ते एकं द्वे वा बहूनि वा ।विरूपाण्युद्गतानीव मण्डली कुलनाशनः ॥
१३ ॥
तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥
१४हृदये उदरे चैव त्रिके पुच्छस्य मूलतः ।गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ।योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् ॥
१५ ॥
गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणंमुहुः ।अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥
राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः ॥
क्षपयत्यशुभो नागो दृष्टमात्रो न संशयः ॥
तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् ।व्याधिवह्निभयं वात्र यत्रास्ते स महाभयः ॥
१६ ॥
भृशं सन्ताड्यमानस्तु पादैकं यो न गच्छति ।पृष्ठोदरं समावृत्त्य रेखा रक्तसमा यदि ॥
न्यस्ताग्रिमपदस्थाने पश्चात् पातः पदे यदि ।अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥
राष्ट्रादपाक्रियतेऽयं भूमुजा श्रियमिच्छता ।राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंक्ष-यम् ॥
१७ ॥
पादाश्चात्यन्तविषमा दन्तौ चान्योन्यवैषमौ ।पञ्जरो दृश्यते भग्न एको वाष्टौ द्वयोऽथवा ॥
दन्तौ वा चलतो यस्य किमु वा न प्ररोहतः ॥
कुम्भौ वा विषदौ यस्य मुषलीस गजाधमः ।राष्ट्रदुर्गबलामात्यक्षयकृत्तं परित्यजेत् ॥
१८ ॥
चर्म्मखण्ड इवाभाति भाले यस्यातिकर्क्कशः ।भाली स कुरुते नागो भर्त्तुः कुलधनक्षयम् ॥
१९ ॥
पुष्टो विशालः सद्दन्तः सत्कारोऽपि शुभोऽपिसन् ।न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥
सर्व्वेषां गजदोषाणामुक्त एव महानयम् ।येनैकेन गुणाः सर्व्वे तृणायन्ते सुनिश्चितम् ॥
” २०पालकाप्यस्तु ।“क्षीणदन्ताङ्गशुण्डत्वं विषमत्वं रदादिषु ।शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥
” *गार्ग्यस्तु ।“ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाःक्षीणाः सुदीनवपुषो गुरुदीघपुच्छाः ।वश्यादिभिः खलु गुणैरहिता हितायते भूभुजामभिमता नहि वीक्षणीयाः ॥
यो न स्रवेन्मदजलं तनुमूर्द्ध्वभागोनिर्व्वीर्य्यतामुपगतो बहुभोजनेऽपि ।नेच्छत्यसावुपगतानपरान्निहन्तुंभूमीभुजा न हि गजोऽयमवेक्षणीयः ॥
दोषैर्दुष्टान् गजान्राजा न वीक्षेत कदाचन ।न्यसेद्वा परराष्ट्रेषु नगरात् क्रियते बहिः ॥
दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः ।दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ।पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् ।देवसूक्तेन जुहुयादयुतं वातितत्परः ॥
तिलान् वा जुहुयादग्नौ तत्प्रतीकारहेतवे ।ब्रह्मादिजातिभेदेन जातिरुक्ता चतुर्व्विधा ॥
चतुर्व्विधानां भूपानां वाहने ते शुभप्रदाः ।ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥
ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः ।चिकित्सापि तथा तेषां मात्रा चैव गरीयसी ॥
”इति गजपरीक्षा ॥
इति भाजराजकृतयुक्तिकल्पतरुः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
