| YouTube Channel

हस्तामलक (hastAmalaka)

 
शब्दसागरः
English
हस्तामलक
n.
(-कं)
1. The fruit of the myrobalan held in the hand,
(literally.)
2. Any thing clearly seen or understood, (figuratively.)
Monier Williams Cologne
English
हस्तामलक
n.
‘the fruit or seed of the Myrobalan in the hand’ (as a symbol of something palpable or clear),
R.
N.
of wk. on the Vedānta by the next
हस्तामलक
m.
N.
of a son of PrabhĀkara (pupil of Śaṃkarācārya)
Apte Hindi
Hindi
हस्तामलकम्
नपुं*
हस्तः-आमलकम् -
"`हाथ में रक्खा आंवले का फल' यह एक वाग्धारा है, और उस समय प्रयुक्त होती है जब कभी ऐसी बात का निर्देश करना हो तो बिल्कुल स्पष्ट और अनायास हो बोधगम्य हो "
L R Vaidya
English
hasta-Amalaka {% n. %} the fruit of the myrobalan held in the hand (lit.)
anything clearly seen or understood (fig.).
Aufrecht Catalogus Catalogorum
English
हस्तामलक son of Prabhākara, pupil of Śaṅkarācārya.
Oxf. 227^b. 255^a.
हस्तामलक
Brahmamahiman.
Dīpikā on Śaṅkarācārya's Vedāntasiddhānta.
पुराणम्
English
हस्तामलक / HASTĀMALAKA. A disciple of Śrī śaṅkara. (See under śaṅkarācārya, para 7).
शब्दकल्पद्रुमः
Sanskrit
हस्तामलकं,
क्ली,
(हस्तस्थितं आमलकम् ।)करस्थितामलकीफलम् (यथा, रामायणे ।“त्वया दृष्टं जगत्सर्व्वं हस्तामलकवत् सदा
”)वेदान्तग्रन्थविशेषः तल्लिख्यते श्रीमच्छङ्करा-चार्य्यस्य दिग्विजयसमये पथिमध्ये कञ्चित्बालकं प्रति प्रश्नः ।“कस्त्वं शिशो ! कस्य कुतोऽसि गन्ताकिं नाम ते त्वं कुत आगतोऽसि ।एतद्वद त्वं मम सुप्रसिद्धंमत्प्रीतये प्रीतिविवर्द्धनोऽसि
”बालकस्योत्तरम् ।“नाहं मनुष्यो देवयक्षोन ब्राह्मणक्षत्त्रियवैश्यशूद्राः ।न ब्रह्मचारी गृही वनस्थोभिक्षुर्न चाहं निजबोधरूपः
”एतस्य श्लोकस्य शङ्कराचार्य्येण भाष्यं कृतम्
“निमित्तं मनश्चक्षुरादिप्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः ।रविर्लोकचेष्टानिमित्तं यथा यःस नित्योपलब्धिस्वरूपोऽहमात्मा
यमग्न्युष्णवन्नित्यबोधस्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि ।प्रवर्त्तन्त आश्रित्य निष्कम्पमेकंस नित्योपलब्धिस्वरूपोऽहमात्मा
मुखाभासको दर्पणे दृश्यमानोमुखत्वात् पृथक्त्वेन नैवास्ति वस्तु ।चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलब्धिस्वरूपोऽहमात्मा
यथा दर्पणाभाव आभासहानौमुखं विद्यते कल्पनाहीनमेकम् ।तथा धीवियोगे निराभासको यःस नित्योपलब्धिस्वरूपोऽहमात्मा
मनश्चक्षुरादेर्विमुक्तः स्वयं योमनश्चक्षुरादेर्मनश्चक्षुरादिः ।मनश्चक्षुरादेरगम्यस्वरूपःस नित्योपलब्धिस्वरूपोऽहमात्मा
एको विभाति स्वतः शुद्धचेताःप्रकाशस्वरूपोऽपि नानेव धीषु ।शरावोदकस्थो यथा भानुरेकःस नित्योपलब्धिस्वरूपोऽहमात्मा
यथानेकचक्षुः प्रकाशी रविर्नक्रमेण प्रकाशीकरोति प्रकाश्यम् ।अनेका धियो यस्तथैकप्रबोधःस नित्योपलब्धिस्वरूपोऽहमात्मा
विवस्वत्प्रभातं यथा रूपमक्षंप्रगृह्णाति नाभातमेवं विवस्वान् ।यथा भात आभासयत्यक्षमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा
यथा सूर्य्य एकोऽप्स्वनेकश्चलासुस्थिरास्वप्यनन्वन्विभाव्यस्वरूपः ।चलासु प्रभिन्नासु धीष्वेक एवंस नित्योपलब्धिस्वरूपोऽहमात्मा
घनच्छन्नदृष्टिर्घनच्छन्नमर्कयथा निष्प्रभं मन्यते चातिमूढः ।तथा बद्धवद्भाति यो मूढदृष्टेःस नित्योपलब्धिस्वरूपोऽहमात्मा
१०
समस्तेषु वस्तुष्वनुस्यूतमेकंसमस्तानि वस्तूनि यन्न स्पृशन्ति ।वियद्वत् सदा शुद्धमच्छस्वरूपंस नित्योपलब्धिस्वरूपोऽहमात्मा
११
उपाधौ यथा भेदता सन्मणीनांतथा भेदता बुद्धिभेदेषु तेषु ।यथा चन्द्रकाणां जले चञ्चलत्वंतथा चञ्चलत्वं तवापीह विष्णो
१२
इति हस्तामलकं समाप्तम्
वाचस्पत्यम्
Sanskrit
हस्तामलक
न०
हस्तस्वितमामलकम् आमलक्याः फलंतदिव वा करावस्थितामलकफले तद्वत् अनायास-लभ्ये पदार्थे करामलकादयोऽप्यत्र वेदान्तप्रसिद्ध-ग्रन्थभेदे