| YouTube Channel

हल्लीषकं (hallISakaM)

 
शब्दकल्पद्रुमः
Sanskrit
हल्लीषकं,
क्ली,
(हल्लीषमेव स्वार्थे कन् ।)स्त्रीणां मण्डलिकानृत्यम् इति जटाधरः
“मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीषकन्तु तत्
इति हेमचन्द्रः
एकस्य पुंसो बहुभिः स्त्रीभिः क्रीडनम् तत्तुरासक्रीडा यथा, --“गोपीनां मण्डलीनृत्यबन्धे हल्लीषकं विदुः
”इति कोषात्
तल्लक्षणन्तु ।“पृथुं सुवृत्तं मसृणं वितस्ति-मात्रोन्नतं कौ विनिखन्य शङ्कुकम् ।आक्रम्य पद्भ्यामितरेतरन्तुहस्तैर्भ्रमोऽयं खलु रासगोष्ठी
”इति हरिवंशटीकायां नीलकण्ठः
हल्लीसकं दन्त्यसकारमध्यमपि