| YouTube Channel

हलधरः (haladharaH)

 
Wordnet
Sanskrit
Synonyms:
बलदेवः, बलभद्रः, संकर्षणः, हलधरः, बलः, मधुप्रियः, बलरामः, तालाङ्कः, प्रलम्बघ्नः, अच्युताग्रजः, रेवतीरमणः, रामः, कामपालः, हलायुधः, नीलाम्बरः, रौहिणेयः, तालाङ्कः, सुषली, हली, सङ्कर्षणः, सीरपाणिः, कालिन्दीभेदनः, रुक्मिदर्पः, हलभृत्, हालभृत्, सौनन्दी, गुप्तवरः, संवर्तकः, बली, मुसली
noun
कृष्णस्य ज्येष्ठः भ्राता यः रोहिण्याः पुत्रः आसीत्।
"बलरामः शेषनागस्य अवतारः अस्ति इति मन्यन्ते।"
शब्दकल्पद्रुमः
Sanskrit
हलधरः,
पुं,
(धरतीति धृ + अच् हलस्यधरः ।) बलदेवः यथा, --“नीलाम्बरो हलधरो हलभृद्धालभृत् बलः
”इति शब्दरत्नावली
(यथा महाभारते २२० ।“ततो हलधरः क्षीवो रेवतीसहितः प्रभुः ।अनुगम्यमानो गन्धर्व्वैरचरत्तत्र भारत !
”)हालिकः यथा, ज्योतिस्तत्त्वे ।“सालङ्कारो हलधरः स्रग्भिश्च पूजितं हलम्