हरिवासर (harivAsara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishहरिवासर - harivAsara - - viSNu's day
वैकुण्ठपुरी - vaikuNThapurI - - viSNu's city
विष्णुपुर - viSNupura - - viSNu's city
श्रीरङ्गपत्तन - zrIraGgapattana - - viSNu's city
हरिबीज - haribIja - - viSNu's seed
हरिद्वार - haridvAra - - viSNu's gate
दरेन्द्र - darendra - - viSNu's conch
विष्णुदास - viSNudAsa - - viSNu's slave
विष्णुलोक - viSNuloka - - viSNu's world
विष्णुगृह - viSNugRha - - viSNu's abode
हरिशयन - harizayana - - viSNu's sleep
विष्णुशक्ति - viSNuzakti - - viSNu's energy
वैकुण्ठ - vaikuNTha - - viSNu's heaven
विष्णुचक्र - viSNucakra - - viSNu's discus
विष्णुमन्दिर - viSNumandira - - viSNu's temple
विष्णुत्व - viSNutva - - viSNu's nature
सुदर्शनचक्र - sudarzanacakra - - viSNu's discus
पुरुषवाह - puruSavAha - - viSNu's vehicle
विष्णुरथ - viSNuratha - - viSNu's chariot
विष्णुवाह्य - viSNuvAhya - - viSNu's vehicle
विष्णुवाहन - viSNuvAhana - - viSNu's vehicle
विष्णुमाया - viSNumAyA - - viSNu's illusion
विष्णुतत्त्व - viSNutattva - - viSNu's real essence
वैकुण्ठगति - vaikuNThagati - - going to viSNu's heaven
देवमञ्जर - devamaJjara - - jewel on viSNu's breast
मत्स्यप्रादुर्भाव - matsyaprAdurbhAva - - viSNu's fish incarnation
ससुदर्शन - sasudarzana - - armed with viSNu's discus
वैकुण्ठीय - vaikuNThIya - - relating to viSNu's heaven
विष्णुपत्नी - viSNupatnI - - viSNu's wife name of aditi
हरिहेति - hariheti - - viSNu's weapon i.e. the cakra
दशशतार - dazazatAra - - viSNu's thousand-fellied disc
क्रौड - krauDa - - relating to viSNu's Avatar as a hog
विष्णुपद - viSNupada - - mark of viSNu's foot worshipped at gayA
तुलसीविवाह - tulasIvivAha - - marriage of viSNu's image with the tulasI
विष्णुशयनबोधदिन - viSNuzayanabodhadina - - day of viSNu's lying down and of his awaking
वृद्धविष्णु - vRddhaviSNu - - older viSNu or an older recension of viSNu's law-book
विष्णुपञ्जर - viSNupaJjara - - kind of mystical prayer or charm for securing viSNu's favour
योगनिद्रा - yoganidrA - - viSNu's Sleep personified as a goddess and said to be a form of durgA
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiहरिवासरः
हरि-वासरः -
"विष्णु दिवस, एकादशी"
शब्दकल्पद्रुमः
Sanskritहरिवासरं, (हरेर्वासरम् ।) श्रीहरेर्द्दिनम् ।तत्तु एकादशीद्वादशीतिथिरूपम् । यथा, --“एकादशी द्बादशी च प्रोक्ता श्रीचक्रपाणिनः ॥
”“एकादशीमुपोस्यैव द्वादशीं समुपोषयेत् ।न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥
”इति च तिय्यादितत्त्वम् ॥
अपि च ।“यानि कानि च पापानि ब्रह्महत्यादिकानि च ।अन्नमाश्रित्य सर्व्वाणि तिष्ठन्ति हरिवासरे ॥
अघं स केवलं भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥
”इत्येकादशीतत्त्वम् ॥
* ॥
द्वादश्याः प्रथमपादः । यथा । विष्णुधर्म्मोत्तरे ।“द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ।तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
अथ हरिवासरे जागरणादिविधिः । स्कान्देश्रोब्रह्मनारदसंवादे ।“शृणु नारद ! वक्ष्यामि जागरस्य तु लक्षणम् ।येन विज्ञातमात्रेण दुर्लभो न जनार्द्दनः ॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।धूपं दीपं च नैवेद्यं पुष्पगन्धानुलेपनम् ॥
फलमर्घ्यञ्च श्रद्धा च दानमिन्द्रियनिग्रहः ।सत्यान्वितं विनिद्रञ्च मुदा युक्तं क्रियान्वितम् ॥
साश्चर्य्यं चैव सोत्साहं पापालस्यादिवर्ज्जितम् ।प्रदक्षिणाभिसंयुक्तं नमस्कारपुरःसरम् ॥
नोराजनसमायुक्तमनिर्विण्णेन चेतसा ।यामे यामे महाभाग ! कुर्य्यादारात्रिकं हरेः ।एतैर्गुणैः समायुक्तं कुर्य्याज्जागरणं हरेः ॥
” * ॥
किञ्च ।“य एवं कुरुते भक्त्या वित्तशाठ्यविवर्ज्जतः ।जागरं वासरे विष्णोर्लीयते परमात्मनि ॥
धनवान् वित्तशाठ्येन यः करोति प्रजागरम् ।तेनात्मा हारितो नूनं कितवेन दुरात्मना ॥
”तत्रैव श्रीमदुमामहेश्वरसंवादे ।“सशास्त्रं जागरं यच्च नृत्यगान्धर्व्वसंयुतम् ।सवाद्यं तालसंयुक्तं सदीपं साधुभिर्युतम् ॥
उपचारैश्च संयुक्तं यथोक्तैर्भक्तिभावितैः ।मनसस्तुष्टिजननं समुदं लोकरञ्जनम् ॥
गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् ।कर्त्तव्यं तत् प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥
” * ॥
किञ्च ।“परापवादयुक्तं तु मनः प्रशमवर्ज्जितम् ।शास्त्रहीनमगान्धर्व्वं तथा दीपविवर्ज्जितम् ॥
शक्त्योपचाररहितमुदासीनं सनिद्रकम् ।कलियुक्तं विशेषेण जागरं नवधाधमम् ॥
” * ॥
किञ्च । तत्रैव ।“अभावे वाचकस्याथ गीतं नृत्यञ्च कारयेत् ।वाचके सति देवेशि ! पुराणं प्रथमं पठेत् ॥
” * ॥
अथ जागरणनित्यत्वम् ।स्कान्दे ब्रह्मनारदसवादे ।“अतीतानागतान् वापि पातयिष्यन्ति पूर्व्वजान् ।अकुर्व्वाणाः प्रपत्स्यन्ति पुत्त्रधर्म्मवसुक्षयम् ।जायते नरके वासः पितृभिः सह कालशः ॥
न पुरश्चरणात् पापं व्रतैर्दानैः समाधिभिः ।विलयं याति विप्रेन्द्र ! विना द्वादशीजागरम् ॥
”तत्रैवोमामहेश्वरसंवादे ।“संप्राप्तं जागरे विष्णोर्ये न कुर्व्वन्ति जागरम् ।भ्रश्यते सुकृतं तेषां वैष्णवानाञ्च निन्दया ॥
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति ।न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥
”अतएवोक्तं ब्रह्मणा । तत्रैव ।“हृदये वर्त्तते यस्य सदा योगेश्वरो हरिः ।मतिरुत्पद्यते तस्य द्वादशीजागरोपरि ॥
* ॥
सामान्धेन पुरालेखि गीतनृत्यादिनित्यता ।अधुना लिख्यते सेयं जागरे च विशेषतः ॥
”अथ जागरे गीतादिनित्यत्वम् । स्कान्दे उमा-महेश्वरसंवादे ।“मूकवत्तिष्ठते यो वै गानं पाठञ्च नाचरेत् ।सप्त जन्मानि मूकत्वं जायते जागरे हरेः ॥
यो न नृत्यति मूढात्मा पुरतो जागरे हरेः ।पङ्गुत्वं जायते तस्य सप्त जन्मादि पार्व्वति ! ॥
पाद्मे पक्षवर्द्धनीप्रसङ्गे ।“स्तुवन्ति न प्रशंसन्ति ये जना जागरं हरे ।नोत्सवो भवते तेषां गृहे जन्मानि सप्त च ॥
स्तुवन्ति ये प्रशंसन्ति जागरं चक्रपाणिनः ।नित्योत्सवो भवेत्तेषां जन्मानि दश पञ्च च ॥
”अथ जागंरणमाहात्म्यम् ।स्कान्देब्रह्मनारदसंवादे तथा श्रीप्रह्रादसंहिता-याञ्च ।“न गयापिण्डदानेन न तीर्थैर्बहुभिर्मखैः ।पूर्व्वजा मुक्तिमायान्ति विना द्वादशीजागरम् ॥
सर्व्वावस्थोऽपि यः कुर्य्याद्घादश्यां जागरं हरेः ।यामेनैकेन दहते पापं जन्मसहस्रजम् ॥
* ॥
यः कुर्य्याद्दीपदानन्तु रात्रौ जागरणे हरेः ॥
निमिषे निमिषे व्रिप्र ! लभते गोशतं फलम् ॥
यः कुर्य्याज्जागरे पूजां द्वादश्यां कुसुमैर्हरेः ।पुष्पे पुष्पेऽश्वमेधस्य फलमाप्नोति मानवः ॥
यो दहेच्चागुरुं विष्णोः पूजां कृत्वा तु जागरे ।निमिषार्द्धेन लभते तिलपात्रशतं फलम् ॥
निमेषञ्च दहेद्धूपं सघृतं गुग्गुलुं हरेः ।लभते जागरे विप्र ! पुण्यं माससमुद्भवम् ॥
यो दद्याज्जागरे विष्णोर्हविष्यान्नसमुद्भवम् ॥
नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥
पक्वान्नानि च यो दद्यात् फलानि विविधानि च ।जागरे पद्मनाभस्य लभते गोऽयुतं फलम् ॥
सकर्पूरञ्च ताम्बूलं यो ददाति हि जागरे ।पद्मनाभप्रसादेन श्वेतद्वीपे वसेच्चिरम् ॥
जागरे पद्मनाभस्य यः कुर्य्यात् पुष्पमण्डपम् ।स पुष्पकविमानैस्तु क्रीडते ब्रह्मसद्मनि ॥
जागरे पद्मनाभस्य सकर्पूरं तथागुरुम् ।दहते दहते पापं जन्मलक्षसमुद्भवम् ॥
स्नानं ददाति कृष्णस्य दधिक्षीरघृतादिभिः ।रात्रौ जागरणे विप्रा ! मुक्तिभागी भवेद्धि सः ॥
दिव्याम्बराणि यो दद्याज्जागरे समुपस्थिते ।मन्वन्तराणि वसते तन्तुमंख्यासमानि वै ॥
दद्यादाभरणं विष्णार्हेमजं रत्नसम्भवम् ।सप्तकल्पानि वसते सोत्सङ्गे मत्प्रियो हि सः ॥
श्रीचन्दनं सकर्पूरं सागुरुं तु सकेशरम् ।युक्तं मृगमदेनापि यच्छते हरिजागरे ॥
एकैकं मुनिशार्दूल ! अश्वमेधाधिकं फलम् ।कलौ भवेन्न सन्देहो वासुदेवप्रसादतः ॥
घृतेन दीपकं विष्णोर्गव्येन च विशेषतः ।ज्वालयेज्जागरे रात्रौ निमेषे गोऽयुतं फलम् ॥
जागरे वासुदेवस्य कर्पूरेण च दीपकम् ।यो ज्वालयति कोटीनां कपिलानां लभेत्फलम् ।आरात्रिकं हरेर्यस्तु सकर्पूरन्तु जागरे ।कुरुते मोक्षमाप्नोति कुलायुतसमन्वितः ॥
विना हि योऽपि कर्पूरं कुर्य्यादारात्रिकं हरेः ॥
निःस्वोऽपि जागरे विष्णोर्दाता भूरिफलं लभेत् ॥
वारिजं वारिणा पूर्णं शिरसि स्नापयेद्धरिम् ।बिभर्त्ति शिरसा सोऽयं गङ्गास्नानकृतं फलम् ॥
कृत्वा पूजां हरेर्यस्तु जागरे पुरतः शुचिः ।पठेन्नामसहस्रन्तु गीतां नागविमोक्षणम् ॥
माङ्गल्यस्नपनं पुण्यं स्तवराजमनुस्मृतिम् ।वैदिकानि व जप्यानि भक्त्या रात्रौ मुहुर्मुहुः ॥
भवेत् प्रत्यक्षरं पुण्यं कपिलागोशतोद्भवम् ।जागरे यज्ञरूपस्य पुरतः पठतो हरेः ॥
यः पुनः कुरुते गीतं सनृत्यं वाद्यसंयुतम् ।न तत् क्रतुशतैः पुण्यं व्रतदानशतैरपि ॥
यः पुनः कुरुते गीतं विलज्जो नृत्यते यदि ।लभते निमिषार्द्धेन चतुराश्रमजं फलम् ॥
जागरे पद्मनाभस्य कुर्य्यात् पुस्तकवाचनम् ।श्लोकसंख्यां वसेत् स्वर्गे युगानि हरिसन्निधौ ॥
कुर्य्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः ।चूतवृक्षोद्भवैः पत्रैर्जागरे चक्रपाणिनः ॥
युगानि पत्रसंख्यानां स्वर्गे तस्योत्सवो भवेत् ।पूज्यते वासवाद्यैश्च क्रीडते चाप्सरोवृतः ॥
नृत्यमानस्य मर्त्यस्य ये केचिन्निरयं गताः ।विमुक्ता धर्म्मराजेन मुक्तिं यान्ति हरेः पदम् ॥
गीतध्वनिसुसन्तुष्टो जागरे तु रमापतिः ।वासवस्याधिकं सौख्यं दद्यान्मन्वन्तरं शतम् ॥
नृत्येन मर्त्ये सौख्यं तु स्वर्गे नृत्येन जागरे ।रसातले तथा सौख्यं मुक्तिर्नृत्यादवाप्यते ॥
प्रेक्षणीयप्रदानेन यत् पुण्यं कथितं बुधैः ।न तत् कोटिमखैः पुण्यं योगैः सांख्यैरवाप्यते ॥
दीपमालां हरेरग्रे यः करोति प्रजागरे ।विमानकोटितंयुक्तः कल्पान्तं वसते दिवि ॥
* ॥
चरितं रामचन्द्रस्यः यः शृणोति हरेर्दिने ।रात्रौ वाल्मीकिना प्रोक्तं तत्समो न हि वैष्णवः ॥
यः पुनः पठते रात्रौ महाभारतसम्भवाम् ।कथां जागरणे विष्णोः कुलकोटिं नयेद्दिवम् ॥
औत्तानपादेश्चरितं ध्रुवस्य च महात्मनः ।कृष्णस्य बालहरितं जागरे पठते हि यः ॥
युमकोटिसहस्रस्य क्षयः पापस्य जायते ।तस्माज्जागरणं कार्य्यं पक्षयोः शुक्लकृष्णयोः ॥
श्रीमद्भागवतं भक्त्या पठते विष्णुसन्निधौ ।जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥
अष्टादश पुराणानि पुराणपुरुषस्य च ।दयितानि सदा विष्णोर्विशेषेण तु जागरे ॥
यो गीतां पठते रात्रौ विष्णोर्नामसहस्रकम् ।वेदोक्तानां पुराणानां जागरी पुण्यमाप्नुयात् ॥
धेनुदानं तु यः कुर्य्याज्जागरे चक्रपाणिनः ।लभते नात्र सन्देहः सप्तद्वीपावनीफलम् ॥
जागरे पद्मनाभस्य यः कुर्य्याच्छुभमण्डपम् ।मण्डले ध्रुवलोकस्य यावत्तिष्ठति पद्मभूः ॥
* ॥
सर्व्वेषामेव पुण्यानां महत् पुण्यं महीतले ।द्वादश्यां जागरे विप्र ! प्रसिद्धं भुवनत्रये ॥
जागरं ये चिकीर्षन्ति कर्म्मणा मनसा गिरा ।न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन ॥
जागरे नृत्यमानन्तु दृष्ट्वा वै द्वादशीदिने ।रात्रौ मार्जयते शौरिः पापं तस्य युगा-र्ज्जितम् ॥
”इति श्रीहरिभक्तिविलासे १३ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
