| YouTube Channel

हरिद्वारं (haridvAraM)

 
शब्दकल्पद्रुमः
Sanskrit
हरिद्वारं,
क्ली,
(हरेस्तत्प्राप्तेर्द्वारमिव ।) स्वनाम-ख्यातनगरम् तत्तु तीर्थविशेषः यथा, --“शृणु देवि महामाये पठेच्चण्डीं शृणोत्यपि ।गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः
प्रयागे मुण्डनाच्चैव हरिद्वारे हरेर्गृहे ।तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे
”इति रुद्रयामले हरगौरीसंवादे रुद्रचण्डी
*
तत्र गङ्गावतरणात् गङ्गाद्वारमिति ख्यातम् ।तत्र स्नानादिफलं यथा, --“ततो गच्छेत धर्म्मज्ञ नमस्कृत्य महागिरिम् ।स्वर्गद्वारेण तत्तुल्यं गङ्गाद्वारं संशयः
तत्राभिषेकं कुर्व्वीत कोटितीर्थे समाहितः ।लभते पुण्डरीकन्तु कुलञ्चैव समुद्धरेत्
तत्रैकरात्रिवासेन गोसहस्रफलं लभेत्
”इति पाद्मे भूमिखण्डे १२ अध्यायः
अपिच ।“सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।गङ्गाद्वारे प्रयागे गङ्गासागरसङ्गमे
सवासवाः सुराः सर्व्वे गङ्गाद्वारं मनोरमम् ।समागत्य प्रकुर्व्वन्ति स्नानदानादिकं मुने !
दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम् ।मनुष्यपक्षिकीटाद्यास्ते लभन्ते परं पदम्
”इति तत्रैव क्रियायोगसारे अध्यायः *
पुस्तकान्तरे गङ्गाद्वारस्थाने हरिद्वारमितिपाठः