| YouTube Channel

हनुमान् (hanumAn)

 
Wordnet
Sanskrit
Synonyms:
हनुमान्, पवनपुत्रः, पवनसुतः, पवनकुमारः, अञ्जनीनन्दनः, आञ्जनेय, कपीशः, केसरीनन्दनः, वातात्मजः, मारुतिः, मनुमान्, योगचरः, अनिली, हिडिम्बारमणः, रामदूतः, अर्जूनध्वजः, मरुतात्मजः, वातात्मजः, अनिलात्मजः, कपीन्द्रः
noun
पवनस्य पुत्रः यः बलशाली तथाच अमरः अस्ति।
"हनुमान् रामस्य भक्तः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
हनुमान्, [त्] पु, (हनुरस्त्यस्येति हनु +मतुप् ।) वानरविशेषः तु अञ्जनागर्भेपवनीरसाज्जातः रावणबधार्थश्रीरामदूतश्च ।तत्पर्य्यायः मनूमान् आञ्जनेयः योग-चरः अनिली हिडिम्बारमणः राम-दूतः अर्ज्जुनध्वजः इति त्रिकाण्डशेषः
मरुतात्मजः इति जटाधरः
*
अथहनूमत्कल्पः ।देव्युवाच ।“शैवानि गाणपत्यानि शाक्तानि वैष्णवानि ।साधनानि सौराणि चान्यानि यानि कानिच ।श्रुतानि तानि देवेश ! त्वद्वक्त्रान्निःसृतानि
किङ्किदन्यत्तु देवानां साधनं यदि कथ्यताम् ।शङ्कर उवाच ।शृणु देवि ! प्रवक्ष्यामि सावधानावधारय ।हनूमत्साधनं पुण्यं महापातकनाशनम्
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।जयो यस्य प्रसादेन लोकत्रयजितो भवेत्
*
तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम्
वियत् सलवकं हनूमते तदनन्तरम् ।रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः
एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः ।तव स्नेहेन भक्त्या दासोऽस्मि तव सुन्दरि !
एतन्मन्त्रं अर्ज्जुनाय प्रदत्तं हरिणा पुरा ।जयेन साधनं कृत्वा जितं सर्व्वं चराचरम्
नदीकूले विष्णुगेहे निर्ज्जने पर्व्वते वने ।एकाग्रचित्तमाधाय साधयेत् साधनं महत्
”ध्यानमाह ।“महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।तिष्ठ तिष्ट रणे दुष्ट घोररावं समुत्सृजन्
लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ।ज्वलदग्निसमं नेत्रं सूर्य्यकोटिसमप्रभम्
अङ्गदाद्यैर्महावीरैर्व्वेष्टितं रुद्ररूपिणम् ।एवंरूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम्
लक्षजपात् प्रसन्नः स्यात् सत्यं ते कयितं मया ।ध्यानैकमात्रतः पुंसां सिद्धिरेव संशयः
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ।प्राणायामं षडङ्गञ्च मूलेन सकलं चरेत्
पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् ।ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम्
रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया ।कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कपिं प्रभुम्
कर्णिकायां हनूमन्तं ध्यात्वा पाद्यादिकं ततः ।सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनोलकम्
जाम्बवन्तञ्च कुमुदं केशरिणं दले दले ।पूर्व्वादिक्रमतो देवि ! पूजयेद्बन्धचन्दनैः
पवनञ्चाञ्जनाञ्चैव पूजयेद्दक्षवामतः ।दलाग्रे षु कपिभ्योऽपि पुष्पाञ्जल्यष्टकं ततः
ध्यात्वा तु मन्त्राराजं वै लक्षं यावत्तु साधकः ।लक्षान्तदिवसं प्राप्य कुर्य्याच्च पूजनं महत्
एकाग्रचित्तप्रनसा तस्मिन् पवननन्दने ।दिवारात्रौ जपं कुर्य्यात् यावत् सन्दर्शनंभवेत्
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ।सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः
यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ।वरं लब्ध्वा साधकेन्द्री विहरेदात्मगः सुखैः
एतद्धि साधनं पुण्यं देवानाभाप दुर्लभम् ।तव स्नेहात् समाख्यातं भक्तासि मयि पार्व्वति
”इति गावडे हनूमत्साधनमिति तन्त्रसारः
*
“हनूमतोऽतिगुह्यन्तु लिख्यते वीरसाधनम् ।ब्राह्म्ये मुहूर्त्ते उत्थाय कृतनित्यक्रियो द्विजः
गत्वा नदीं ततः स्नात्वा तीर्थमाबाह्य चाष्टधा ।मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसंख्यया
”ततो वाससो परिधाय गङ्गातीरे पर्व्वते वाउपविश्य हां अङ्गुष्ठाभ्यां नमः इत्यादिनाकराङ्गन्यासौ कुर्य्यात् ततः प्राणायामः ।अकारादिवर्णानुच्चार्य्य वामनासापुटेन वायुंपूरयेत् पञ्चवर्गानुच्चार्य्य वायुं स्तम्भयेत् ।यकारादिवर्णानुच्चार्य्य दक्षिणनासापुटेन रेच-येत् एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यासंकृत्वा ध्यायेत्
*
“ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् ।धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम्
लक्ष्मणञ्च महावीरं पतितं रणभूतले ।गुरुञ्च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्व्वतम्
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।आब्रह्माण्डं समाव्याप्य कृत्वा भीमं कलेवरम्
”इति ध्यात्वा षट्सहस्रं जपेत्
अस्य मन्त्रः ।“स्वबीजं पूर्व्वमुच्चार्य्य पवनञ्च ततो वदेत् ।नन्दनञ्च ततो देयं ङेऽवसानेऽनलप्रिया
दशार्णीऽयं मनुः प्रोक्तो नराणां सुरपादपः
”हां पवननन्दनाय स्वाहा इतिमन्त्रः सप्तम-दिवसे दिवारात्रं व्याप्य जपेत् ततो महाभयंदत्त्वा त्रिभागशेषासु निशासु नियतमागच्छति ।साधको यदि मायां तरति तदेप्सितं वरंप्राप्नोति ।“विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्र-हम् ।तत्क्षणादेव चाप्नोति सत्यं सत्यं सुनिश्चितम्
”इति तन्त्रसारः