| YouTube Channel

स्वोपार्जित (svopArjita)

 
शब्दसागरः
English
स्वोपार्जित
mfn.
(-तः-ता-तं) Self-got, self-acquired, (as wealth, &c.)
E.
स्व self, उपार्जित obtained.
Yates
English
स्वो_पार्जित (तः-ता-तं)
a. Self-acquired.
Wilson
English
स्वोपार्जित
mfn.
(-तः-ता-तं) Self-got, self-acquired, (as wealth,
&c.)
E.
स्व self, उपार्जित obtained.
Monier Williams Cologne
English
स्वोपार्जित
mfn.
self-acquired,
Dāyat.
Wordnet
Sanskrit
Synonyms:
स्वार्जित, स्वोपार्जित, स्वयमर्जित
adjective
स्वेन अर्जितं धनम्।
"एतद् स्वार्जितं धनम्।"
शब्दकल्पद्रुमः
Sanskrit
स्वोपार्ज्जितः, त्रि, (स्वेनोपार्ज्जितः ।) स्वयम-र्ज्जितः स्वयमुपात्तः यथा, पिता चेत् पुत्त्रान्विभजेत् तस्य स्वेच्छा स्वयमुपात्तेऽर्थे पत्तामहेतु पितापुत्त्रयास्तुल्यं स्वामित्वम् इति विष्णु-सूत्रम् अपि मनुविष्णू ।“पतृकन्तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्जितम्
”तत् स्वयमर्जितमिति कृत्वा विभजेदित्यन्वयः ।एतत्तु स्थावरविषयम् मण्यादावनुद्धृतेऽपि पितु-रेव स्वाच्छन्द्यम् ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।तसम्भूय सुतान् सर्व्वान् दानं विक्रयः
पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि ।स्थावरन्तु भुज्येत प्रसादे सति पतृके
”इति मिताक्षराधृतवचनमपि पितामहधनपरम् पित्रा स्वोपार्जितं स्थावरं दत्तंभुज्यत एवेति अन्यथा मूलभूतश्रुत्यन्तर-कल्पनापत्तः इति दायतत्त्वम्
*
स्वापा-र्जितं द्विविधम् पित्रादधनाद्युपधातेन स्वेनो-पार्जितम् तदनुपघातेन उपार्जितञ्च तद्धन-विभागविधिर्यथा व्यासः ।“अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनम् ।दायादभ्यो तद्दद्यात् विद्यालब्धञ्च यद्भवेत्
”कात्यायनः ।“द्व्यंशहरोऽर्द्धहरो वा पुत्त्रवित्तार्जनात् पिता ।”पुत्त्रवित्तार्जनात् कृद्विहितो भावा द्रव्यवत्प्रकाशते इति न्य्ययात् पुत्त्रार्जितावत्तात् पितु-र्द्व्यंशित्वं पितृधनानुपघातविषयं भ्रातृधनोप-घातविंषयञ्च अर्जकस्य तु द्व्यंशित्वम् भ्रातृ-धनोपघाते तु तेषामप्येकांशित्वं वक्ष्यमाणवच-नात् पितुरर्द्वहरत्वन्तु पितृद्रव्योपघाताद्गुण-वत्त्वाद्वा इति दायभागः
अनुपघाते पिताद्व्यंशहरः अर्जकत्वात् स्वयमपि द्व्यंशहरः ।इतरेषामनंशित्वम् भ्रातृद्रव्योपघाते तु तेषा-मप्येकांशः इति द्ब्यंशार्द्धांशयोर्भेदकथनम्
*
साधारणधनार्जितेऽपि विशेषमाह व्यासः ।“साधारणं समाश्रित्य यत्किञ्चित् वहनायुधम् ।शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ।तस्य भागद्वयं देयं शेषास्तु समभागिनः
”अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपिबोद्धव्याः तस्यार्जकस्य साधारणोपघातेयस्य यावतोऽंशस्थाल्पस्य महतो वा उपघात-स्तस्य तदनुसारेण भागकल्पना कार्य्या इतिदायभागः
इति दायतत्त्वम्
वाचस्पत्यम्
Sanskrit
स्वोपार्जित
त्रि०
स्वेन उपार्जितम् स्वयमर्जिते धनादौ ।तस्य विभागो दायभागे दर्शितो यथा“सम्प्रति विमाज्यमविभाज्यञ्चोच्यते तत्र कात्यायनः“पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्जितम् दायादानांविभागे तु सवंमेतद्विभज्यते” “यच्चान्यदिति चकारःस्वयमित्यनेन संबध्यते स्वयञ्चार्जितमिति चकाराद्यन्यस्यापि तदर्जनं साधारणधनद्वारेणेत्यर्थः अनुप-घातोपात्तमुविभाज्यमाहतुर्मनुविष्णू “अनुपघ्नन् पितृ-द्रव्यं श्रमेण यदुपार्जयेत् स्वयमीहितलब्धं तन्ना-कामो दातुमर्हति” पितृद्रव्योपघाताभावेन द्रव्य-द्वारेण नेतरेषां व्यापारः, स्वचेष्टालब्धत्वेन शारीरो-ऽपि व्यापारो नेतरेषामिति अर्जकस्यैव तदसाधा-रणं स्वयमीहितलब्धं तदिति हेतुत्वेनोपन्यासात् ।तथा व्यासः “अनाश्रित्य पितृद्रव्यं स्वशक्त्या-प्नोति, यद्धनम् दायादेभ्यी तद्दद्याद्विद्यालब्धन्तुयद्भवेत्” स्वशक्तिमात्रेण यत् प्राप्तमिति सामान्ये-नाभिधानात् सर्वमेवंविधं स्वीयमसाधारणं द्रष्टव्यम् ।स्वशक्तिप्राप्तस्यापि विद्याधनस्य समाधिकविद्यैः साधा-रणत्वात् न्यूनविद्याविद्यनिराकरणार्थं विद्यालब्धपदम् तथा याज्ञवल्क्यः “पितृद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् मैत्रमौद्वाहिकञ्चैव दायादानां नतद्भवेत्” मैत्रादिग्रहणं प्रदर्शनार्थं, एवमादिषुप्रायेणानुपघातसम्भवात् तथा मनुः “विद्याधनन्तुयद्यस्य तत्तस्यैव धनं भवेत् मैत्रमौद्वाहिकञ्चैवमाधुपर्किकमेव च” तथा व्यासः “विद्याप्राप्तं शौर्य्य-धनं यच्च सौदायिकं भवेत् विभागकाले तत्तस्यनान्वेष्टव्यं स्वरिक्थिभिः” पितृपितृव्यादिभ्यः सुदा-यससम्बन्धिभ्यः प्रसादादिना लब्धं सौदायिकम् तथानारदः “शौर्य्यभार्य्याधने, हित्वा, यच्च विद्याधनं भवेत्त्रीण्येतान्यविभाज्यानि प्रसादो यश्च षैतृकः” भार्य्या-प्राप्तिकाले लब्धं भार्य्याधनम् औद्वाहिकमित्यर्थः, एतानिवर्जयित्वा अन्यद्विभजेदित्यनुवर्त्तते वाक्यान्तरीयम् ।तदवमादिभिः शौर्य्यादिधनत्वमविभाज्यत्वे कारणंनोच्यते शौर्य्याद्यर्जितस्यावि विभागश्रुतेः तथा व्यासः“साधारणं समाश्रित्य यत् किञ्चिद्वाहनायुधम् शौर्य्या-दिनाप्नोति धनं भ्रातरस्तत्र भागिनः तस्य भागद्वयंदेयं शेषास्तु समभागिनः साधारणद्रव्येणार्जितस्यधनस्य विभागं वदति तथा नारदः “कुटुम्बं विभृयाद्भ्रातुर्यो विद्यामधिगच्छतः भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन्” विभृयादित्येकवचननिर्देशात्यटि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधन-व्ययशरीरायासाभ्यां संवर्द्धयति तदा तद्विद्योपार्जित-धने तस्याप्यधिकारः तथा “वैद्योऽविद्याय नाकामोदद्यादंशं स्वतो धनात् पित्र्यं द्रव्यं समाश्रित्य नचेत्तेन तदर्जितम्” पत्रपदं साधारणघनपरं तदना-श्रित्यार्जितं वैद्योऽविद्याय अनिच्छन्न दद्यात् वैद्यायविदुषे पुनः साधारणमन्तरेणाप्यर्जितं दद्यादेव तथा चगौतमः “स्वयमर्जितमवैद्येभ्यो वैद्यः कामं दद्यात्” ।असाधारणधनशरीरव्यापारार्जितं स्वयमर्जितं अवि-द्वद्भ्यो दातुमनच्छिन् दद्यात् विद्वद्भ्यः पुनर्दद्यादेव ।एतच्च विद्याधनमात्रविषयम् तदाह कात्यायनः “ना-विद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् समविद्या-धिकानान्तु देयं वैद्येन तद्धनम्” तन्त्रोच्चरितविद्या-पदम् उभाभ्यां समाधिकपदाभ्यां संबध्यते तेन समविद्या-धिकविद्यानां दातव्यं न्यूनविद्याविद्ययोः पुनरनधि-कारः “तदेवमादिवनैर्विद्याशौर्य्यादिधनेष्वपि साधा-रणधनोपघातानुपघाताभ्यां विभागाविभागयोरवगमात्तस्यैव प्रयोजकत्वात् तत्पदवत्येव श्रुतिः कल्पनीया-उपघातःर्जितं विभजेदिति, पुनः शौर्य्यादिपदवत्यपि, अवश्यकल्पनीयसामान्यश्रुतिकल्पनयैवोपपत्तेः होला-काधिकरणन्यायस्यायमेव विषयः यद्वा न्यायप्राप्तएवायमर्थः, यद्येनार्जितं तत् तस्मिन् जीवति तस्यैव, असति विशेषवचने, यत्र पुनः साधारणधनमात्रेणैकस्यव्यापारोऽपरस्य धनशरीराभ्यां तत्रैकस्यैको भागोऽपरस्यभागद्वयं न्यायावगतमेवं सिद्धम् एतेन चैतदपिसिध्यति, यत् साधारणधनोपघाते सति यस्य यावतो-ऽंशस्य स्वल्पस्य महतोवोपघातः, तस्य तदनुसारेणभागकल्पना कार्य्या किञ्च कात्यायनवचनम् “विभक्ताःपितृवित्ताच्चेदेकत्र प्रतिवासिनः विभजेयुः पुनद्र्व्यंशंसलभेतोदयो यतः” ।इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलितेवाचस्पत्ये सकारादिशब्दार्थसङ्कलनम्