| YouTube Channel

स्वप्नः (svapnaH)

 
Apte
English
स्वप्नः [svapnḥ], [स्वप्-भावे नक्]
Sleeping, sleep
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्
R.*
12.81
7.61
12.7
Ku.*
2.8.
A dream, dreaming
स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2
स्वप्नो नु भाया नु मतिभ्रमो नु
Ś.*
6.1
R.*
1.6.
Sloth, indolence, sleepiness
Ms.*
9.13
12.33.
The state of ignorance (?)
भावाद्वैतं क्रियाद्वैतं तथात्मनः वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः Baāg.7.15.62.Comp. -अन्तिकम् consciousness in dream. -अवस्था a state of dreaming. -उपम
a.
resembling a dream.
unreal or illusory (like a dream). -कर, -कृत्
a.
inducing sleep, soporific, narcotic. -गृहम्, -निकेतनम् a sleeping-room, bed-chamber
दुःखेन लोकः परवानिवागात् समुत्सुकः स्वप्ननिकेतनेभ्यः
Bk.*
11.17. -ज
a.
dreamt. -तन्द्रिता languor produced by drowsiness. -दर्शनम् dreamvision. -दृश्
a.
dreaming. -दोषः involuntary seminal discharge, pollutio nocturna. -धीगम्य
a.
perceptible by the intellect only when it is in a state of sleep-like abstraction
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम्
Ms.*
12. 122. -प्रपञ्चः the illusion of sleep, the world appearing in a dream. -विचारः interpretation of dreams. -शीलःa. disposed to sleep, sleepy, drowsy
चातिस्वप्नशीलस्य जाग्रतो नैव चार्जन
Bg.*
6.16. -सृष्टिः
f.
the creation of dreams or illusions in sleep.
Apte 1890
English
स्वप्नः [स्वप्
भावे नक्] 1 Sleeping, sleep
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् R. 12. 81, 7. 61, 12. 70
Ku. 2. 8.
2 A dream, dreaming स्वप्नेंद्रजालसट्टशः खलु जीवलोकः Śānti. 2. 2
स्वप्नो नु माया नु मतिभ्रमो नु Ś. 6. 9, R. 10. 60.
3 Sloth, indolence, sleepiness.
Comp.
अवस्था a state of dreaming.
उपम a. {1} resembling a dream. {2} unreal or illusory (like a dream).
कर,
कृत् a. inducing sleep, soporific, narcotic.
गृहं
निकेतनं a sleeping-room, bed-chamber.
दोषः involuntary seminal discharge, pollutio nocturna.
धागम्य a. perceptible by the intellect only when it is in a state of sleep-like abstraction
Ms. 12. 122.
प्रपंचः the illusion of sleep, the world appearing in a dream.
विचारः interpretation of dreams.
शील a. disposed to sleep, sleepy, drowsy.
सृष्टिः f. the creation of dreams or illusions in sleep.
Hindi
Hindi
सपना देख
Apte Hindi
Hindi
स्वप्नः
पुं*
- स्वप् + नक्
"सोना, नींद"
स्वप्नः
पुं*
- स्वप् + नक्
"स्वप्न, ख्वाब, सपना आना"
स्वप्नः
पुं*
- स्वप् + नक्
"शिथिलता, आलस्य, तन्द्रा"
Wordnet
Sanskrit
Synonyms:
निद्रा, स्वप्नः, स्वापः, सुप्तिः, शयनम्, संवेशः, स्वपनम्, मन्दसानः
noun
शयनावस्थाविशेषः।
"रात्रिः शयनार्थमेव निर्मिता।"
Synonyms:
निद्रा, शयः, शयनम्, सुप्तम्, सुप्तिः, सुप्तकः, स्वापः, प्रस्वापम्, स्वप्नः, संवेशः, मन्दसानः, मन्दसानुः, नन्दीमुखी, तामसम्, लञ्जा, षः, संलयः
noun
प्राणिनां सा अवस्था यस्यां तेषां मेध्यामनःसंयोगः भवति तथा येन तेषां मनः शरीरं विश्रमतः।
"अल्पीयसी निद्रा परिक्लेशं जनयति। "
Tamil
Tamil
ஸ்வப்ன: : தூங்குதல், கனவு.
शब्दकल्पद्रुमः
Sanskrit
स्वप्नः,
पुं,
(स्वप + “स्वपो नन् ।” ९१ ।इति नन् यद्वा “कॄवृजॄषिद्रुपनीति ।” उणा०३ १० इति नन् ।) निद्रा इत्यमरः ।७ ३६
यथा, --“तस्मान्न जागृयाद्रात्रौ दिवास्वप्नश्च वर्ज्जयेत् ।ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितञ्चरेत्
”)प्रसुप्तस्य विज्ञानम् यथा, --“पूर्व्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान्
करणानान्तु वैकस्ये तमसाभिप्रवर्द्धिते ।अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते
”इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये
)दर्शनम् इति मेदिनी
*
सुस्वप्ना यथा, --नन्द उवाच ।“केन स्वप्नेन किं पुण्यं केन पुंसां भवेत् सुखम् ।कोऽपि कोऽपि सुस्वप्नस्तत् सर्व्वं कथयप्रभो !
”श्रीभगवानुवाच ।“वेदेषु सामवेदश्च प्रशस्तः सर्व्वकर्म्मसु ।तत्रैव काण्वशाखायां पुण्यकाण्डे मनोहरे
सुष्यक्तो यश्च सुस्वप्नः शश्वत् पुण्यफलप्रदः ।तत् सर्व्वं लिखितं तात ! कथयामि निशामय
स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् ।स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत्
स्वप्नस्तु प्रथमे यामे संवत्सरफलप्रदः ।द्वितीये चाष्टभिर्म्मासैस्त्रिभिर्म्मासैस्तृतीयके
चतुर्थे चार्द्धमासेन स्वप्नः स्बात्तु फलप्रदः ।दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्शने
प्रातः स्वप्नश्च फलदस्तत्क्षणं यदि बोधितः ।दिने मनसि यद्दृष्टं तत् सर्व्वञ्च लभेद्ध्रुवम्
चिन्ताव्याधिसमायुक्तो नरः स्वप्नञ्च पश्यति ।तत् सर्व्वं निष्फलं तात प्रयात्येव संशयः
जडो मूत्रपुरीषेण पीडितश्च भयाकुलः ।दिगम्बरो मुक्तकेशो लभेत् स्वप्नजं फलम्
दृष्ट्वा स्वप्नञ्च निद्रालुर्यदि निद्रां प्रयाति ।विमूढो वक्ति चेद्रात्रौ लभेत् स्वप्नजं फलम्
उक्ता काश्यपगोत्रे विपत्तिं लभते ध्रुवम् ।दुर्गते दुर्गतिं याति नीचे व्याधिं प्रयाति
शत्री भयञ्च लभते मूर्खे कलहो भवेत् ।कामिन्यां धनहानिः स्याद्रात्रौ चौरभयं भवेत्
निद्रायां लभते शोकं पण्डिते वाञ्छितं फलम् ।न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज
*
गवाञ्च कुञ्जराणाञ्च हयानाञ्च व्रजेश्वर ।प्रासादानाञ्च शैलानां वृक्षाणाञ्च तथैव
आरोहणञ्च धनदं भोजनं रोदनं तथा ।प्रतिगृह्य तथा वीणां शस्याढ्यां भूमिमालभेत्
शस्त्रास्त्रेण यदा विहो व्रणेन कृमिणा तथा ।विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थमालभेत् ।स्वप्नेऽप्यगम्यागमनं भार्य्यालाभं करोति ।मूत्रसिक्तं पिबेत् शुक्रं नरकञ्च विशत्यपि
नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् ।शुभवार्त्तामवाप्नोति विपुलञ्चार्थमालभेत्
”रक्तं स्थाने नक्तं समुद्रं स्थाने समूत्रं सुधां स्थानेसुरां इति पाठः ।“गजं नृपं सुवर्णञ्च वृषभं धनुमेव ।दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम्
कुटुम्बं लभते दृष्ट्वा कीर्त्तिञ्च विपुलां श्रियम् ।पूर्णकुम्भं द्विजं वह्निं पुष्पं ताम्बूलमन्दिरम्
शुक्लधान्यं नटं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् ।गोक्षीरञ्च घृतं दृष्ट्वा चार्थं पुण्यं धनं लभेत्
पायसं पद्मपत्रे दधि दुग्धं घृतं मधु ।मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भविष्यति
पक्षिणां मानुषाणाञ्च भुङ्क्ते मांसं नरो यदि ।बह्वर्थं शुभवार्त्ताञ्च लभते वाञ्छितं फलम्
छत्रं वा पादुकाम्वापि लब्ध्वाध्वानञ्च गच्छति ।असिञ्च निर्म्मलं तीक्ष्णं तत्तथैव भविष्यति
भेलया सन्तरेद्यो हि प्रधानं भविष्यति ।दृष्ट्वा फलिनं वृक्षं धनमाप्नोति निश्चितम्
यस्य श्वेतेन सर्पेण दश्यते दक्षिणे भुजे ।सोऽचिराल्लभते भार्य्यां विनीतां प्रियवादिनीम्
सर्पेण भक्षितो यो हि अर्थलाभश्च तद्भवेत् ।स्वप्ने सूर्य्यं विधुं दृष्ट्वा मुच्यते व्याधिबन्धनात्
वडवां कुक्कुटीं क्रौञ्चीं दृष्ट्वा भार्य्यां लभेद्-ध्रुतम् ।स्वप्ने यो निगडैर्बद्धः प्रतिष्ठामुत्तमां लमेत्
उत्तमां स्थाने पुत्त्रमिति वा पाठः ।दध्यन्नं पायसं भुङ्क्ते तडागे वा नदीतटे ।विशीर्णे पन्नपत्रे सोऽपि राजा भविष्यति
तडागे वा स्थाने पद्मपत्रे इति वा पाठः ।जलौकसं वृश्चिकञ्च मर्पञ्च यदि पश्यति ।धनं पुत्त्रञ्च विजयं प्रतिष्ठाञ्च लभेदिति
शृङ्गिभिर्दंष्ट्रिभिः कौलैर्वानरैः पीडितो यदि ।निश्चितञ्च भवेद्राजा धनञ्च विपुलं लभेत्
मत्स्यं मांसं मौक्तिकञ्च शङ्खचन्दनहौरकम् ।यस्तु पश्यति स्वपान्ते विपुलं धनमालभेत्
सुराञ्च रुधिरं स्वर्णं भुक्त्वा विष्ठां धनं लभेत् ।प्रतिमां शिबलिङ्गञ्च लभेद्दृष्ट्वा जयं धनम्
फलितं पुष्पितं विल्वमाम्रं दृष्ट्वा लभेत् धनम् ।दृष्ट्वा ज्वलदग्निञ्च धनं बुद्धिं श्रियं लभेत्
आमलकं धात्रीफलं उत्पलञ्च धनागमम् ।देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।उत्पलं स्थाने तत्पत्रमिति वा पाठः ।यद्ददाति मिथः स्वप्ने तत्तथैव भविष्यति
शुक्लाम्बरधरां नारीं शुक्लमाल्यानुलेपनाम् ।समाश्लिष्यति यः स्वप्ने तस्य श्रीः सर्व्वतः सुखम्
पोताम्बरधरां नारीं पीतमाल्यानुलेपनाम् ।उपगृह्णाति यः स्वप्ने कल्याणं तस्य जायते
सर्व्वाणि शुक्लानि प्रशंसितानिभस्मास्थि कार्पासविवर्ज्जितानि ।सर्व्वाणि कृष्णानि विनिन्दितानिगोहस्तिदेवद्विजवर्जितानि
दिव्या स्त्री सस्मिता विप्रा रत्नभूषणभूषिता ।यस्य मन्दिरमायाति प्रियं लभते ध्रुवम्
स्वप्ने ब्राह्मणो देवो ब्राह्मणी देवकन्यका ।कुमारी चाष्टवर्षीया रत्नभूषणभूषिता ।यस्य तुष्टा भवेत् स्वप्ने तस्य तुष्टा पार्व्वती
इत्यत्र भवेत् कविपण्डितः इति पाठः ।ब्राह्मणो ब्राह्मणी वापि सन्तुष्टः सस्मिता सती ।फल ददाति यस्मै तस्य पुत्रो भविष्यति
यं स्वप्ने ब्राह्मणो नन्द ! करोति शुभा-शिषम् ।यद्बदति भवेत्तस्य तस्यैश्वर्य्यं भवेद्ध्रुवम्
परितुष्ठो द्विजश्रेष्ठश्चायाति यस्य मन्दिरम् ।नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम्
सम्पत्तिस्तस्य भवति यशश्च विपुलं शुभम् ।पदे पदे सुखं तस्य सम्मानं गौरवं लभेत्
अकस्मादपि स्वप्ने तु लभते सुरभीं यदि ।भूमिलाभो भवेत्तस्य भार्य्या चापि पतिव्रता
करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि ।राज्यलाभो भवेत्तस्य निश्चितञ्च श्रुतौ श्रुतम्
स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यति यं व्रज ।तीर्थस्नायी भवेत् सोऽपि निश्चितश्च श्रिया-न्वितः ।स्वप्ने ददाति पुष्पञ्च यस्मे पुण्यवते द्विजः ।जययुक्तो भवेत् सोऽपि यशस्वी धनी सुखी
स्वप्ने दृष्ट्वा तीर्थानि सौधरत्नगृहाणि ।जययुक्तश्च धनवां स्तीर्थस्नायी भवेन्नरः
स्वप्ने तु पूर्णकलसं कश्चित् कस्मै ददाति वा ।पुत्त्रलाभो भवेत्तस्य सम्पत्तिं वा समालभेत्
हस्ते कृत्वा तु कुडवं आढकं वापि सुन्दरी ।यस्य मन्दिरमायाति लक्ष्मीं लभते ध्रुवम्
दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज ।अर्थलाभो भवेत्तस्य दारिद्रञ्च प्रयाति
यस्य गेहं समायाति भार्य्यया सह ब्राह्मणः ।पार्व्वत्या सह शम्भुर्व्वा लक्ष्मोर्नारायणोऽथवा ।ब्राह्मणो ब्राह्मणो वापि स्वप्ने यस्मे ददाति वा ।धान्यं पुष्पाञ्जलिं वापि तस्य श्रीः सर्व्वतोमुखी
सर्व्वतोमुखीत्यत्र सर्व्वतः सुखीति पाठः ।मुक्ताहारं पुष्पमाल्यं चन्दनञ्च शुभं व्रज ।शुभं व्रज स्थाने लभेद्द्विज इति वा पाठः ।स्वप्ने ददाति विप्रश्च तस्य श्रीः सर्व्वतः सुखी
गोरोचनां पताकां वा हरिद्रामिक्षुदण्डकम् ।स्निग्धान्नञ्च लभेत् स्वप्ने तस्य श्रोः सर्व्वतः सुखी
स्निग्धान्नस्थाने सिद्धान्नमिति वा पाठः ।ब्राह्मणो ब्राह्मणी वापि ददाति यस्य मस्तके ।छत्रं वा शुक्लधान्यं वा राजा भविष्यति
स्वप्ने रथस्थः पुरुषः शुक्लमाल्यानुलेपनः ।तत्रस्थो दधि भुङ्क्ते पायसं वा नृपो भवेत्
स्वप्ने ददाति विप्रश्च ब्राह्मणी वा सुधां दधि ।प्रशस्तपात्रं तस्मै वा सोऽपि राजा भवेद्ध्रुवम्
ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते द्विजः ।स भवेद्विश्वविख्यातः कवीन्द्रः पण्डितेश्वरः
यं पाठयति स्वप्ने या मातेव सुतं यथा ।सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः
ब्राह्मणः पाठयेद्यञ्च पितेव यत्नपूर्व्वकम् ।ददाति पुस्तकं प्रौत्या तत्सदृशो भवेत्
प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा ।स पण्डिता यशस्वी विख्यातश्च महीतले
स्बप्ने यस्मै महामन्त्रं विप्रो विप्रा ददाति चेत् ।स भवेत् पुरुषः प्राज्ञो धनवान् गुणवान् सुधीः
स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम् ।यस्मै ददाति विप्रश्च मन्त्रसिद्धिश्च तद्भवेत्
विप्रा विप्रसमूहञ्च दृष्ट्वा नत्वाशिषं लभेत् ।राजेन्द्रः भवेद्वापि किम्वा कविपण्डितः
शुक्लधान्ययुतां भूमिं यस्मै विप्रः समुत्सृजेत् ।स्वप्ने परितुष्टश्च भवेत् पृथिवीपतिः
स्वप्ने विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत् ।चिरजीवी भवेदायुर्धनवृद्विर्भवेद् ध्रुवम्
विप्रा विप्रश्च सन्तुष्टो यस्मै कन्यां ददाति ।स्वप्ने भवेन्नित्यं धनाढ्यो भूपतिः स्वयम्
स्वप्ने सरोवरं दृष्ट्वा समुद्रं वा नदीं नदम् ।शुक्लाहिं शुक्लशैलञ्च दृष्ट्वा प्रियमवाप्नुयात्
”प्रियं स्थाने श्रियमिति पाठः ।यः पश्यति मृतं स्वप्ने भवेच्चिरजीवनः ।अरोगोऽरोगिणं दृष्ट्वा सुखिनञ्च सुखी भवेत्
दिव्या स्त्री यं प्रवदति मम स्वामी भवान् भव ।स्वप्ने दृष्ट्वा जागर्त्ति राजा भवेद्ध्रुवम्
स्वप्ने बालिकां धृष्ट्वा लब्ध्वा स्फाटिक-मालिकाम् ।इन्द्रचापं शुक्लघनं प्रतिष्ठां लभेद् ध्रुवम्
स्वप्ने विप्रो वदति यं मम दासो भवेति ।हरिदासस्य तद्भक्तिं लब्ध्वा वैष्णवो भवेत्
स्वप्ने विप्रो हरिः शम्भुर्ब्राह्मणी कमला शिवा ।शुक्ला स्त्री वेदमाता वा जाह्नवी वा सरस्वती
गोपालिकावेशधरा बालिका राधिका मम ।बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः
एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः ।श्रोतुमिच्छसि किं वा त्वं किं भूयः कथयामिते
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे सुस्वप्नदर्शनं७७ अध्यायः
*
अक्रूरदृष्टसुस्वप्ना यथा, --“अथाक्रूरः स्वभवनं गत्वा कंसेन प्रेरितः ।चकार शयनं तल्पे भुक्त्वा मिष्टान्नमुत्तमम्
सकर्पूरश्च ताम्बूलं चखाद वासितं जलम् ।जगाम निद्रां सुखतः सुखसम्भोगमात्रतः
ततो ददर्श सुस्वप्नं पुराणश्रुतिसम्मतम् ।निशावशेषसमये वाय्वादिपरिवर्जितः
अरोगो बद्धकेशश्च वस्त्रयुग्मसमन्वितः ।सुतल्पशायी सुस्निग्धश्विन्ताशोकविवर्जितः
किशोरवयसं श्यामं द्विभुजं मुरलीधरम् ।पीतवस्त्रपरीधानं वनमालाविभूषितम्
चन्दनोक्षितसर्व्वाङ्गं मालतीमाल्यशोभितम्भूषितं भूषितार्हञ्च सद्रत्नमणिभूषणैः
मयूरपुच्छचूडञ्च सस्मितं पद्मलोचनम् ।एवम्भूतं द्विजशिशुं ददर्श प्रथमे मुने
ततो ददर्श रुचिरां पतिपुत्त्रवतीं सतीम् ।पोतवस्त्रपरीधानां रत्नभूषणभूषिताम्
ज्वलत्प्रदीपहस्ताञ्च शुक्लमाल्यकरां वराम् ।शरच्चन्द्रनिभास्याञ्च सस्मितां वरदां शुभाम्
ततो ददर्श विप्रञ्च कुर्व्वन्तञ्च शुभाशिषम् ।श्वेतपद्मगतं हंसं तुरगञ्च सरोवरम्
ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ।पाम्रनिम्बनारिकेलगुवाककदलीतरुम्
दशन्तं श्वेतसर्पञ्च स्वात्मानं पर्व्वतस्थितम् ।वृक्षस्थञ्च गजस्थञ्च तरिस्थं तुरगस्थितम्
वीणां वादितवन्तञ्च भुक्तवन्तञ्च पायसम् ।दधिक्षीरयुतान्नञ्च पद्मपत्रस्थमीप्सितम्
कृमिविट्सहिताङ्गञ्च रुदन्तं मोहितं तथा ।शुक्लधान्यपुष्पधरं क्षणं चन्दनचर्च्चितम्
समुद्रस्थं प्रासादस्थमात्मानञ्च सलोहितम् ।छिन्नभिन्नक्षताङ्गञ्च मेदःपूयसमन्वितम्
ततो ददर्श रजतं मणिशुभ्रञ्च काञ्चनम् ।मुक्तामाणिक्यरत्नञ्च पूर्णकुम्भं घनं जलम्
सुरभिञ्च सवत्साञ्च वृषभेन्द्रं मयूरकम् ।शुक्लञ्च सारसं शङ्खं छिन्नं खञ्जनमेव
ताम्बूलं पुष्पमाल्यञ्च ज्वलदग्निं सुरार्च्चनम् ।पार्व्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम्
विप्रबालाश्च बालञ्च सुपक्वफलितं कृषिम् ।देवस्थलीञ्च राजेन्द्रं सिंह व्याघ्रं गुरुं सुरम्
दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराह्निकमीप्सितम् ।उद्धवं कथयामास सर्व्ववृत्तान्तमेव
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७० १-१८
दुःस्वप्ना यथा, --नन्द उवाच ।“श्रुतं सर्व्व महाभाग दुःस्वप्नं कथय प्रभो ।उवाच तञ्च भगवान् श्रूयतामिति तद्वचः
”श्रीभगवानुवाच ।“स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति ।नर्त्तनं गीतमिष्टञ्च विपत्तिस्तस्य निश्चितम्
दन्ता यस्य विपीड्यन्ते विचरन्तञ्च पश्यति
धनहानिभवेत्तस्य पीडा चापि शरीरजा
अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम् ।खरोष्ट्रमहिषारूढो मृत्युस्तस्य संशयः
स्वप्ने चूर्णं जवापुष्पमशोकं करवीरकम् ।विपत्तिस्तस्य तैलञ्च लवणं यदि पश्यति
नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा ।कपर्द्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात्
स्वप्ने रुष्टं ब्राह्मणञ्च ब्राह्मणीं कोपसंयुताम् ।विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम्
वनपुष्पं रक्तपुष्पं पलाशञ्च सुपुष्पितम् ।कार्पासं शुक्लवस्त्रञ्च दृष्ट्वा दुःखमवाप्नुयात्
गायन्तीञ्च हसन्तीञ्च कृष्णाम्बरधरां स्त्रियम् ।दृष्ट्वा कृष्णाञ्च विधवां नरो मृत्यमवाप्नुयात्
देवता यत्र नृत्यन्ति गायन्ति हसन्ति ।आस्फोटयन्ति धावन्ति तस्य देशो विनश्यति
वान्तं मूत्रं पुरीषं वा वैद्यं रौप्यं सुवर्णकम् ।प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम्
कृर्ष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् ।उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति
मृतं वत्सञ्च मुण्डञ्च मृगस्य नरस्य वा ।यः प्राप्नोत्यस्थिमालाञ्च विपत्तिस्तस्य निश्चितम् ।अभ्यङ्गितस्तु हविषा क्षीरेण मधुनापि वा ।तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम्
रथं खरोष्ट्रसंयुक्तं एकाकी योऽधिरोहयेत् ।तत्रस्थोऽपि जागर्त्ति मृत्युरेव संशयः
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् ।उपगूहति यः स्वप्ने व्याधिस्तस्य विनिश्चितम् ।पतितं नखकेशञ्च निर्व्वाणाङ्गारमेव ।भस्मपूर्णां चितां दृष्ट्वा लभते मृप्युमेव
श्मशानं शुष्ककाष्ठञ्च तृणानि लौहमेव ।मसीञ्च किञ्चित् कृष्णां वा दृष्ट्वा दुःखं लभेत्ध्रुवम्
पादुकां फलकं रक्तपुष्पमाल्यं भयानकम् ।माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत्
कण्टकं सरलं काकं भल्लूकं वानरं खरम् ।पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम्
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठञ्च रोगिणम् ।रक्ताम्बरञ्च जटिलं शूकरं महिषं खरम्
अन्धकारं महाघोरं सृतजीवं भयानकम् ।दृष्ट्वा स्वप्ने योनिलिङ्गं विपत्तिं लभते ध्रुवम्
कुवेशरूपं म्लेच्छञ्च यमदूतं भयङ्करम् ।पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्यं लभेन्नरः
ब्राह्मणो ब्राह्मणी बाला बालको बा सुतः सुता ।विदायं कुरुते कोपात् दृष्ट्वा दुःखमवाप्नुयात्
कृष्णपुष्पञ्च तन्माल्यं शल्यशस्त्रास्त्रधारिणम् ।म्लेच्छाञ्च विकृताकारां दृष्ट्वा सृत्युं लभेत् ध्रुवम्
वाट्याञ्च नर्त्तनं गीतं गायनं रक्तवाससम् ।मृदङ्गवाद्यमानन्दं दृष्ट्वा दुःखं लभेद्ध्रुवम्
वाट्यां स्थाने वाद्यमिति वा पाठः ।आनन्दं स्थाने आनद्धमिति बुक्तम् ।मत्स्यादि धारयेद्यो हि तद्भ्रातुर्म्मरणं ध्रुवम्
छिन्नं वापि कबन्धं वा विकृतं वा मुक्तकेशिनम् ।क्षिप्तं नृत्यञ्च कुर्व्वन्तं दृष्ट्वा मृत्युं लभेन्नरः
मृतो वापि मृता वापि कृष्णा म्लेच्छा भया-नका ।उपगूहति यं स्वप्ने तस्य मृत्युर्व्विनिश्चितः
येषां दन्ताश्च भग्नाश्च केशाश्चापि पतन्ति ।धनहानिर्भत्तेषां पीडा वा तच्छरीरजा
उपद्रवन्ति यं स्वप्ने शृङ्गिणो दंष्ट्रिणोऽपि वा ।बालका मानवाश्चैव तस्य राजकुलाद्भयम्
छिन्नं वृज्ञं पतन्तञ्च शिलावृष्टिं तुषं क्षुरम् ।रक्ताङ्गारं भस्मवृष्टं दृष्ट्वा दुःखमवाप्नुयात्
गृहं पतन्तं शैलं वा धूमकेतुं भयानकम् ।भग्नस्कन्धं तरोर्व्वापि दृष्ट्वा दुःखमवाप्नुयात्
रथगेहशैलवृक्षगोहस्तितुरगात् खरात् ।पतन्ति भूमौ ये स्वप्ने विपत्तिस्तस्य सङ्कुला
उच्चैः पतन्ति गर्त्तेषु भस्माङ्गारचितासु ।क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां संशयः
बलाद्गृह्णाति दुष्टश्च छत्रञ्च यस्य मस्तकात् ।पितुर्नाशो भवेत्तस्य गुरोर्व्वापि नृपस्य वा
सुरभी यस्य गेहाच्च याति त्रस्ता सवत्सिका ।प्रयाति पापिनस्तस्य लक्ष्मीरपि वसुन्धरा
पाशेन कृत्वा बद्धञ्च यं गृहीत्वा प्रयान्ति ।यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्न संशयः
गणका ब्राह्मणो वापि ब्राह्मणी वा गुरुस्तथा ।परिरुष्टः शपति यं विपत्तिस्तस्य निश्चितम्
विरोधिनश्च काकाश्च कुक्कुरा भल्लुकास्तथा ।पतन्त्यागत्य यद् गात्रे तस्य मृत्युर्न संशयः
महिषा भल्लुका उष्ट्राः शूकरा गर्द्दभास्तथा ।रुष्टा धावन्ति यं स्वप्ने सरोगी निश्चितं भवेत्
”तेषां शान्तिर्यथा, --“रक्तचन्दनकाष्ठानि घृताक्तानि यो जुहेत् ।गायत्र्याश्च सहस्रेण तेन शान्तिर्व्विधीयते
सहस्रधा जपेद्यो हि भक्त्या तं मधुसूदनम् ।निष्पापोऽपि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नोभवेत्
अच्युतं केशव विष्णुं हरिं सत्यं जनार्द्दनम् ।हंसं नारायणञ्चंव एत्रन्नामाष्टकं शुभम्
शुचिः पूर्व्वमुखः प्राज्ञा दशकृत्वश्चं यो जपेत् ।निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नोभवेत्
विष्णुं नारायणं कृष्णं माधवं मधुसूदनम् ।हरिं नरहरिं रामं गोविन्दं दधिवामनम्
शुचिः पूर्व्वमुखो भूत्वा भक्तिश्रद्वायुतो जपेत् ।निष्पापो हि भवेत् सोऽपि दुःखप्नः सुस्वप्नोभवेत्
भक्त्या चतानि भद्राणि दश नामानि यो जपेत् ।शतकृत्वो भक्तियुक्तो जप्त्वा रोगी रोगतः
लक्षधा हि जपेद्यो हि बन्धनान्मुच्यते ध्रुवम् ।जप्त्वा दशलक्षञ्च महाबन्ध्या प्रसूयते
हविष्याशी यतः शुद्धो दरिद्रो धनवान् भवेत् ।शतलक्षञ्च जप्त्वा जीवन्मुक्तो भनेन्नरः
ओँ शिवं दुर्गां गणपतिं कार्त्तिकेयं दिनेश्वरम् ।धर्म्मं गङ्गाञ्च तुलसीं राधां लक्ष्मीं सरस्वतोम्
नामान्येतानि भद्राणि जले स्नात्वा योजपेत् ।वाञ्छितञ्च लभेत् सोऽपि दुस्वप्नः सुस्वप्नो भवेत्
ओँ ह्रीँ श्रीँ क्लीँ पूर्व्वं दुर्गतिनाशिन्यै महा-मायायै स्वाहा ।कल्पवृक्षो हि लोकानां मन्त्रः सप्तदशाक्षरः ।शुचिश्च दशधा जप्ता दुःस्वप्नः सुस्वप्नो भवेत्
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।सिद्धमन्त्रश्च लभते सर्व्वसिद्धिञ्च वाञ्छितम्
ओँनमो मृत्यञ्जयायेति स्वाहान्तं लक्षधा जपेत् ।दृष्ट्वा मरणं स्वप्ने शतायुश्च भवेन्नरः
पूर्व्वोत्तरमुखो भूत्वा स्वप्नं प्राज्ञे प्रकाशयेत्
काश्यपे दुर्गते नोचे देवब्राह्मणनिन्दके ।मूर्खे चैवानभिज्ञे स्वप्नं प्रकाशयेत्
अश्वत्थे गणके विप्रे पितृदेवार्च्चनेषु ।आचार्य्ये वैष्णवे मित्रे दिवास्वप्नं प्रकाशयेत्
इति ते पुण्यमाख्यानं कथितं पापनाशनम् ।धन्यं यशस्यमायुष्यं किं भूयः श्रोतुमिच्छसि
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे दुःस्वप्नदर्शनम्८२ अध्यायः
*
कंसदृष्टदुःस्वप्ना यथा, --नारायण उवाच ।“अथ कंसो विचिन्त्यैवं दृष्ट्वा दुःस्वप्नमेव ।समुद्धिग्नो महाभीतो निराहारो निरुत्सवः
पात्रं मित्रं बुधगणं बान्धवञ्च पुरोहितम् ।समानीय सभामध्ये तानुववाच सुदुःखितः
कंस उवाच ।मया दृष्टो निशाशेषे यो दुःस्वप्नो भयप्रदः ।तं निबोध बुधाः सर्व्वे बान्धवाश्च पुरोहित
बिभ्रती चोड्रपुष्पाणां मालां सरक्तचन्दनाम् ।रक्ताम्बरं खङ्गतीक्ष्णं खर्परञ्च भयङ्करम्
प्रकृत्याट्टाट्टहासञ्च लोलजिह्वा भयङ्करी ।अतीववृद्धा कृष्णाङ्गी नगरे मम नृत्यति
मुक्तकेशो छिन्ननासा कृष्णा कृष्णाम्बरापि सा ।विधवा सा महाशूद्री मामालिङ्गितुमिच्छति
मलिनं चेलखण्डञ्च बिभ्रतो रूक्षमूर्द्धजाम् ।ददाति चूर्णतिलकं कपाले मम वक्षसि
कृष्णवर्णानि पक्वानि छिन्नभग्नानि सत्यक ।पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि
कुचेलो बिकृताकारो म्लेच्छो हि रुक्षमूर्द्धजः ।ददाति मह्यमूषायां छिन्नभग्नकपर्द्दकान्
महारुष्टा दिव्या स्त्री पतिपुत्त्रवती सती ।बभञ्ज पूर्णकुम्भञ्च अभिशप्य पुनः पुनः
अम्लानामोडमालाञ्च रक्तचन्दनचर्च्चिताम् ।ददाति मह्यं विप्रश्च महारुष्टोऽभिशप्य
क्षणमङ्गारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ।क्षणं क्षणं रक्तवृष्टिर्भवेच्च नगरे मम
वानरं वायसं श्वानं भल्लुकं शूकरं खरम् ।पश्यामि विकृताकारं शब्दं कुर्व्वन्तमुल्वणम्
पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् ।अरुणादयवेलायां कर्पं छिन्ननखानि
पीतवस्त्रपरीधाना शुक्लचन्दनचर्च्चिता ।बिभ्रती मालतीमाला रत्नभूषणभूषिता
क्रीडाकमलहस्ता सा सिन्दूरबिन्दुशोभिता ।कृत्वाभिशापं मां रुष्टा याति मन्मन्दिरात् सती
पाशहस्तांश्च पुरुषान् मुक्तकेशान् भयङ्कर्यन् ।अतिरूक्षांश्च पश्यामि विशतो नगरं मम
नग्ना नारीर्म्मुक्तकेशीर्नृत्यन्तीश्च गृहे गृहे ।अतीव विकृताकाराः पश्यामि सस्मिताः सदा
छिन्ननासा विधवा महाशूद्री दिगम्बरी ।सा तैलाभ्यङ्गितं माञ्च करोत्यतिभयङ्करी
निर्व्वाणाङ्गारमंयुक्ता भस्मपूर्णा भयङ्कराः ।अतिप्रभातसमये चिताः पश्यामि सस्मितः
पश्यामि विवाहञ्च नृत्यगीतमहोत्सवम् ।रक्तवस्त्रपरीधानान् पुरुषान् मुक्तमूर्द्धजान्
रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्वणम् ।धावन्तञ्च शयानञ्च पश्यामि सस्मितं सदा
राहुग्रस्तञ्च गगने मण्डलं चन्द्रसूर्य्ययोः ।एककाले पश्यामि सर्व्वग्रासञ्च बान्धवाः
उल्कापातं धूमकेतुं भूकम्पराष्ट्रविप्लवम् ।झञ्झावातं महोत्पातं पश्यामि पुरोहित
वायुना घूर्णमानांश्च छिन्नस्कन्धान् महीरुहान् ।पतितान् पर्व्वतांश्चैव पश्यामि पृथिवीतले
पुरुषं छिन्नशिरसं नृत्यन्तं नग्नमुत्सृतम् ।मुण्डमालाधरं घोरं पश्यामि गृहे गृहे
दग्धं सर्व्वाश्रमं भस्मपूर्णमङ्गारसङ्कुलम् ।हाहाकारञ्च कुर्व्वन्तं सर्व्वं पश्यामि सर्व्वतः
इत्येवमुक्त्वा राजा विरराम सभातले ।श्रुत्वा स्वप्नं बान्धवाश्च नतवक्त्रा निशश्वसुः
जहार चेतनं सद्यः सत्यकश्च पुरोहितः ।मत्वा विनाशं कंसस्यं यजमानस्य नारद
रुरोद नारीवर्गश्च पिता माता शोकतः ।मेनिरे नाशकालञ्च सद्यः स्वयमुपस्थितम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६३ अध्यायः
पंरशुरामदृष्टदुःस्वप्नाः ब्रह्मवैवर्त्ते गणेशखण्डे३३ अध्याये कार्त्तवोर्य्यार्ज्जुनदृष्टदुःस्वप्नास्तत्रैव३४ अध्याये घोरासुरदृष्टदुःस्वप्ना देवीपुराणे२२ अध्याये कालिकापुराणे पुष्याभिषेके ८७अध्याये मत्स्यपुराणे यात्रानिमित्तस्वप्नाध्याय-कथने २४२ अध्याये ते द्रष्टव्याः
(वैद्य-कोक्तस्वप्नशकुनं यथा, --“इत्युक्तं दूतशकुनं स्वप्नानृर्द्धं प्रचक्षते ।स्वप्ने मद्यं सह प्रेतैर्यः पिबन् कष्यते शुना ।स मर्त्त्यो मृत्युना शीघ्रं ज्वररूपेण नीयते
रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया ।सोऽस्रपित्तेन महिषखवराहोष्ट्रगर्द्दभैः
यः प्रयाति दिशं याम्यां मरणं तस्य यक्षणा ।लताकण्टकिनी वंशस्ताली वा हृदि जायते
यस्य तस्याशु गुल्मेन यस्य बह्निमनर्च्चिषम् ।जुह्वतो घृतसिक्तस्य नग्नस्योरसि जायते
मद्यं नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ।स्नेहं बहुविधं स्वप्ने प्रमेहेन नश्यति
उन्मादेन जले मज्जेद्यो नृत्यन् राक्षमैः सह ।अपस्मारेण यो मर्त्त्यो नृत्यन् प्रेतेन नीयते
यानं खरोष्ट्रमार्ज्जारकपिशार्दलशूकरैः ।यस्य प्रेतैः शृगालैर्वा मृत्वोर्वर्त्तते मुखे
अपूपशष्कुलीर्जग्ध्वा बिबुद्धस्तद्विधं वमन् ।न जीवत्यक्षिरोगाय सूर्य्येन्दुग्रहणेक्षणम्
सूर्य्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम् ।मूर्द्ध्नि वंशलतादीनां सम्भवो वयसां तथा
निलयो मुण्डताकाकगृध्राद्यैः परिवारणम् ।तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः
सङ्गो वेत्रलतावंशतृणकण्टकसङ्कटे ।श्वभ्रश्मशानशयनं पतनं पांशुभस्मनोः
मज्जनं जलपङ्कादी शीघ्रेण स्रोतप्ताहृतिः ।नृत्यवादित्रगीतानि रक्तस्रग्वस्त्रधारणम्
वयोऽङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म्म ।पक्वान्नस्नेहमद्याशः प्रच्छर्द्दनविरेचने
हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ ।उपानद्युगनाशश्च प्रपातः पादचर्म्मणोः
हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम् ।प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषां
पतनं वा विनाशो वा भेदनं पर्व्वतस्य ।कानने रक्तकुसुमे पापकर्म्मनिवेशने
चिन्तान्धकारसम्बाधे जनन्याञ्च प्रवेशनम् ।पातः प्रासादशैलादेर्मत्स्येन ग्रसनन्तथा
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम् ।रक्ताक्षाणां कृष्णानां दर्शनं जातु नेष्यते
कृष्णा पापा ह्यनाचारा दीर्घकेशनखस्तनी ।विरागा चाप्यवसना स्वप्नकालनिशा मता
मनोवहानां पूर्णत्वात् स्रोतमां प्रबलैर्मलैः ।दृश्यन्ते दारुणाः स्वप्ना रोगो यैर्याति पञ्चताम्
अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते ।दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा
भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः ।तेष्वद्या निष्फलाः पञ्च यथा स्वप्रकृतिर्दिवा
विस्मृतो दीर्घह्रस्वोऽति पूर्व्वरात्रे चिरात् फलम्
दृष्टः करोति तुच्छञ्च गोसर्गे तदहर्महत्
निद्रया चानुपहतः प्रतीपैर्व्वचनैस्तथा
याति पापोऽल्पफलतां दानहोमजपादिभिः
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ।पश्येत् सौम्यं शुभं तस्य शुभमेव फलं भवेत्
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो-नृपान् ।साधून् यशस्विनो वह्निमिद्धं स्वच्छान् जलाश-यान्
कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते-जसः ।नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितः
यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ।शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्
शैलप्रासादसफलवृक्षसिंहनरद्विपान् ।आरोहेद्गोऽश्वयानञ्च तरेन्नदह्रदोदधीन्
पूर्व्वोत्तरेण गमनमगम्यागमनं मृतम् ।सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम् ।रोदनं पतितोत्थानं द्विषताञ्चावमर्द्दनम् ।यस्य स्यादायुरारोग्यं वित्तं बहु सोऽश्नुत्रे
”इति वाभटे शारोरस्थाने षष्ठेऽध्याये
)