| YouTube Channel

स्रिवु (srivu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्रिव्
मूलधातुः:
स्रिवु
धात्वर्थः:
गति-शोषणयोः
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्रीव्यति
धातुप्रदीपः
Sanskrit
स्रिवुँ स्रिवु गति, शोषणयोः
- स्रीव्यति स्रूः स्रुवौ स्रुवः (3) 3
क्षीरतरङ्गिणी
Sanskrit
स्रिवुँ स्रिवु गति, शोषणयोः
- स्रीव्यति ज्वरत्वर (6420) इत्यूट्त्वम्-स्रूत्वा स्रेवित्वा 3
धातुवृत्तिः
Sanskrit
स्रिवुँ स्रिवु (अर्थः) गति, शोषणयोः
(स्रीव्यति) इत्यादि दीव्यतिवत् (सिस्रेविषति सुस्रूवति) इवन्तत्वादिड्विकल्पः इडभावे "हलन्ताच्च'' इति कित्त्वे "ज्वरत्वर'' इत्यादिना वकारोपधयोरूठि द्विर्वचनम् ( सेस्रीव्यते सेस्रोति, सेस्रूतः, सेस्रिवति, सेस्रोषि सेस्रोमि, सेस्रीवः, सेस्रूमः ) झलादावनुनासिकादौ क्कौ उपधापवकारयोः "ज्वरत्वर'' इत्यादिना ऊठ् ( स्रेवित्वा, स्रूत्वा ) उदित्त्वादिड्विकल्पः ( स्रूतः ) "यस्य विभाषा'' इत्यनिटत्वम् ( स्रूतिः ) "तितुत्र'' इत्यनिट्त्वम् ( स्रूः, स्रुवौ, )क्वौ पूर्ववदूठ्, अजादावुवङ् "ओस्सुपि'' इति यण् संयोगपूर्वत्वान भवति 3
कृदन्तरूपमाला
Sanskrit
1 {@“स्रिवु गतिशोषणयोः”@} 2 सर्वाण्यपि रूपाणि दीव्यतिवत् 3 ज्ञेयानि।
4 स्रूतम्- 5 स्रूतः-स्रूतवान्, स्रूः- स्रुवौ-स्रुवः, 6 स्रीव्यन्-न्ती, 7 स्रूतिः, सनि- 8 सिस्रेविषकः-सुस्रूषकः
सेस्रिवकः इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१९७९)
02
=>
(४-दिवादिः-११०९। सक। सेट्। पर।)
03
=>
(८३८)
04
=>
[[६। निष्ठायाम्, ‘ज्वरत्वरस्रिवि--’ (६-४-२०) इत्यूठि रूपमेवम्। काशिकायां स्रिविस्थाने ‘श्रिवि’ इति पठितम्। ‘यस्य विभाषा’ (७-२-१५) इत्यनिट्त्वम्।]]
05
=>
[[आ। ‘दीव्यन् देवो विचित्रस्युवमथ रजकं प्रैक्षतास्रूतमग्रे।’ धा। का। २-५६।]]
06
=>
[[७। शतरि ‘हलि च’ (८-२-७७) इति उपधाया दीर्घः।]]
07
=>
[[८। क्तिनि, ऊठि, ‘तितुत्र--’ (७-२-९) इतीण्निषेधः।]]
08
=>
[[९। इवन्तत्वेन ‘सनीवन्तर्ध--’ (७-२-४९) इतीड्विकल्पः। इडभावे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘ज्वरत्वरस्रिवि--’ (६-४-२०) इत्यादिनोपधावकार- योरूठि द्विर्वचने रूपमेवम्।]]