| YouTube Channel

स्रन्स (sransa)

 
शब्दकल्पद्रुमः
Sanskrit
स्रन्स, भ्रंशे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् क्त्वावेट् ।) रेफ-युक्तः दन्त्यादिः ऌ, अस्रसत् उ, स्रंसित्वास्रस्त्वा ङ, स्रंसते भ्रंशः अधःपतनम् इतिदुर्गादासः
स्रन्स, प्रसादे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् क्त्वावेट् ।) ङ, स्रंसते उ, स्रंसित्वा स्रस्त्वा प्रसादः प्रसन्नी-भावः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्रन्स पतने
भ्वा०
आत्म० लुङि उ० अक० सेट् उदित् क्त्वावेट् स्रंसते इरित् अस्रसत् अस्रंसिष्ट “नास्रसत्करिणां ग्रैवम्” रघुः
स्रन्स प्रसादे
भ्वा०
आ० अक० सेट् उदित् क्त्वा वेट् स्रंसते अस्रंसिष्ट