| YouTube Channel

स्रंसु (sraMsu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्रंस्
मूलधातुः:
स्रंसु
धात्वर्थः:
अवस्रंसने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्रंसते
अनुबन्धादिविशेषः:
उदित्, द्युतादिः
कृदन्तरूपमाला
Sanskrit
1 {@“स्रंसु अवस्रंसने”@} 2 ‘अस्रंसिष्ट स्रंसते चाद्युतादेः ते द्वे स्तां अस्रसच्च द्युतादेः।’ 3 इति देवः।
‘अधःपतने’ इति मैत्रेयः।
यङि 4 सनीस्रंसकः, क्विपि- 5 उखास्रत्, 6 स्रस्त्वा-स्रंसित्वा, 7 स्रस्तिः- 8 विस्रसा, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९७८)
02
=>
(१-भ्वादिः-७५४। सक। सेट्। आत्म।)
03
=>
(श्लो। १८५)
04
=>
[[१। यङन्ते सर्वत्र ‘नीग्वञ्चुस्रंसु--’ (७-४-८४) इत्यादिना अभ्यासे नीगागमो बोध्यः।]]
05
=>
[[२। उखायाः स्रंसते इति ‘क्विप् च’ (३-२-७६) इति क्विप्। उपधानकारलोपः। ‘वसुस्रंसु--’ (८-२-७२) इति पदान्तसकारस्य दकारः।]]
06
=>
[[३। उदित्त्वादिड्विकल्पः। इट्पक्षे कित्त्वाभावात् नलोपाभावः।]]
07
=>
[[४। ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इति क्तिन्।]]
08
=>
[[५। ‘विपूर्वकादस्मात् भिदादेः (३-३-१०४) आकृतिगणत्वात् अङि नलोपे विस्रसा-जरा’ इति प्रक्रियासर्वस्वम्।]]