| YouTube Channel

स्यन्दू (syandU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्यन्द्
मूलधातुः:
स्यन्दू
धात्वर्थः:
प्रस्रवणे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्यन्दते
अनुबन्धादिविशेषः:
द्युतादिः वृतादिः
धातुप्रदीपः
Sanskrit
स्यन्दूँ स्यन्दू स्रवणे
- स्यन्दते सस्यन्दे अनुविपर्य्यभिनिभ्यः (8/3/72) इति वा षत्वम्-अनुस्यन्दते तैलम्, अनुष्यन्दते वा सन्त्स्यति स्यन्दिष्यते अस्यदत् ।अस्यन्त्त ।अस्यन्दिष्ट स्यन्दित्वा स्यन्त्त्वा प्रस्यन्द्य क्त्वि स्कन्दिस्यन्दोः (6/4/31) इति नलोपनिषेधः स्यन्दिता स्यन्ता प्रस्यन्नः। प्रस्यन्नवान् स्यदो जवः ।। 764 ।।
क्षीरतरङ्गिणी
Sanskrit
स्यन्दूँ स्यन्दू स्रवणे
- स्यन्दते अस्यदत्, अस्यन्दिष्ट स्यन्त्यति, स्यन्दिष्यते स्यन्तुम्, स्यन्दितुम् अनुविपर्यभिनिविभ्यः स्यन्दतेरप्राणिषु (8372) इति वा षत्वम्-अनुष्यन्दते तैलम्, अनुस्यन्दते स्यदो जवे (6428) साधुः क्त्वि स्कन्दस्यन्दोः (6431) नेट्-स्यन्त्वा युच्-स्यन्दनः स्यन्देः प्रसारणं धश्च (दश0 उ0 196) इति सिन्धुः 739
धातुवृत्तिः
Sanskrit
स्यन्दूँ स्यन्दू (अर्थः) प्रस्रवणे
( स्यन्दते सस्यन्दे सस्यन्दिवहे सस्यन्द्वहे ) ऊदित्त्वात् "स्वारतिसूति'' इत्यादिना वलादावार्द्धधातुक इड्विकल्पः स्यन्दिता स्यन्ता स्यन्दिष्यते स्यन्त्स्यते ) "वृह्म्यः स्यसनोः'' इति यदा परस्मैपदं तदा स्यन्देरूदिल्लक्षणमन्तरङ्गमपीङ्विकल्पं "न वृज्ञ्यः'' इति निषेधश्चतुर्ग्रहणसामर्थ्याद्वाधते इति ( स्यन्त्स्यति अस्यन्त्यस्यत् सिस्यन्त्सतीत्यवे भवति स्यन्दताम् अस्यन्दत स्यन्दिषीष्ट स्यन्त्सीष्ट अस्यन्दिष्ट अम्यन्दिष्यत ) इढभावे ज्ञलि सिलोपे चर्त्वे ( अस्यन्त अस्यन्त्साताम् इत्यादि ) "द्युज्ञयो लुङि'' इति यदा परस्मैपदं तदा "पुषादिद्युतादि'' इति अङ् अनुनासिकलोपः ( अस्यदत् अस्यदतामित्यादि अस्यन्दिष्यत अस्यन्तसयत सिष्यन्दिषते सिस्यन्त्सते सिस्यन्त्सति अनुस्यन्दते जलम् अनुष्यन्दत इति वा ) "अनुविपर्यभिनिभ्यः'' इति वा षत्त्वम् एवं पयांदिभ्य उदाहार्यम् अप्राणिष्वितस्य पर्युदासत्त्वात्प्राण्यप्राणिस्मुदायोपि प्राणिव्यतिरिक्त इति मत्स्योदके अनुष्न्तदेते इत्यत्रापि वा मूर्द्धन्यो भवति ( स्यन्दित्वा स्वयन्त्वा ) "त्कि स्कन्दस्यन्दोः'' इतृयादिष्वपि नलोपो निषिध्यते (स्यन्नः) निष्ठायां "यस्य विभाषा''इत्यनिट्त्वम् (स्यदः) घञि"स्यादो जवे''इति निपातन्नलोपः, वृद्ध याभावश्च जवादन्यत्र (स्यन्दः, स्यन्दनः) "अनुदात्तेतश्च इति युज्वा ( सिन्धुः ) "स्यन्देः सम्प्ररणंधश्च'' इज्युप्रत्ययः सम्प्रसारणं धश्चान्तादेशः सिधौ जातः (सिन्धुकः सैन्धवः) "सिन्ध्वपकाराभ्यां कन्'' "अणञौ च'' इति कनणौ सिन्धुरभिजनो यस्य (सैन्धवः)"सिन्धुतक्षशिलादिभ्यामण् सिन्धौ भवादिरपि (सैन्धवः) "कच्छादिभ्यश्च''इति शैषिकोण् यदा त्वयं भावानिर्मनुष्यः ततस्स्थो वा तदा "मनुष्यतस्थायोर्वृञ्'' इति वुञ् ( सैन्धवको मनुष्यः सैन्धवकं हसितमिति) लवणसिन्धौ भवं (लावणसैन्धवम्) "प्राग् दीव्यतोण्'' "हद्भगसिन्धवन्ते पूर्वपदस्य च''इत्युभपयपदवृद्धिः 749
कृदन्तरूपमाला
Sanskrit
1 {@“स्यन्दू प्रस्रवणे”@} 2 अर्थभेदेन सकर्मकोऽकर्मकोऽपि कविभिः प्रयुज्यते।
स्यन्दकः-न्दिका, स्यन्दकः- न्दिका, सिस्यन्त्सकः-न्त्सिका, सिस्यन्दिषकः-षिका, सास्यन्दकः-न्दिका
इत्यादिकानि रूपाणि सर्वाण्यपि कृपूधातुवत् 3 ज्ञेयानि
प्रातिस्विक- रूपाणि विना।
ऊदित्त्वात् ‘स्वरतिसूति--’ 4 इत्यादिना वलादेरार्ध- 5 धातुकस्य इड्विकल्पः।
स्यन्दिता- 6 स्यन्ता इति।
7 स्यन्दित्वा-स्यन्त्वा, 8 स्यन्नः, 9 स्यन्दनः, 10 अनुष्यन्दमानः, 11 विष्यन्दमानः, परिष्यन्दमानः, अभिष्यन्दमानः, निष्यन्दमानः, अनुस्यन्दमानः, विस्यन्दमानः, परिस्यन्दमानः, अभिस्यन्दमानः, निस्यन्दमानः, णिनिप्रत्यये 12 निष्यन्दी, 13 स्यदः, अश्वस्यदः, गोस्यदः, 14 स्यन्त्स्यन्, 15 सिन्धुः, स्यन्दम् - 16 स्यन्त्वा २, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१९७२)
02
=>
(१-भ्वादिः-७६१। अक। वेट्। आत्म।)
03
=>
(२५२)
04
=>
(७-२-४४)
05
=>
[पृष्ठम्१३९९+ ३०]
06
=>
[[१। ऊदित्त्वात् इड्विकल्पः। इडभावपक्षे धातुदकारस्य चर्त्वेन तकारः। तस्य ‘झरो झरि--’ (८-४-६५) इति पाक्षिको लोपः। एवं तव्यदादिष्वपि बोध्यम्।]]
07
=>
[[२। ऊदित्वात् इड्विकल्पः। इडभावपक्षे ‘क्त्वि स्कन्दिस्यन्दोः’ (६-४-३१) इति नलोपो निषिध्यते। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् उपधानकारलोपो न।]]
08
=>
[[३। निष्ठायाः ‘यस्य विभाषा’ (७-२-१५) इत्यनिट्त्वम्। निष्ठातकारधातुदकारयोः नत्वम्।]]
09
=>
[[४। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युच्प्रत्ययः।]]
10
=>
[[५। ‘अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु’ (८-३-७२) इति सकारस्य विकल्पेन मूर्द्धन्यादेशः। अनुस्यन्दमानः मत्स्यः, जलं वा। अत्र षत्वम्। ‘अप्राणिषु’ (८-३-७२) इत्युक्तेः।]]
11
=>
[[आ। ‘विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्।’ भ। का। ९-७४।]]
12
=>
[[B। ‘सायं शशाङ्ककिरणाहतचन्द्रकान्त- निष्यन्दिनीरनिकरेण कृताभिषेकाः।’ शि। व। ४-५८।]]
13
=>
[[६। ‘स्यदो जवे’ (६-४-२८) इति जवेऽभिधेये घञ् नलोपो वृद्ध्यभावश्च निपात्यते। अन्यत्र घृतस्यन्दः इत्येव
\n\n नलोपादिकम्।]]
14
=>
[[७। ‘वृद्भ्यः स्यसनोः’ (१-३-९२) इति परस्मैपदं वा। ‘न वृद्भ्यः चतुर्भ्यः’ (७-२-५९) इतीण्निषेधः।]]
15
=>
[[८। औणादिके (द। उ। १-९६) उप्रत्यये संप्रसारणे रूपमेवम्। स्यन्दतेऽत्यर्थमिति सिन्धुः = समुद्रः, नदविशेषश्च।]]
16
=>
[[C। ‘स्यन्त्वा स्यन्त्वा दिवश्शम्भोः मूर्ध्नि स्कन्त्वा भुवं गतम्।’ भ। का। २२-११।]]