| YouTube Channel

स्फटीक (sphaTIka)

 
वाचस्पत्यम्
Sanskrit
स्फटि(टी)क
पु०
स्फटि(टीव)रेव कायति कै--क ।१ स्वनामख्याते मणौ हला० प्यार्थे वा ह्रस्वः ।२ स्फट्यां भावप्र० स्वार्थेऽण् स्फाटिकमप्यत्र
न०
शब्दर० ।“स्फटकिः समवीर्य्यश्च पित्तदाहार्त्तिदोषणुत् तस्माक्षमालां जपतां दत्ते कोटिगुणं फलम्” तत्परीक्षायथा “यद्गङ्गातोयविन्दुच्छविनिमलतमं निस्मुर्षं नेत्रहृद्य स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्वहारि पापाणे यन्निवृष्टं स्फुटितमपि निजां स्वच्छतांनैव जह्यात् तज्जात्यं जातु लभ्यं शुभमुपचिनौते शैवरत्नञ्च रत्नम्” राजनि० ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् मणिरत्न सरंशीतं कषायं स्वादु लेखनम् चक्षुष्यं धारणात्तच्च वापा-लक्ष्मीविनाशनम्” राजवल्लभः तस्य उत्पत्तकथादिकयथा “कावेरीविन्ध्ययवनचीननेपालभूमिषु लाङ्गलीव्यकिरन्मेदा दानवस्य प्रयत्नतः आकाशशुद्धं तैलाख्यमुत्पन्न स्फटिकं ततः मृप्प लशङ्कधवलं किञ्चिद्वर्णा-न्तरान्वितम् तत्तुल्यं हि रत्नानामथ वा पाप-नाशनम् संस्कतं शिल्पिना नद्यो मूल्यं किञ्चिल्लभे-त्ततः” गारुडे ७९ अ० तथा “हिमालये सिंहले चविन्ध्याटवितटे तथा स्फटिकं जायते चैव नानारूपंसमप्रभम् हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधाभवेत् सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथाऽपरम् ।सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात् सूर्य्य-कान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः पूर्णेन्दुकर-संस्पर्शादमृत स्रवति क्षणात् चन्द्रलान्तं तदास्त्रातंदुर्लभं तत् कलौ युगे अशोकपल्लवच्छायं दाडिमी-वीजसन्निभम् विन्ध्याटवीतटे देशे जायते पन्दकान्ति-कम् सिंहले जायते लुष्णमाकरे गन्धनीलके पद्म-रागभवस्थाने विविध स्फटिकं भवेत् अत्यन्तनिर्मलंस्वच्छं सृवतीव जलं शुचि ज्यातिर्ज्यलनमाश्लिष्टंमुक्ताज्योतीरसं द्विज! तदेय लोहिताकारं राजावार्त्त-समद्भवम आनीलंतत्तु पाषाणं प्रोक्तं राजमयं शुअभम् ।ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज! “युक्तिकल्प०