| YouTube Channel

स्पृह (spRha)

 
Yates
English
स्पृह (क) स्पृहयति 10.
a. To wish, to
long for.
Wilson
English
स्पृह r. 10th cl. (स्पृहयति) To wish, to desire, to long for.
Kridanta Forms
Sanskrit
स्पृह (स्पृ꣡ह꣡ ईप्सायाम् - चुरादिः - सेट्)
ल्युट् = स्पृहणम्
अनीयर् = स्पृहणीयः - स्पृहणीया
ण्वुल् = स्पृहकः - स्पृहिका
तुमुँन् = स्पृहयितुम्
तव्य = स्पृहयितव्यः - स्पृहयितव्या
तृच् = स्पृहयिता - स्पृहयित्री
क्त्वा = स्पृहयित्वा
ल्यप् = प्रस्पृहय्य
क्तवतुँ = स्पृहितवान् - स्पृहितवती
क्त = स्पृहितः - स्पृहिता
शतृँ = स्पृहयन् - स्पृहयन्ती
शानच् = स्पृहयमाणः - स्पृहयमाणा
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्पृह्
मूलधातुः:
स्पृह
धात्वर्थः:
ईप्सायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
स्पृहयति-ते
अनुबन्धादिविशेषः:
अदन्तः
धातुप्रदीपः
Sanskrit
स्पृह ईप्सायाम्
- स्पृहयति स्पृहा स्पृहयालुः 314
शब्दकल्पद्रुमः
Sanskrit
स्पृह, त् ईप्से इति कविकल्पद्रुमः
(अदन्तचुरा०-पर०-सक०-सेट् ।) ईप्स आप्तुमिच्छा ।स्पृहयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्पृह इच्छायां अद० चुरा०
उभ०
सक०
सेट् स्पृहयति--ते अपस्पृहत्
क्षीरतरङ्गिणी
Sanskrit
स्पृह ईप्सायाम्
- स्पृहेरीप्सितः (1436) सम्प्रदानम्-पुष्पेभ्यः स्पृहयति स्पृहिगृहि (32158) इत्यालुच्-स्पृहयालुः 315
धातुवृत्तिः
Sanskrit
स्पृह (अर्थः) ईप्सायाम्
( पुष्पेभ्यः स्पृहयति ) "स्पृहेरीप्सितः'' इति ईप्सितस्य संप्रदानत्त्वम् ( स्पृहयालुः ) "स्पृहिगृहि'' इत्यादिनालुच् 329
कृदन्तरूपमाला
Sanskrit
1 {@“स्पृह ईप्सायाम्”@} 2 अदन्तः।
सर्वाण्यपि रूपाणि ‘गृह ग्रहणे’ 3 इति धातुवत् ज्ञेयानि।
4 स्पृहयालुः, 5 6 पुष्पेभ्यः स्पृहयन्-न्ती, 7 स्पृहयाय्यः इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९५१)
02
=>
(१०-चुरादिः-१८७२। सक। सेट्। उभ।)
03
=>
(४२५)
04
=>
[[३। ‘स्पृहिगृहि--’ (३-२-१५८) इत्यादिना तच्छीलादिषु कर्तृषु आलुच्प्रत्यये ‘अयामन्तालु--’ (६-४-५५) इति णेरयादेशे रूपमेवम्।]]
05
=>
[[B। ‘स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्।’ भ। का। ७-२१।]]
06
=>
[[४। अत्र ‘स्पृहेरीप्सितः’ (१-४-३६) इति ईप्सितस्य संप्रदानत्वम्। तेन ‘पुष्पेभ्यः’ इत्यत्र चतुर्थी।]]
07
=>
[[५। औणादिके (द। उ। ८-१।) आय्यप्रत्यये आयादेशे रूपमेवम्। स्पृहयाय्यः = स्पृहणशीलः।]]