| YouTube Channel

स्पर्शः (sparzaH)

 
Apte
English
स्पर्शः [sparśḥ], 1 [स्पर्श्, स्पृश् वा-घञ्] Touch, contact (in all senses)
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः
Bg.*
5.27
तदिदं स्पर्शक्षमं रत्नम्
Ś.*
1.28
2.7.
Contact (in
astr.
).
Conflict, encounter.
Feeling, sensation, the sense of touch.
The quality of touch or tangibility, touch, the object or विषय of skin (त्वच्)
स्पर्शगुणो वायुः T. S.
स्पर्शनं स्पर्शती स्पर्शान् बुद्धिर्विक्रियते$सकृत्
Mb.
* 12.285.2.
That which affects or influences, affection, seizure.
Disease, illness, disorder, distemper.
A consonant of any of the five classes of letters (from क् to म्)
कादयो मान्ताः स्पर्शाः
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः
Bhāg.*
3.12.46.
A gift, donation, presentation.
Air, wind.
The sky.
Sexual union
स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत्
Mb.
* 13.12.1.
A secret spy. -र्शा An unchaste woman.
Comp.
-अज्ञ
a.
senseless, insensible. -अनुकल
a.
pleasant to the touch, cooling. -आनन्दा an apsaras. -इन्द्रियम् the organ or sense of touch. -उदय
a.
followed by a consonant.-उपलः, -मणिः a kind of jewel considered to be the same as 'philosopher's stone'. ˚मणिप्रभवम् gold
L.
D. B.-क्लिष्ट
a.
painful to the touch. -क्षम
a.
capable of touch, tangible. -गुण
a.
having the quality of tangibility (as air)
बलवाञ्जायते वायुः वै स्पर्शगुणो मतः
Ms.*
1.76.-तन्मात्रम् the subtile element of tangibility. -द्वेषः sensitiveness to touch. -यज्ञः an offering consisting in the mere touch of the things offered
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः
Mb.
* 14.92.19. -रसिक
a.
sensual, lustful. -लज्जा, -संकोचपर्णिका the sensitive plant (Mar. लाजाळू). -वेद्य
a.
to be apprehended by the sense of touch. -संचारिन्
a.
contagious, infectious. -स्नानम् ablution at the entrance of a sun or moon into an eclipse. -स्पन्दः, -स्यन्दः a frog.
Apte 1890
English
स्पर्शः 1 [स्पर्श्, स्पृश् वा-घञ्] Touch, contact (in all senses)
तदिदं स्पर्शक्षमं रत्नं Ś. 1. 28, 2. 7.
2 Contact (in astr).
3 Conflict, encounter.
4 Feeling. sensation, the sense of touch.
5 The quality of touch or tangibility, touch, the object or विषय of skin (त्वच्)
स्पर्श गुणो वायुः T. S.
6 That which affects or influences, affection, seizure.
7 Disease, illness, disorder, distemper.
8 A consonant of any of the five classes of letters (from क् to म्)
कादयो मांताः स्पर्शाः.
9 A gift, donation, presentation.
10 Air, wind.
11 The sky.
12 Sexual union.
13 A secret spy.
र्शा An unchaste woman.
Comp.
अज्ञ a. senseless, insensible.
इंद्रियं the organ or sense of touch.
उदय a. followed by a consonant.
उपलः,
मणिः a kind of jewel considered to be the same as ‘philosopher's stone’.
तन्मात्रं the subtile element of tangibility.
लज्जा the sensitive plant.
वेद्य a. to be apprehended by the sense of touch.
संचारिन् a. contagious, infectious.
स्नानं ablution at the entrance of the sun or moon into an eclipse.
स्पंदः,
स्यंदः a frog.
Apte Hindi
Hindi
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"छूना, संपर्क"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
संयोग
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"संघर्ष, मुठभेड़"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"भावना, संवेदना, छूने से होने वाला ज्ञान"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"त्वचा का विषय, स्पर्शयोग्यता, स्पर्शगुण"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"प्रभाव, रोग, बीमारी का दौरा"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"रोग, व्याधि, विकृति, आदि या मनोव्यथा"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
पाँचों वर्गों में कोई सा व्यंजन
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"उपहार, दान, भेंट"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
"हवा, वायु"
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
आकाश
स्पर्शः
पुं*
- स्पर्श् (स्पृश् वा) + धञ्
एक रतिबंध
Wordnet
Sanskrit
Synonyms:
स्पर्शः
noun
व्याकरणशास्त्रानुसारेण यस्य वर्णस्य उच्चारणसमये जिह्वायाः कश्चित् भागः मुखस्य कञ्चित् भागं स्पृशति श्वासः आंशिकं कालं अवरुध्यते च।
"कादि मपर्यन्तवर्णाः स्पर्शाः इति कथ्यन्ते।"
Synonyms:
स्पर्शः
noun
त्वचः सः गुणः येन त्वचा सह अन्यस्य वस्तुनः सम्पर्कस्य ज्ञानं भवति।
"अङ्गस्य पक्षाघातेन तस्य अङ्गस्य स्पर्शस्य ज्ञानम् अपि नष्टं भवति।"
Synonyms:
स्पर्शः
noun
सूर्यग्रहणस्य चन्द्रग्रहणस्य वा आरम्भः।
"दूरदर्शनसञ्चे सूर्यग्रहणस्य स्पर्शात् आरभ्य मोक्षं यावत् दृष्यं दर्शितम्।"
Synonyms:
स्पर्शः
noun
सम्भोगस्य प्रकारः।
"रतबन्धस्य षोडशसु प्रकारेषु स्पर्शः एकः।"
Synonyms:
सम्पर्कः, पृक्तिः, संसर्गः, स्पर्शः, स्पृष्टिः
noun
वस्तुनः परस्परपरिमर्शः।
"सः नैकवारं सर्पस्य स्पर्शं करोति।"
Tamil
Tamil
ஸ்பர்ச’: : தொடுதல், தொடர்பு, காற்று, தானம், நன்கொடை, ஆகாயம்.
शब्दकल्पद्रुमः
Sanskrit
स्पर्शः,
पुं,
(स्पृश स्पर्शने, स्पर्श ग्रहणे वा + घञ् ।)रुजा दानम् स्पर्शनम् (यथा, उत्तर-रामचरिते अङ्के ।“विनिश्चेतुं शक्यो सुखमिति वा दुःख-मिति वाप्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणोविकारश्चैतन्यं भ्रमयति संमीलयति
”)स्पर्शकः सम्परायः प्रणिधिः इति मेदिनी
उपतप्ता इत्यमरः १४
वर्गाक्षरम् ।इति हेमचन्द्रः
(यथा, भागवते ।“स चिन्तयन् द्व्यक्षरमेकदाम्भ-स्युपाशृणोत् द्विर्गदितं वचो विभुः ।स्पर्शेषु यत् षोडशमेकविंशंनिष्किञ्चनानां नृप ! यद्धनं विदुः
”)वायुः इति केचित्
कामिनां बन्धभेदः इतिशब्दरत्नावली
कादिवर्गपञ्चकम् यथा, --“स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः
”इति श्रीभागवते स्कन्धे १२ अध्यायः
स्पर्शः कादिवर्गपञ्चकम् इति तट्टीकायांश्रीधरस्यामी
न्यायमते त्वगिन्द्रियग्राह्मगुण-विशेषः त्वगुपकारकः त्रिविधः ।उष्णः शीतः अनुष्णाशीतः पृथिव्याःस्पर्शः काठिन्यादिः पाकजः जलपरमाणुस्पर्शःनित्यः अन्यत्रानित्यः वैशेषिकमते पार्थिव-परमाणुमात्रस्य पाकजस्पर्शः नैयायिकमते तुद्व्यणुकादिस्पर्शोऽपि पाकजः यथा, --“स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ।अनुष्णाशीतशीतोष्णभेदात् त्रिविधो मतः
काठिन्यादिः क्षितावेव नित्यतादि पूर्व्ववत् ।एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित्
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ।नैयायिकानान्तु नये द्व्यणुकादावपीष्यति
”इति भाषापरिच्छेदः
स्पर्शं निरूपयति स्पर्श इति उपकारक इतिस्पर्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः अनु-ष्णाशीतेति पृथिव्या वायोः स्पर्शोऽनुष्णा-शीतः जलस्य शीतः तेजस उष्णः काठि-न्येति कठिनसुकुमारस्पर्शः पृथिव्या एवइत्यर्थः कठिनत्वादिकन्तु संयोगनिष्ठोजातिविशेषः चक्षुर्ग्राह्यतापत्तेः पूर्व्ववत् जल-तेजोवायुपरमाणुस्पर्शा नित्याः इत्यर्थः तद्भिन्नाःस्पार्शास्त्वनित्या इत्यर्थः एतेषां रूपरसगन्ध-स्पर्शानाम् नान्यत्रेति पृथिव्या हि रूपरस-गन्धस्पर्शपरावृत्तिः पाकरससंयोगादुपलभ्यते ।न हि शतधापि ध्मायमाने जलादौ रूपादिकंपरावर्त्तते नीरे सौकरमौष्णञ्च नयव्यतिरेका-भ्यामुपाधेरेवेति निलीयते पवनपृथिव्योः शीत-स्पर्शादिवत् पृथिवीष्वपि मध्ये परमाणावेवरूपादीनां पाकः इति वैशेषिका वदन्ति ।नैयायिकानामिति नैयायिकानां मते द्व्यणु-कादौ अवयविन्यपि पाको भवति इतिसिद्धान्तमुक्तावली
*
पुराणमते एकादशविधस्पर्शो यथा उष्णः १शीतः सुखः दुःखः स्निग्धः विशदः ६खरः मृदुः श्लक्ष्णः लघुः १० गुरुः ११ ।इति महाभारते मोक्षधर्म्मः
कठिनः इतितत्रैव आश्वमेधिकपर्व्व
आचमनाङ्गस्पर्शनंआचमनशब्दे द्रष्टव्यम्
*
उच्छिष्टस्य स्पर्श-निषेधो यथा, --“न स्पृशेत् पाणिनोच्छिष्टो विप्रगोब्राह्मणा-नलान् ।न चानलं पदा वापि देवप्रतिमां स्पृशेत्
”इति कौर्म्मे उपविभागे १६ ३५
अथ उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् ।आपस्तम्बः ।“भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा ।प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशीधनम्
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ।त्रिरात्रोप्रोषिता भूत्वा पञ्चगव्येन शुध्यति
भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् ।अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशनेतथा
”प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येन आद्यग्रासःआस्ये निःक्षिप्तः तु निगीर्णः दक्षः ।“पाने मैथुनसंसर्गे तथा मूत्रपुरीषयोः ।स्पर्शनं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह
दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम्
”काश्यपः ।“श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः ।यद्युच्छिष्टः स्पृशेत् तत्र कृच्छ्रं सान्तपनं चरेत्
”एतज्ज्ञानाभ्यासे सान्तपने धेनुद्वयम् ब्रह्म-पुराणे ।“उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः ।उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा
उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः ।उभौ स्नानं प्रकुरुतः सद्य एव समाहितौ
”अनुच्छिष्टब्राह्मणस्य नक्तमिति प्रायश्चित्त-विवेकः
*
अथ रजस्वलास्पर्शप्रायश्चित्तम् ।काश्यपः ।“रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।एकरात्रं निराहारा पञ्चगव्येन शुध्यति
रजस्वला तु संस्पृष्टा राजन्या ब्राह्मणी तु या ।त्रिरात्रेण विशुद्धिः स्यात् व्याघ्रस्य वचनं यथा
रजस्वला तु संस्पृष्टा वैश्यया ब्राह्मणी या ।पञ्चरात्रनिराहारा पञ्चगव्येन शुध्यति
रजस्वला तु संस्पृष्टा शूद्रया ब्राह्मणी यदि ।षड्रात्रेण विशुध्येत्तु ब्राह्मणी कामचारतः
अकामतश्चरेदर्द्धं ब्राह्मणी सर्व्वजातिषु
”एतेन रजस्वलाया ब्राह्मण्याः सवर्णरजस्वला-स्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः ।अकामतस्त्वदर्द्धं नक्तव्रतम् असवर्णरजस्वला-स्पर्शे त्रिरात्रपञ्चरात्रषड्रात्रोपवासाः अका-मतस्त्वदर्द्धं एतच्चतुर्थाहानन्तरं कर्त्तव्यम् ।“चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजस्वला ।अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत्
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति ।तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्तु कारयेत्
”इति वचनान्तरदर्शनात्
एतत् कामतः अत्र दिनभेदोऽपि नास्ति ।अज्ञाने बृहस्पतिः ।“पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला ।तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत्
प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् ।अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत्
”चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् व्याघ्रः ।“रजस्ला यदा स्पृष्टा श्वजम्बुकखरैः क्वचित् ।निराहारा भवेत्तावत् यावत् स्नानेन शुध्यति
”अत्रापि बृहस्पत्युक्तदिनभेदव्यवस्था वृद्ध-शातातपः ।“रजस्वले तु ये नार्य्यावन्योऽन्यं स्पृशतो यदि ।सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतः परम्
”पञ्चगव्यपानं व्रतरूतं तेनोपवासः ब्रह्मकूर्च्च-माह जाबालः ।“अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः ।पञ्चगव्यं पिबेत् प्रातः ब्रह्मकूर्च्चविधिः स्मृतः
”तदशक्तौ पुराणैकं दातव्यम् उच्छिष्टशूद्रादि-स्पर्शे बृहस्पतिः ।“शुना चोच्छिष्टया शूद्र्या संस्पृष्टा द्ब्यहमाच-रेत् ।अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत्
”परतश्चतुर्थदिने स्नानात् पूर्वमिति ज्ञेयम् ।इति प्रायश्चित्ततत्त्वम्
मत्स्यसूक्तोक्तास्पृश्य-स्पर्शनप्रायश्चित्तं स्नानशब्दे द्रष्टव्यम्
(त्रि, स्पर्शकः आनन्दजनकः यथा, मागवबे ।३ २१ ।“श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम्
”)