| YouTube Channel

स्पर्ध (spardha)

 
Spoken Sanskrit
English
स्पर्ध - spardha -
adj.
- emulous
प्रतिस्पर्धिन् - pratispardhin -
adj.
- emulous
विजिगीष - vijigISa -
adj.
- emulous
विजिगीषु - vijigISu -
adj.
- emulous
स्पृध् - spRdh -
adj.
- emulous
प्रतिभटता - pratibhaTatA -
f.
- emulousness
मिथस्पृध्य - mithaspRdhya -
ind.
- mutually emulous
Apte
English
स्पर्ध [spardha],
a.
Emulous, envious.
Apte 1890
English
स्पर्ध a. Emulous, envious.
Monier Williams Cologne
English
स्पर्ध
mfn.
emulous, envious (-ता
f.
),
W.
Monier Williams 1872
English
स्पर्ध, अस्, आ, अम्, emulous, envious
(आ), f.
emulation, rivalry, competition, the successive eleva-
tion of rivals
envy, jealousy
defiance
equality
with.
—स्पर्ध-ता, f. rivalry, emulation, envious-
ness.
Benfey
English
स्पर्ध स्पर्ध् + अ,
I.
adj.
Emulous,
envious.
II.
f.
धा।
1. Emulation,
envy, jealousy, Johns. Sel. 45, 68
Rājat. 5. 285.
2. Successive eleva-
tion.
3. Sameness.
--
Comp.
वि-स्पर्-
धा,
f.
absence of envy, MBh. 5, 1602.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्पर्ध्
मूलधातुः:
स्पर्ध
धात्वर्थः:
सङ्घर्षे (पराभिभवेच्छा)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्पर्धते
Abhyankara Grammar
English
स्पर्ध a word used in the sense of 'a conflict of two rules' ( विप्रतिषेध ) in some grammars such as those of Jainendra, Sakatayana and Hemacandra
cf Jain. I.2.39, Sak. I.1.46 and Hema. VII.4. l l9.
धातुप्रदीपः
Sanskrit
स्पर्धँ स्पर्ध संघर्षे
- स्पर्द्धते पस्पर्द्धे स्पर्धनः स्पर्द्धा ।। 3 ।।
क्षीरतरङ्गिणी
Sanskrit
स्पर्धँ स्पर्ध संघर्षे
(अर्थविवरणम्) संघर्षः पराभिभवेच्छा
स्पर्धते भ्रातुः -भ्रात्रा सह स्पर्धां करोतीत्यर्थः स्पर्धमानः स्पर्धिता स्पर्धमानः कृष्णम् इति तु कृष्णं प्राप्येत्यध्याहारात् अणावकर्मकात्(1/3/88) इति णेः परस्मैपदम् -स्पर्धयति यङ्लुकि -लङीट्पक्षे(द्र।7/3/94) अपास्पर्धीत्, अनिटि अपास्पत् रात् सस्य(8/2/24) इति नियमात् संयोगान्तलोपाभावः सिपि तु -सिपः हल्ङ्याब्भ्यः (6/1/68) इति लोपे प्रत्ययलक्षणेन जश्त्वे, सिपि धातोरुर्वा, दश्च (8/2/74-75) इति रुत्वपक्षे रो रि (8/3/14) लोपे दीर्घे (द्र।6/3/111) अपास्पा इति रूपम्, अरुत्वपक्षे तु तिबन्तवत् अनुदात्तेतश्च हलादेः (3/2/149) इति युच् - स्पर्धनः गुरोश्च हलः (3/3/103) इत्यप्रत्ययः - स्पर्धा बाहुलकादिष्णुच् मेरुं स्पर्धिष्णुनवान्यो धृतो नाको हिमाद्रिणा3
धातुवृत्तिः
Sanskrit
स्पर्धँ स्पर्द्ध (अर्थः) सङ्घर्षे
(अर्थविवरणम्) पराभिभवेच्छा
पराभिभवस्य धात्वर्थेनोपसंग्रहात् अकर्म त्वम् उक्तम्
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् प्रसिद्धेरविवक्षातः कम्रणोऽकर्मिका क्रिया
इति ( स्पर्द्धते स्पर्द्धसे स्पर्द्धमानः पस्पर्द्धे पस्पर्द्धिंषे पस्पर्द्धे पस्पर्द्धे ) ( सूत्रम्) शरपूर्वाः खयः (इति सूत्रम्) अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते अन्ये हलो निवर्तन्त इति पकारशेषः ( स्पर्द्धिता स्पर्द्धितासे स्पर्द्धिंताहे स्पर्द्धिष्यते स्पद्धिष्यसे स्पर्द्धिष्ये स्पर्द्धताम् स्पर्द्धस्व स्पर्द्धे अस्पर्द्धत अस्पर्द्धथाः अस्पर्द्धे स्पर्द्धेत स्पर्द्धेथाः स्पर्द्धेय आशिषि स्पर्द्धिंषीष्ट स्पर्द्धिषीष्ठाः स्पर्द्धिषीय अस्पर्द्धिष्ट अस्पर्द्धिष्ठाः अस्पर्द्धषि अस्पर्द्धिष्यत अस्पर्द्धिष्यथाः अस्पर्द्धिंष्ये ) भावे लट्लोट्ङ्विध्यादिलिङक्षु यकि ( स्पर्द्ध्यते स्पर्द्ध्यताम् अस्पर्द्ध्यत स्पर्द्ध्येतेत्यादि ) लुङि तशब्दे चिणि ( अस्पर्द्धीति ) आशीरादिषु कर्तृवत् ( पिस्पर्द्धिषते पिस्पर्द्धिषां चक्रे पिस्पर्द्धिषितेत्यादि ) "सन्यतः'' इतीत्वमभ्यासस्य पूर्ववत् "पूर्ववत्सनः'' इति तङ् आर्थधातुकेऽतो लोपः विध्यादिलिङ्यतो लोपाभावाल्लिङः सलोपे गुणविललोपयोः ( पिस्पर्द्धिषेत ) भावे यकचिणोर्विषोषः ( पिस्पर्द्धिष्यत इत्यादि पास्पर्द्ध्यते ) ( सूत्रम्) दीर्घोकित (इति सूत्रम्) इत्यभ्यासस्याकारस्यदीर्धे यङि तल्लुकि (पास्पर्द्धां चक्रे, पास्पर्द्धितेतृयादि ) तत्रार्द्धधातुके ( सूत्रम्) यस्य हलः (इति सूत्रम्) इति हल उत्तरस्य यस्य लोपः चादेः परस्येति यकारस्य आकारस्य अतो लोपः भावे तादिषु यक्यप्यतो लोपयलोपयोः कर्तृवत्सर्वत्र रूपम् ( पास्पर्द्धत इत्यादि ) लुङि तु चिणि ( अपास्पर्द्धीति ) भवति सन्यङास्तास्यादिषु चिण्वदिटि विशेषः, अतो लोपेन वृद्धेर्बाधादित्युक्तम् यङो लुक्यादादिवच्चेति शपो लुकि ( सूत्रम्) झषस्तयथोधोधः (इति सूत्रम्) झष उत्तरयोस्तकारयकारयोर्दधातिं वर्जयित्वा धकार इति धत्वे "झलां जश् झशि'' इतिजश्त्वम् आन्तरतम्याद्दकारः पास्पर्द्धिं, एवं वचनान्तरेषु परस्पर्द्धंः पास्पर्द्धति "अदभ्यत्'' इत्यद्भावः ( पास्पत्सिं ) ( सूत्रम्) खरि (इति सूत्रम्) खरि परे झलांचर इति चर्त्वे ( पास्पर्द्धः ) सर्वत्र हलादेः पितः सार्वधातुकस्य "यङो वा'' इति ईडुदाहार्यः ( पास्पर्द्धीतीत्यादि पास्पर्द्धां चकार ) पूर्ववत् "कृञोनुप्रयोगस्य''इति नित्यं परस्मैपदम् ( पास्पर्द्धिता पास्पर्द्धिष्यति पास्पर्द्धु पास्पर्द्धात् ) तातङि ङिच्च पिन्नेति स्थानिवत्त्वप्राप्तस्य पित्त्वस्य निषेधादीडभावः ( पास्पर्द्धाम् पास्पर्द्धतु पास्पर्द्धिं ) सेर्ह्मादेशे "हुज्ञलभ्यो हेद्धिंः'' इति धिभावः हेरवित्त्ववचनादिडभावः ( अपार्स्यत् ) इतश्च लोपे हल्ड्यादिलोपे "झलांजशोन्ते'' इति जश्त्वे "वावसाने'' इति चर्त्वे तकारः तदभवे अपास्पर्द् "रात्सस्य'' इति नियमान्न संयोगान्तलोपः ( अपास्पर्द्धाम् अपास्पर्धुः ) "सिजभ्यस्त'' इति जुस् ( अपास्यर्त् अपास्पर्दू अपास्याः ) सिपि हलङ्यादिलोपे पूर्ववज्जश्त्वे चर्त्वे वा तदभावे "दश्च'' इति सिपि परे वा रुः "रोरि'' इति पूर्वस्य रेफस्य लोपः "ढ्रलोपे पूर्वस्य दीर्घोणः'' इति पूर्वस्याणो दीर्घः द्रलोप इति ढकाररेफयोर्लोपनिमित्तो ढकाररेफा वुच्येते ( अपास्पर्द् अपास्पर्त् पास्पद्धर्यात् पास्पद्धर्याताम् पास्पद्धर्युः ) यायुटो ङित्त्वेनापित्त्वादीडभावः आशिषि ( पास्पद्धर्यात् पास्पद्धर्यास्ताम् ) असार्वधातुकत्वादीडभावः ( अपास्पर्द्धीत् अपास्पिर्द्धष्टाम् अपास्पर्द्धिषुः आस्पर्द्धीः अपास्पर्द्धिषम् )"अस्तिसिच्'' इति पितो नित्यमीट् "इट ईटि'' इति सिचो लोपे [ सिज्लोप एकादेश सिद्धः ] इति सवर्णदीर्घः , "वदव्रजहलन्तस्याचः'' इति परस्मैपदपरे सिचि विहिता वृद्धिः "नेटि'' इति निषिध्यते ( अपास्पर्द्धिष्यद् इत्यादि ) भावे सर्वत्र यङन्तवद्रूपम् ( पास्यर्द्ध्यते ) इत्यादि, णौ ( स्पर्धयतीत्यादि ) एधतिवददुदाहार्यम् लुङ्यनजादित्वात्प्रथमस्यैकाचो द्विर्वचनम् ( सूत्रम्) संयोगे गुरुः (इति सूत्रम्) इति संयोगपरस्य ह्रस्वस्य गुरुसंज्ञाविधानात् "सन्वल्लघुनि'' इति इत्वम्, "दीर्घो लघोः'' इति दीर्घश्च भवति गुरुसंज्ञया आकडारीयतयानवकाशया लघुसंज्ञा बाध्यते, कर्मणि यक्चिणोर्विषये णिलोपे ( स्पर्ध्यते ) इत्यादि, प्रकृतौ भाववद्रूपाणि उदाहार्याणि अन्यत्र ( स्पर्धयां चक्रें ) इत्यादि कर्तृवत् लुङि चिण् विचनादौ सिच् ( अस्पद्धिं अस्पर्द्धयिषातामित्याद्युदाहार्यम् ) ध्वमि "विभाषेटः'' इति मूर्द्धन्यविकल्पः स्यादिषु चिण्वदिटि तस्यासिद्धवदत्रेत्यसिद्धत्वाण्णिलोपे ( स्पर्द्धिष्यते ) इत्यादि प्रकृतिवद्रूपम् कर्मकर्तरि यक्चिणोर्निषेधात् शपि स्पर्धयत इत्यादि कर्तृवन्नेयम् अत्रापि स्यादिषु चिण्वतृपक्षे कर्मवत् वत्करणात् स्वाश्रये भावे लकारे सर्वकर्मवत् कर्तरि तृतीया विशेषः ( स्पर्धनः ) "अनुदात्तेतश्च हलादेः'' इति तच्छीलादौ युच् स्पर्द्धा ( सूत्रम्) गुरोश्च हलः (इति सूत्रम्) इति गुरुमतो हलन्तात् स्त्रियामकारप्रत्ययः वासरूपेणक्तिचस्त्रियामिति निषेधान्न भवति ( इदमेषां स्पर्द्धितम् स्पर्द्धितमनेन स्पर्द्धितः ) "क्तोधिकरणे च'' इति कर्तृभावाधिकरणेषु क्तः स्पर्धालुप्रयोगश्चिन्त्यः 3
कृदन्तरूपमाला
Sanskrit
1 {@“स्पर्ध सङ्घर्षे”@} 2 ‘-- संहर्षे’ इति वोपदेवः।
‘संघर्षः = पराभिभवेच्छा।
पराभिभवस्य धात्वर्थेनोपसंग्रहादकर्मकत्वम्।
उक्तं च-- ‘धातोरर्थान्तरे वृत्तेः धात्वर्थेनोपसंग्रहात्।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।।’ 3 इति।।
4 सर्वाण्यपि रूपाणि भौवादिककुर्दतिवत् 5 ज्ञेयानि।
स्पर्धः, 6 स्पर्धितमनेन, 7 स्पर्धनः, 8 स्पर्धालुः 9 , 10 स्पर्धा, 11 प्रस्पर्धी इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९४६)
02
=>
(१-भ्वादिः-३। अक। सेट्। आत्म।)
03
=>
(वाक्यपदीयम् ३-८८)
04
=>
[पृष्ठम्१३९१+ २८]
05
=>
(२३०)
06
=>
[[१। ‘क्तोऽधिकरणे च--’ (३-४-७६) इति कर्तृभावाधिकरणेषु क्तप्रत्ययः।]]
07
=>
[[२। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति तच्छीलादौ युच्प्रत्ययः।]]
08
=>
[[३। ‘अत्र स्पर्धां लात्यादत्ते मितद्र्वादित्वाद् (वा। ३-२-१८०) डुः’ इति धा। का। व्याख्यायाम् (१-२)।]]
09
=>
[[आ। ‘… स्पर्धालुधीगाधितकार्यबाधिनम्।’ धा। का। १-२।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः।]]
11
=>
[[५। णिनिप्रत्यये रूपमेवम्।]]