| YouTube Channel

स्नेहनं (snehanaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्नेहनं,
क्ली,
(स्निह्यत्यनेनेति स्निह + ल्युट् ।)तैलमर्द्दनम् तत्पर्य्यायः स्नेहः स्निग्धता ३म्रक्षणम् म्रक्षः अभ्यङ्गः अभ्यञ्जनम् ।इति राजनिर्घण्टः
(स्नेहयतीति स्निह +णिच् + ल्युः स्निग्धकारिणि, त्रि यथा, सुश्रुते ४५ ।“घृतं सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दिस्नेहनमिति
”)