| YouTube Channel

स्थाविरं (sthAviraM)

 
शब्दकल्पद्रुमः
Sanskrit
स्थाविरं,
क्ली,
(स्थविरस्य भावः कर्म्म वा स्थविर+ “हायनान्तयुवादिभ्योऽण् ।” १३० ।इत्यण् ।) स्थविरत्वम् वृद्धत्वम् इत्यमरः ।२ ४०
(यथा, महाभारते १९९ ।“गार्हस्थेऽथवा बाल्ये यौवने स्थाविरेऽपि वा ।यथाफलं समश्नाति तथा त्वं कथयस्व मे
”)तत्तु सप्ततिवर्षात् परम् यथा, --“आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।वृद्धः स्यात् सप्ततेरूर्द्ध्वं व्रर्षोयान् नवतेः परम्
”इति भरतधृतस्मृतिवचनम्