| YouTube Channel

स्थायी (sthAyI)

 
Spoken Sanskrit
English
स्थायी - sthAyI -
adj.
m.
- permanent
स्थायी - sthAyI -
adj.
- constant
Wordnet
Sanskrit
Synonyms:
स्थायी
noun
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
"भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।"
Synonyms:
निवासी, वासी, वासकारी, निवासकारी, निलायी, स्थायी, अवस्थायी, वास्तव्यः
noun
कस्मिन्नपि स्थाने निवासकर्ता।
"अत्र निवासिनः सर्वे प्रार्थ्यन्ते अपरिचितं कमपि शरणं दातुम्।"
शब्दकल्पद्रुमः
Sanskrit
स्थायी, [न्]
पुं,
(तिष्ठतीति स्था + णिनिः ।)भावभेदः यथा, --“स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद्रतिः पुनः
”इति हेमचन्द्रः
(यथा, साहित्यदर्पणे २०५ -- २०७ ।“अविरुद्धा विरुद्वा वा यं तिरोधातुमक्षमाः ।आस्वादाङ्कुरकन्दोऽसौ भावःस्थायीति सम्मतः
यदुक्तम् ।स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामुकः ।न तिरोधीयते स्थायी तैरसौ पुष्यते परम्
तद्भेदानाह ।रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि
तत्ररतिर्मनोऽकूलेऽर्थे मनसः प्रवणायितम् ।वागादिवैकृच्चेतोविकासो हास इष्यते
इष्टनाशादिभिश्चेतो वैक्लव्यं शोकशब्दभाक् ।प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते
कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।रौद्रशक्या तु जनितं चित्तवैक्लव्यदं भयम्
दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा ।विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु
विस्फारश्चेतसो यस्तु विस्मय उदाहृतः ।शमो निरीहावस्थायामात्मविश्रामजं सुखम्
यथा मालतीमाधवे रतिः नटकमेलके हासः ।रामायणे शोकः महाभारते शमः एवमन्येऽपि एते हि एतेष्वन्तरा उत्पद्यमानैस्तैस्तै-र्विरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परि-पुष्टा एव स्वहृदयानुभवसिद्धाः
*
) स्थिति-विशिष्टे, त्रि
(तथा, महाभारते २६ ।“संवत्सरस्थायिनौ ग्रहौ प्रज्वलितावुभौ
”)