| YouTube Channel

स्थातव्यं (sthAtavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्थातव्यं, त्रि, (स्था + तव्य ।) स्थेयम् स्थानीयम् ।यथा, कालिदासकृतशृङ्गारतिलके ।“बाणिज्येन गतः मे गृहपतिवार्त्तापि नश्रूयतेप्रातस्तज्जननो प्रसूततनया जामातृगेहं गता ।बालाहं नवयौवना निशि कथं स्थातव्यमस्मद्-गृहेसायं सम्पति वर्त्तते पथिक हे स्थानान्तरेगम्यताम्