| YouTube Channel

स्त्रैणं (straiNaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्त्रैणं,
क्ली,
(स्त्रिया इदम् स्त्री + नञ् ।) स्त्री-स्वभावः यथा, भट्टिः ।“कर्णेजपैराहितराज्यलोभास्त्रेणेन नीता विकृतिं लघिम्ना ।रामप्रवासे व्यमृषन्न दोषंजनापवादं सनरेन्द्रमृत्युम्
”(यथा, भागवते ।“पित्रोरगात् स्त्रैणविमूढधीर्गृहान्प्रेम्णात्मनो योऽर्द्धमदात् सतां प्रियः
”स्त्रीणां समूहः स्त्री + नञ् स्त्रीसमूहः ।इति काशिका ८७
यथा, शान्तिशतके ।“तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाःक्वचित् पुण्येऽरण्येशिव शिव शिवेति प्रलपतः
)