| YouTube Channel

स्तन्भु (stanbhu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तम्भ्
मूलधातुः:
स्तन्भु
धात्वर्थः:
रोधन-स्तम्भनयोः
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्तभ्नोति, स्तभ्नाति
अनुबन्धादिविशेषः:
सौत्रः, उदित्
कृदन्तरूपमाला
Sanskrit
1 {@“स्तन्भु प्रतिघाते”@} 2 ‘स्तम्भुस्तुम्भु--’ 3 इति सूत्रे ‘स्तन्भेः’ 4, ‘स्तम्भु- सिवु--’ 5 इत्यत्र उपात्तः सौत्रोऽयं धातुः।
‘ष्टभि प्रतिघाते’ इति धातोः समानार्थकः।
केचित् सहपठितस्य ‘स्कुञ्’ धातोरर्थे आप्रवणे पठन्ति।
धातोरुदित्करणात् क्त्वादिषु प्रत्ययेषु प्रयोगोऽस्यास्तीति ज्ञायते।
एवम्, ‘अवाच्चालम्बनाविदूर्ययोः’ 6 इत्यादिषु कार्यविधानात्, ‘स्तम्भु- सिवु--’ 7 इत्यत्र चङि षत्वनिषेधाच्च समस्तान्यपि तिङन्तकृदन्तरूपा- ण्यस्माद् भवन्तीति ज्ञायते।
‘स्तभ्नाति स्तभ्नुयात् स्तुभ्नात्यपि स्तुभ्नोति सौत्रयोः।।
स्तम्भते प्रतिबन्धार्थे स्तम्भेऽर्थे स्तोभते शपि।’ अिति देवः 8।
भौवादिकष्टभिधातुरात्मनेपदी।
अयं तु ‘शेषात् कर्तरि--’ 9 इति शास्त्रात् परस्मैपदी।
10 स्तभ्नुवन्-ती, स्तभ्नन्-ती, अवष्टभ्य, 11 अवष्टब्धा सेना, अवष्टब्धा शरत्, 12 13 प्रतिस्तब्धः-निस्तब्धः, स्तम्भनम्- 14 उत्तम्भनम्, 15 विष्टम्भः इति विशेषरूपाणि।
सामान्यरूपाणि सर्वाण्यपि दम्भतिवत् 16 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१९३२)
02
=>
(५-स्वादिः, ईX-क्र्यादिः-सक। सेट्। पर।)
03
=>
(३-१-८२)
04
=>
(८-३-६७)
05
=>
(८-३-११४)
06
=>
(८-३-६८)
07
=>
(८-३-११४)
08
=>
(श्लो। १४२-३)
09
=>
(१-३-७८)
10
=>
[[२। शतरि, ‘स्तम्भुस्तुन्भु--’ (३-१-८२) इति श्नुप्रत्ययः श्ना च। यदा श्नः- तदानीम् ‘अनिदिताम्--’ (६-४-७४) इत्युपधानकारलोपे, उबङि स्तभ्नुवन् इति रूपम्। यदा श्ना, तदा उपधानकारलोपे, ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे स्तभ्नन् इति।]]
11
=>
[[३। ‘अवाच्चालम्बनाविदूर्ययोः’ (८-३-६८) इति अवपूर्वकादस्मात् षत्वम्। आल- म्बनम् = आश्रयणम्। अवष्टभ्य इत्यत्र आलम्बने षत्वम्। अविदूरस्य भाव आविदूर्यम् = सामीप्यमित्यर्थः। ‘अवष्टब्धा सेना’ इत्यस्य समीपमागता सेनेत्यर्थः।]]
12
=>
[पृष्ठम्१३८७+ २६]
13
=>
[[१। प्रतिनिपूर्वकात् स्तम्भेः निष्ठायाम्, धत्वजश्त्वयोः, ‘प्रतिस्तब्धनिस्तब्धौ च’ (८-३-११२) इति निपातनात् षत्वं न। इतरोपसर्गेषु इगन्तेषु तु ‘स्तन्भेः’ (८-३-६७) इति षत्वे अनुष्टब्धः इति षत्वमेव।]]
14
=>
[[२। उत्पूर्वकात् ल्युटि ‘उदः स्थास्तम्भोः पूर्वस्य’ (८-४-६१) इति स्तन्भुसकारस्य पूर्वसवर्णस्तकारः। उपसर्गतकार-पूर्वसवर्णप्राप्ततकार-धातुतकाररूपास्त्रयस्तकाराः। ‘झरो झरि--’ (८-४-६५) इति मध्यतकारस्य पाक्षिको लोपः।]]
15
=>
[[३। घञि ‘स्तन्भेः’ (८-३-६७) इति षत्वम्।]]
16
=>
(८१६)