| YouTube Channel

स्कुदि (skudi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्कुन्द्
मूलधातुः:
स्कुदि
धात्वर्थः:
आप्रवणे (उत्प्लवनम्, उद्धरणम्)
गणः:
भ्वादिः
कर्मकत्वं:
उत्प्लवने अकर्मकः, उद्धरणे सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्कुन्दते
धातुप्रदीपः
Sanskrit
स्कुदिँ स्कुदि आप्रवणे
- स्कुन्दते चुस्कुन्दे ।। 9 ।।
क्षीरतरङ्गिणी
Sanskrit
स्कुदिँ स्कुदि आप्रवणे
(अर्थविवरणम्) आप्रवणम् उत्प्लुत्य गमनम्, आस्कन्दनं वा उद्धरणमिति तु श्रीभोजः
इदितो नुम् धातोः (7158)- स्कुन्दते सलोपे कुन्दम् (द्र0उ0498) 9
धातुवृत्तिः
Sanskrit
स्कुदिँ स्कुदि (अर्थः) आप्रवणे
आप्रवणमुत्प्लवनमुत्प्लुतृय गमनं वेति तरङ्गिणी उद्धरणमिति भोजः अत्र सकर्मकः "इदितो नुम् धातोः'' इतृयन्तेदित्त्वान्नुमागम उपदेशिवद्वचनादुपदेशावस्थायाम् ( स्कुन्दते स्कुन्दसे स्कुन्दे चुस्कुन्दिषे चुस्कुन्दिवहे "शर्पूर्वाः'' इति खयः शेषः ( सूत्रम्) कुहोश्चुः (इति सूत्रम्) अभ्यासकवर्गहकारयोश्चवर्ग इत्यान्तर्यात् ककारस्य चकारः ( स्कुन्दिता स्कुन्दिष्यते स्कुन्दताम् अस्कुन्दत स्कुन्देत आशिषि स्कुन्दिषीष्ट अस्कुन्दिष्ट अस्कुन्दिष्यत ) भावादिषु यक्चिणौ ( स्कुन्द्यते स्कुन्द्यताम् अस्कुन्द्यत स्कुन्द्येत अस्कुन्दीत्यादि चुस्कुन्दिषते चुस्कुन्दिषाञ्चक्रे चुस्कुन्दिषिता चुस्कुन्दिषिष्यते चुस्कुन्दिषताम् अचुस्कुन्दिषत चुस्कुन्दिषेत आशिषि चस्कुन्दिषिषीष्ट अचुस्कुन्दिषिष्ट अचुस्कुन्दिषिष्यत चोस्कुन्द्यते चोस्कुन्दाञ्चक्रे चोस्कुन्दिता चोस्कुन्दिष्यते चोस्कुन्द्यताम् अचोस्कुन्द्यत चोस्कुन्द्येत चोस्कुन्दिषीष्ट अचोस्कुन्दिष्ट अचोस्कुन्दिष्यत ) भावादौ विशेष इति गाधतौ प्रतिपादितम् ( चोस्कुन्दीति चोस्कुन्ति चोस्कुन्दाञ्चकारेत्यादि ) लङि तिप्सिपोर्हल्ङ्यादिसंयोगान्तलोपयोः अचोस्कुन्) भावादौ यङन्तवदित्युक्तम् ( स्कुन्दयति स्कुन्दयतइतृयादि स्कुन्दनः युच स्कुन्दा) उपदेशावस्थायां नुमो विधानाद् धातोर्गुरुत्त्वाद् "गुरोश्च हलः'' इति स्त्रियामकारो लघूपधगुणाभावश्च 9
कृदन्तरूपमाला
Sanskrit
1 {@“स्कुदि आप्रवणे”@} 2 ‘आप्रवणम् उत्प्लवनमुत्प्लुत्य गमनं वा’ इति क्षीरतरङ्गिणी।
‘उद्धरणम् इति भोजः।’ इति धातुवृत्तौ।
सर्वाण्यपि रूपाणि भौवादिककुन्थतिवत् 3 ज्ञेयानि।
4 स्कुन्दनः, 5 स्कुन्दा, इति विशेषः।
6 कुन्दम्।
प्रासङ्गिक्यः
01
=>
(१९२६)
02
=>
(१-भ्वादिः-९। सक। सेट्। आत्म।)
03
=>
(२२०)
04
=>
[[१। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युच्प्रत्ययः।]]
05
=>
[[२। ‘धातोरिदित्त्वेन उपदेशावस्थायां नुमो विधानाद् धातोर्गुरुत्वात्, ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारो लघूपधगुणाभावश्च।]]
06
=>
[[३। पचाद्यचि सकारस्य बाहुलकात् लोपे रूपमिति क्षीरस्वामी।]]