| YouTube Channel

स्कुञ् (skuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्कु
मूलधातुः:
स्कुञ्
धात्वर्थः:
आप्रवणे
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
स्कुनोति-स्कुनुते
अनुबन्धादिविशेषः:
उकारान्तः
धातुप्रदीपः
Sanskrit
स्कुञ् आप्लवने
- स्कुनाति स्कुनीते स्कुनोति स्कुनुते चुस्काव चुस्कुवे स्कोता स्कूयात् स्कोषीष्ट अस्कौषीत् अस्कोष्ट चुस्कूषति चुस्कूषते चोस्कूयते स्कावयति स्कुत्वा स्कुतः 6
क्षीरतरङ्गिणी
Sanskrit
स्कुञ् आप्रवणे
- (अर्थविवरणम्) आप्रवणमुद्धरणम्
सौत्रोऽयम् इत्याचार्याः स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च (तु0 3182)-स्कुनाति स्कुनीते, स्कुनोति स्कुनुते स्कोता 6
धातुवृत्तिः
Sanskrit
स्कुञ् (अर्थः) आप्रवणे
सौत्रौऽयमित्यचार्या इति "स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च'' इत्यत्र वृत्तिकारः, एते सौत्रा धातवः, स्कुञ् आप्रवणे क्र्यादिरिति ( स्कुनाति स्कुनीतः स्कुनन्ति स्कुनासि स्कुनामि स्कुनीते स्कुनीषेचुस्कावचुस्कुवतुः चुस्कविथ चिस्कोथ चुस्कुव चिस्कुविव चुस्कुवे चुस्कुविषे चुस्कुविवहे) "शर्पूर्वाः'' इति खयः शेषः, ( स्कोता स्कोष्यति स्कोष्यते स्कुनातु स्कुनीताम् स्कुनीहि स्कुनानि स्कुनाव स्कुनीताम् स्कुनाताम् स्कुनीष्व स्कुन स्कुनावहै स्कुनोतु स्कुनुताम् स्कुन्वन्तु स्कुनु स्कुनवानि स्कुनुताम् स्कुन्वाताम् स्कुन्वताम् स्कुनीष्व स्कुनवै अस्कुनात् अस्कुनीताम् अस्कुनाः अस्कुनाम् अस्कुनीत अस्कुनाताम् अस्कुनीथाः अस्कुनि अस्कुनीवहि अस्कुनीत् अस्कुनुताम् अस्कुनोः अस्कुनवम् अस्कुनुत अस्कुन्वाताम् अस्कुनुथाः अस्कुन्वि स्कुनीयात् स्कुनीथाः स्कुनीयाम् स्कुनीत स्कुनीयाताम् स्कुनीथाः स्कुनीय स्कुनुयात् स्कुन्वीत स्कुनीथाः स्कुन्वीय ) आशिषि ( स्कूयात् स्कूयाताम् स्कोषीष्ट स्कोषीय अस्कौषीत् अस्कौष्टाम् अस्कोष्ट अस्कोषाताम् चुस्कूषति चुस्कूषते चोस्कूयाते चोस्कोति स्कावयति अचुस्कवत् स्कुत्वा स्कुतः स्कुतवान् ) 6
कृदन्तरूपमाला
Sanskrit
1 {@“स्कुञ् आप्रवणे”@} 2 ‘-- आवरणे’ इत्येके।
‘सौत्रोऽयमित्याचार्याः’ इति स्वामी।
आप्रवणम् = उद्धरणम्।
‘--आप्लवने’ इति मैत्रेयः।
‘--आच्छादने’ इति काशकृत्स्नः।
स्कावकः-विका, स्कावकः-विका, चुस्कूषकः-षिका, चोस्कूयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुङ्धातुवत् 3 ऊह्यानि।
‘स्तन्भु- स्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ 4 इति वचनात् स्कुन्वन्-स्कुन्वती- स्कुन्वानः इति श्नुविकरणविशिष्टोऽपि शतरि, शानचि प्रयोगोऽधिकोऽस्य।
क्रमप्राप्तः श्नाप्रत्ययोऽपि भवत्येव, स्कुनन्-ती-स्कुनानः इति।
कर्तरि क्तः- 5 स्कुतः।
प्रासङ्गिक्यः
01
=>
(१९२५)
02
=>
(९-क्र्यादिः-१४७८। सक। अनि। उभ।)
03
=>
(१९८)
04
=>
(३-१-८२)
05
=>
[[आ। ‘मोदस्कुतोऽथ कबरीं प्रयुनन् सरामः’ धा। का। ३-५।]]