सौभाग्यं (saubhAgyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishसौभाग्यं [सुभगायाः सुभगस्य वा भावः ष्यञ् द्विपदवृद्धिः] 1 Good fortune or luck, fortunateness (chiefly consisting in a man's and woman's securing the favour and firm devotion of each other)
प्रियेषु सौभाग्यफला हि चारुता Ku. 5. 1
सौभाग्यं ते सुभग विरहावस्थया व्यंजयंती Me. 29
(see Malli.'s remarks on सौभाग्य in both places)
युज्यत आत्मनः सौभाग्यं प्रच्छादयितुं V. 2.
2 Blessedness, auspiciousness.
3 Beauty, charm, grace
(यस्य) हिमं न सौभाग्यविलोपि जातं Ku. 1. 3
2. 53, 5. 49
R. 18. 19, U. 6. 27.
4 Grandeur, sublimity.
5 The auspicious state of wifehood (opp. widowhood).
6 Congratulation
good wishes.
7 Affection, favour.
8 Red-lead.
9 Borax.
Comp.
चिह्नं {1} any mark of good fortune or happiness. {2} any sign of the blessed state of wifehood (such as the saffron mark on the forehead).
तंतुः the marriage-string (put round the neck of the bride by the bridegroom at the time of marriage and worn by her till widowhood
also called मंगलसूत्र q. v.).
तृतीया the third day of the bright half of Bhādrapada.
देवता an auspicious or tutelary deity.
वायनं an auspicious offering of sweetmeats &c.
विलेपिन् a. marring or impairing beauty
Ku. 1. 3.
शब्दकल्पद्रुमः
Sanskritसौभाग्यं, (सुभगायै हितम् । सुभगा + ष्यञ्“हृद्भगेति ।” ७ । ३ । १९ । इत्युभयपदवृद्धिः ।)सिन्दूरम् । टङ्कणः । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायो यथा, --“सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
सुभगायाः मुभगस्य वा भावः । ष्यञ् ।) सुभ-गत्वम् । (यथा, कुमारे । ५ । १ ।“तथा समक्षं दहता मनोभवंपिनाकिना भग्नमनोरथा सती ।निनिन्द रूपं हृदयेन पार्व्वतीप्रियेषु सौभाग्यफला हि चारुता ॥
”)योगभेदः । इति मेदिनी ॥
स च विष्कम्भादि-सप्तविंशतियोगान्तर्गतचतुर्थयोगः । तत्र जात-फलम् ।“सौभाग्यजन्मा सुभगो मनुष्यःश्लाघ्यो जनानां धनवान् गुणज्ञः ।उदारचित्तो बलवान् विवेकीमहाभिमानी प्रियभाषणश्च ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
व्रतविशेषः । यथा, --अगस्त्य उवाच ।“अतः परं महाराज सौभाग्यकरणं व्रतम् ।शृणु येनाशु सौभाम्यं स्त्रीपुं सोरुपजायते ॥
फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षगा ।उपासितव्या नक्तेन शुचिना सत्यवादिना ॥
सश्रीकञ्च हरिं पूज्य रुद्रं वा चोमया सह ।या श्रीः सा गिरिजा प्रोक्ता यो हरिः सत्रिलोचनः ॥
एवं सर्व्वेषु शास्त्रे षु पुराणेषु च पठ्यते ।एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥
रुद्रो जनानां मर्त्यानां वाच्यं शास्त्रं न तद्भवेत् ।विष्णुं रुद्रकृतं ब्रूयात् श्रीगौरीति निगद्यते ॥
एतयोरन्तरं यश्च ब्रूयात् सोऽधम उच्यते ।तं नास्तिकं विजानीयात् सर्व्वधर्म्मबहिष्कृतम् ॥
एवं ज्ञात्वा सलक्ष्मीकं हरिं संपूज्य भक्तितः ।मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥
गम्भीरायेति पादौ तु सुभगायेति वै कटिम् ।उदरं देवदेवाय त्रिनेत्रायेति वै मुखम् ॥
वाचस्पतये च शिरो रुद्रायेति च सर्व्वतः ।एवमभ्यर्च्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ॥
हरं वा गौरीसंयुक्तं गन्धपुष्पादिभिः क्रमात् ।ततस्तस्याग्रतो होमं कारयेत् मधुसर्पिषा ॥
तिलैः सह महाराज सौभाग्यपतयेति च ।ततस्त्वक्षारविरसं निस्नेहं धरणीतले ॥
गोधूमान्नन्तु भुञ्जीत कृष्णेऽप्येवं विधिः स्मृतः ।आषाढादिद्वितीये तु पारणं तत्र भोजयेत् ॥
यवान्नन्तु ततः पश्चात् कार्त्तिकादिषुं पार्थिव ।श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः ॥
शुचिः ॥
ततो माघे सिते पक्षे तृतीयायां नराधिप ।सौवर्णां कारयेद्गौरीं रुद्रं चैकत्र बुद्धिमान् ॥
सलक्ष्मीकं हरिञ्चापि यथाशक्त्या प्रसन्नधीः ।ततस्तां ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥
अन्नेन हीने वेदानां पारगे साधुवर्त्तिनि ।सदाचारेऽथवा दद्यात् विष्णुभक्ते विशेषतः ॥
षड्भिः पात्रैरुपेतन्तु ब्राह्मणाय निवेदयेत् ।एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥
तृतीयं तीलतैलस्य चतुर्थं गुडसंयुतम् ।पञ्चमं लवणः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥
एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् ।सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥
”इति वाराहे सौभाग्यव्रतनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
