सोपप्लव (sopaplava)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishसोपप्लव [sōpaplava],
Afflicted with any great calamity.
Invaded or overrun by enemies.
Eclipsed (as the sun or moon)
ब्रह्मघोषैर्विरहितः पर्वतो$यं न शोभते । रजसा तमसा चैव सोमः सोपप्लवो यथा ॥ * 12.328.13.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiसोपप्लव
वि* - सह उपप्लवेन - ब* स*
संकटग्रस्त
सोपप्लव
वि* - सह उपप्लवेन - ब* स*
शत्रुओं द्वारा आक्रान्त
सोपप्लव
वि* - सह उपप्लवेन - ब* स*
ग्रहणग्रस्त
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritसोपप्लव सह उपप्लवेन सादेशः । समाक्रान्तभूच्छायेनराहुणा योगरूपोप्लवसहिते १ चन्द्रे तथाभूतचन्द्रच्छाया-योगयुक्ते २ सूर्य्य च अमरः । ३ उपद्रवयुते ।चन्द्रार्कयोर्ग्रासकारणमुंपरागशब्दे प्रायेणाक्तं देवीपुरा-णोक्तमधिकमत्रोच्यते ।“ब्रह्मोवाच “यदयं वदते लोको वासिशत्वान्महामते! ।तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् । यदि सत्यमयंग्रस्तस्तेजाराशिर्दिवाकरः । तत्कथं नोदरस्थेन राहुणाभस्मसात् कृतः । अथ वा राहुणाक्रम्य निजवक्त्रं प्रवे-शितः । तत्कथं दशनैस्तीक्ष्णः शतथा न विखण्डितः ।विमुक्तश्च पुनर्दृष्टस्तथैवाखण्डमण्डलः । न चास्याप-हृतं तेजो न स्थानादपसारितः । यदि वा ह्येष निष्पीतःकथं दीप्ततरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्रंगमिष्यति । भक्ष्यार्थं सर्वदेवानां सोमः सृष्टः स्वयम्भुवा ।तत्रस्थममृतञ्चापि सम्भूत सूर्य्यतेजसा । पिबन्त्यम्बुमयंदेवाः पितरश्च स्वधाऽमृतम् । त्रयञ्च त्रिशतञ्चैव त्रय-स्त्रिंशत्तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्तिये । राहोरप्यमृतं भागः पुरा सृष्टं स्नयम्भुवा । तस्मा-त्तद्राहुरागत्य पातुमिच्छति पर्वसु । उद्धृत्य पार्थिवींछायामभ्राकारां तमोमयः । पातुमिच्छन् ततश्चेन्दु-माच्छादयति छायया । शुक्ले च चन्द्रमभ्येति कृष्णेएर्वणि भास्करम् । सूर्य्यमण्डलसस्थस्तु चन्द्रमेवजिघांसति । तस्मात् पिवति तं राहुस्तनुमस्या विना-शयन् । अविहिसन् यथा पद्मं पिबति भ्रमरो मधु ।चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते । चन्द्रकान्तो मणिर्यद्वत्तुहिनं क्षरते क्षणात् । क्षरन्नपि न हीयेत तेजसानैव सुच्यते । यथा सूर्य्यमणिः सूर्य्यादुत्पाद्य पावकंशुभम् । न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते । एवंचन्द्रश्च सूर्य्यश्च छादितावपि राहुणा । स्वतेजसा नमुच्येते नाङ्गहीनौ बभूवतुः । पर्वस्वथ च चन्द्रस्यमाणिक्यकनकाकृतिः । सोमा दैवतसंयोगात् छायायोगाच्च पार्थिवात् । राहाश्च वरलब्ध्या वै प्रक्षरेदमृतंशशी । स्वदोहकाले सम्पाप्ते वत्सं दृष्ट्वा च गौर्यथा ।स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेवसूर्य्यो देवानां सोमो मातेव लक्ष्यते । यथा मातुःस्तनंपीत्वा जीवन्ति सर्वजन्तवः । पीत्वाऽमृतं तथा सोमात्तृप्यन्ते सर्वदेवताः । सम्भृतं सर्वयागेषु तथायं क्षरतेशशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः । तस्मिन्काले समभ्येति राहुरप्यवकर्षति । सर्वमर्द्धं त्रिभागञ्चपादं पादार्द्धमेव च । आक्रम्य पार्थिवीं छायां यावन्तचन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तुशेषकाः । तृप्तिं विधाय देवानां राहोः प्रर्वनतस्य च ।चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते । तिथिभा-नाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । पर्वच्छायास्थितःकालस्तावानेव प्रकीर्त्तितः । अतो राहुभुजः सोमःसोमवृद्धिर्दिवाकरात् । पर्वकाले स्थितिस्त्वेवं विप-रीता पुनः पुमः । अतश्छादयते राहुरभ्रवच्छशिभास्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य निष्ठति ।उद्धृत्य पाथिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्ययदवष्टब्धं राहुणा भास्करस्य च । तन्नावखण्डित तस्यकेवलं श्यामलीकृतम् । कर्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते । एकदेशोऽथ सर्वं वा राहुणा चन्द्रमास्तथा ।प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् । राहुत्यक्तंभवेत्तद्वत् निर्मलं चन्द्रमण्डलम् । राहुणा च्छादितौवापि दृष्ट्वा चन्द्रदिवाकरौ । विप्राः शान्तिपरा भूत्वापुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्रगृह्यते । अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः ।जगत्सम्मोहनञ्चैतत् ग्रहणं चन्द्रसूर्य्ययोः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
