| YouTube Channel

सोपधं (sopadhaM)

 
शब्दकल्पद्रुमः
Sanskrit
सोपधं, त्रि, (उपधया सह वर्त्तमानमिति ।)सच्छद्मदानादि यथा हारीतः अथासद्द्रव्य-दानमस्वर्ग्यं यच्च दत्त्वा परितप्यते तह्यदान-मफलं यच्चोपकारिणे ददाति तन्मात्रं परि-क्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पंयच्चापात्राय ददाति अनिष्टदानं स्रवति यच्चदत्त्वा प्रकीर्त्ताते स्मयदानं यच्चाश्रद्धया ददातिक्रोधाद्राक्षसं यच्चाक्रुश्य ददाति दत्त्वा वाक्रो-शति असत्कृतं पैशाचं यच्चावज्ञातं ददातिदत्त्वा वावजानीते मुमूर्षोस्तामसं यच्चाप्रकृतोददाति एते दानोपसर्गा यैरुपसृष्टं दान-मप्रसिद्धमस्वर्ग्य मयशस्यमध्रुवफलं भवत्यल्पफलंवेति तर्हि त्यागानन्तरकाले हस्तार्पणसम्भवे-ऽपि अदानमसमर्पणम् उपकारिणे व्यसनो-पकारिणे तन्मात्रं यथोक्तोपकरणरहितम् ।सोपधं सच्छद्म अन्यश्रावितं लोकसम्भाव-नार्थं प्रकाशितम् अनिष्टदानं शत्रवे दानम् ।स्मयो मानभङ्गः अप्रकृतो भयादिमान् इतिशुद्धितत्त्वम्