| YouTube Channel

सूर्य्योढः (sUryyoDhaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्योढः,
पुं,
(सूर्य्य ऊढोऽस्तगतो यत्र ।) सूर्य्या-स्तकालप्राप्तोऽतिथिः यथा, --“सूर्य्योढस्तु सम्प्राप्तो यः सूर्य्येऽस्तं गते-ऽतिथिः
”इति हेमचन्द्रः
यथा, विष्णुपुराणम् ।“दिवातिथौ तु विमुखे गते यत् पातकं भवेत्तदेवाष्टगुणं विद्यात् सूर्य्योढे विमुखे गते
”इत्याह्निकाचारतत्त्वम्