| YouTube Channel

सूतः (sUtaH)

 
Apte Hindi
Hindi
सूतः
पुं*
- -
"रथवान, सारथि"
सूतः
पुं*
- -
ब्राह्मणवर्ण की स्त्री में क्षत्रिय द्वारा उत्पन्न पुत्र
सूतः
पुं*
- -
बंदीजन
सूतः
पुं*
- -
रथकार
सूतः
पुं*
- -
सूर्य
सूतः
पुं*
- -
व्यास के एक शिष्य का नाम
सूतः
पुं*
- -
सञ्जय
Wordnet
Sanskrit
Synonyms:
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः
noun
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
"पारदः निखिलयोगवाहकः अस्ति।"
Synonyms:
सारथिः, सूतः, क्षत्ता, नियामक, निषङ्गथि, प्रवेता, रथवाहक, रथसारथि, संग्रहीता, संग्राहक, सचक्री, सादि, सव्येष्ठा, स्थपति
noun
यः रथं चालयति।
"महाभारते युद्धे श्रीकृष्णः अर्जुनस्य सारथिः आसीत्।"
वैजयन्तीकोषः
Sanskrit
Word: सूतः
Root: सूत
Gender: पुं
Number: all
अर्थः क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः
Meaning(s):
Son of a Kṣatriya and a Brāhmaṇi
Shloka(s):
3|5|12|1 सूते विप्रा नृपाद्वैश्या माहिष्यं यवनश्च सः। (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|12|1 सूतः (सूत) (पुं) Son of a Kṣatriya and a Brāhmaṇi क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः
Related word(s):
isa_k क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः
Tamil
Tamil
ஸூத: : தேரோட்டி, தேர் தச்சன், சூரியன்.
शब्दकल्पद्रुमः
Sanskrit
सूतः,
पुं,
(सूप्रेरणे ऐश्वर्य्ये प्रसवे + क्तः ।)सारथिः (यथा, रघुः ४२ ।“स पूर्व्वतः पर्व्वतपक्षशातनंददर्श देवं नरदेवसम्भवः ।पुनः पुनः सूतनिषिद्धचापलंहरन्तमश्वं रथरश्मिसंयतम्
”)त्वष्टा इत्यमरः ६१
क्षत्त्रियात्ब्राह्मणीसुतः (यथा, मनुः १० ११ ।“क्षत्त्रियात् विप्रकन्यायां सूतो भवति जातितःअश्वसारथ्यमेवैतेषां जीविका यथा, तत्रैव ।१० ४७ ।“सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम्
वन्दी (यथा, रघुः ६५ ।“सूतात्मजाः सवयसः प्रथितप्रबोधंप्राबोधयन्नुषसि वाग्भिरुदारवाचः
”)पारदः इति मेदिनी
(यथा, वैद्यकरसेन्द्र-सारसंग्रहे जारणमारणाधिकारे ।“हतो हन्ति जराव्याधिं मूर्च्छितोव्याधिघातकःबद्धः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः
सूर्य्यः इत्यनेकार्थकोषः
पूराणवक्ता यथा, “सवान्ते सूतमनघं नैमिषीया महर्षयः ।पुराणसंहितां पुण्यां पप्रच्छ लोमहर्षणम्
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।इतिहासपुराणार्थं व्यासः सम्यगुपासितः
अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् ।द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरात्वं हि स्वायम्भुवे यज्ञे सत्यादौ वितते सति ।संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तम
”इति कौर्म्मे --
*
अपि ।“नियोगाद्ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसः ।वेणपुत्त्रस्य वितते पुरा पैतामहे मखे
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।प्रवक्ता सर्व्वशास्त्राणां धर्म्मज्ञो गुणवत्सलः
तं मां वित्त मुनिश्रेष्ठाः पूर्व्वोद्भूतं सनातनम् ।एतस्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम्
श्रावयामास याः प्रीत्या पुराणपुरुषो हरिः ।मदन्वये ये सूताः संभूता वेदवर्ज्जिताः ।तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया
”इति कौर्म्मे १२ अध्यायः
*
किञ्च ।“ब्रह्मणः पौष्करे यज्ञे सूत्याहे वितते सति ।पृषदाज्यात् समुत्पन्नः सूतः पीराणिको द्विजः
वक्ता वेदादिशास्त्राणां त्रिकालामलतत्त्ववित् ।तीर्थयात्राप्रसङ्गेन नैमिषारण्यमागमत्
”इति वह्निपुराणे अध्यायः
*
अन्यच्च ।“हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ
४४
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते
५०तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ
५१स्तूयतामेव नृपतिः पृथुर्वैण्यः प्रतापवान्
५२इति विष्णुपुराणे १३ अध्यायः
*
यून एव पृथोर्जातत्वात् जातमात्रस्य यज्ञ इत्यु-च्यते पृथुरेवाभवत् यस्मात्ततः पृथुरजायतइति मात्स्योक्तेः पैतामहे पितामहदैवत्येपृथोरेव यज्ञे तु पितामहकर्त्तृके यथाहवायुः वैण्यस्य हि पृथोर्यज्ञे वर्त्तमाने महा-त्मनः सूतः सूत्यां समुत्पन्न इति सूत्यामितिसूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्या-मिति सूतिः सीमाभिषवभूमिस्तस्याम् सौत्ये-ऽहनि तस्मिन्नेव दिने इति तट्टीका
*
किञ्च ।“एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।सूतः सूत्यां समुत्पन्नः सौत्येऽहनि पुराणवित्
तेषां यज्ञे पुनस्त्वेवमुत्पन्नौ सूतमागधौ ।पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
ते ऊचुरृषयः सर्व्वे स्तूयतामेष पार्थिवः ।तैर्नियुक्तौ सुकर्म्माणि पृथोर्यानि महात्मनः
तुष्टुवुस्तानि सर्व्वाणि आशीर्व्वादांस्ततः परान्तयोः स्तवान्ते सुपीतः पृथुः प्रादात् जनेज्वरः
अनूपंदेशं सूताय मागधान् मागधाय ।तं दृष्ट्वा परमपीताः प्रजाः प्राहुर्महर्षयः
वृत्तीनामेष वो दाता भविष्यति नरेश्वरः
”इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः
सूतः,
पुं,
क्ली,
(सू + क्तः ।) पारदः इत्यमरः
(यथा, --“रसोनखरसैः सूतो नागवल्लीदलोत्थितैः ।त्रिफलायास्तथा क्वाथै रसो मर्द्द्यः प्रयत्नतः
ततस्तेभ्यः पृथक्कृत्वा सूतं प्रक्षाल्य काञ्जिकैः ।सर्व्वदोषविनिर्म्मुक्तं योजयेद्रसकर्म्मसु
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-धिकारे
)
सूतः, त्रि, (सू + क्तः ।) प्रसूतः प्रेरितः इतिमेदिनी