| YouTube Channel

सूक्तं (sUktaM)

 
शब्दकल्पद्रुमः
Sanskrit
सूक्तं, त्रि, (सुष्ठु उक्तम् ।) शोभनोक्तिविशिष्टम् ।वेदोक्तस्तोत्रमन्त्रादि यथा ऋग्वेदस्य अग्नि-मीले, इत्यादि अग्निसूक्तम्
*
सहस्रशीर्षेत्यादि पुरुषसूक्तम् १० ९०
*
अहं रुद्रेभिरित्यादि देवीसूक्तम् १० १२५
*हिरण्यवर्णामित्यादि श्रीसूक्तम्
*
रात्री व्यख्य-दायतीत्यादि रात्रिसूक्तम् १० १२७
*
आतून इन्द्र क्षुमन्तमित्यादि गणेशसूक्तम् ।७०
*
इयमददाद्रभसम् इत्यादि सरस्वती-सूक्तम् ६१
*
अतो देवा अवन्तु नइत्यादि विष्णुसूक्तम् २२ १६
*
मेदिनीदेवीत्यादि भूसूक्तम्
*
आदित्यानामित्यादि-आदित्यसूक्तम्
*
त्वं सोम इत्यादिसोमसूक्तम् ९१
इत्यादि ऋग्वेदस्य सूक्त-सहस्रम् यथा सहस्रमेकं सूक्तानामित्यादिचरणव्यूहः
यजुर्व्वेदस्य विशमैशमित्यादिकुमारसूक्तम् सोमाय पितृमते इत्यादि पितृ-सूक्तम् पवमान स्वर्ज्जन इत्यादि पावमानी-सूक्तम् इत्यादि वेदप्रसिद्धम्
तथा, --“जप्यानि सूक्तानि तथैव चैषा-मनुक्रमेणापि यथास्वरूपम् ।”इति मलमासतत्त्वम्
अपि ।“सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः ।स वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्
”इति माकण्डेयपुराणे देवीमाहात्म्यम्