| YouTube Channel

सुभिक्षः (subhikSaH)

 
शब्दकल्पद्रुमः
Sanskrit
सुभिक्षः, त्रि, (सुखेन लभ्या भिक्षा यत्र ।) सुलभ-भैक्षद्रव्यम् सुलभभैक्षयुक्तकालादिश्च यथा, --“द्वाविमौ पुरुषौ लोके सूर्य्यमण्डलमेदिनौ ।दातान्नस्य तु दुर्भिक्षे सुभिक्षे वस्त्रहेमदः
”इति वह्निपुराणे आह्निकतपोनामाध्यायः
किञ्च ।“श्वेते क्षेमसुभिक्षं ब्राह्मणपीडांश्च निर्दिशे-द्राहौ
”इति तिथ्यादितत्त्वम्