| YouTube Channel

सुनन्दः (sunandaH)

 
शब्दकल्पद्रुमः
Sanskrit
सुनन्दः,
पुं,
(सुष्ठु नन्दयतीति नन्द + अच् ।)श्रीकृष्णस्य पार्षदविशेषः यथा, श्रीभागवते१० ८९ ५६ ।“सुनन्दनन्दप्रमुखैः स्वपार्षदैःचक्रादिभिर्मूर्त्तिधरैर्निजायुधैः ।पुष्ट्या श्रिया कीर्त्त्यजयाखिलर्द्धिभि-र्निषेव्यमाणं परमेष्ठिनां पतिम्
”द्वादशविध-राजगृहान्तर्गतगृहविशेषः यथा, “यद्यत्रवोच्यते मानं तस्य तेनैव कल्पना ।राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निःक्षिपेत्
आयामेन सुनन्दः स्याद्राजहस्तैश्च पञ्चभिः ।परिणाहे चतुर्भिश्च राजहस्तैः प्रतिष्ठितः
अस्याधिदेवता भौमो रक्षतीदं वसुन्धरा ।द्वाराणि विंशतिश्चास्य रक्तचित्रावृतानि
रक्तपट्टावृतो गेहः सकलार्थप्रसाधकः ।अत्र स्थित्वा महीपालः सचिरं पाति मेदि-नीम्
”दीर्घः ५१ प्रस्थः ४० इति सुनन्दः
सुन्दरःइति पाठः इति युक्तिकल्पतरुः