| YouTube Channel

सुदर्शनः (sudarzanaH)

 
Apte Hindi
Hindi
सुदर्शनः
पुं*
सु-दर्शनः -
विष्णु का चक्र
सुदर्शनः
पुं*
सु-दर्शनः -
शिव का नाम
सुदर्शनः
पुं*
सु-दर्शनः -
गिद्ध
Wordnet
Sanskrit
Synonyms:
जम्बूद्वीपः, सुदर्शनः
noun
पुराणानुसारेण सप्तसु द्वीपेषु एकः।
"सप्तसु द्वीपेषु मध्यभागे जम्बुद्वीपः स्थितः अस्ति।"
Synonyms:
सुदर्शनः
noun
रामस्य पूर्वजः।
"सुदर्शनः शङ्खणस्य पुत्रः आसीत्।"
Synonyms:
सुदर्शनः
noun
त्रेतायुगीनः ऋषिः यः गङ्गातटे वसति स्म।
"महाभारतस्य युद्धस्य अनन्तरं युधिष्ठिरेण कृतेन यज्ञस्य सफलतायाः घण्टानादः सुदर्शनः एव चकार।"
Synonyms:
जम्बूवृक्षः, कृष्णफला, दीर्घपत्रा, मध्यमा, स्वर्णमाता, शुकप्रिया, राजफला, नीलफला, सुदर्शनः
noun
वृक्षविशेषः यस्य फलानि कृष्णवर्णीयानि तथा यः चिरहरितः अस्ति।
"तस्य उद्याने पञ्च जम्बूवृक्षाः सन्ति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
सुदर्शनः
noun
एकः टीकाग्रन्थः
"सुदर्शनः इति तन्त्रराजस्य टीकाग्रन्थः अस्ति"
Synonyms:
सुदर्शनः
noun
एकः पद्मसरः
"सुदर्शनस्य उल्लेखः रामायणे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः क्षुपः
"सुदर्शनस्य उल्लेखः कोशे वर्तते"
Synonyms:
जम्बूपर्वतः, सुदर्शनः
noun
एकः पर्वतः
"जम्बूपर्वतस्य उल्लेखः महाभारते वर्तते"
Synonyms:
सुदर्शनः
noun
एकः सूरिः
"सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः भट्ट
"सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः कविः
"सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः आचार्यः
"सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः कैरवः
"सुदर्शनस्य उल्लेखः कथासरित्सागरे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः प्रतिकस्य जामाता आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः भरतस्य पुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः अजमीढस्यपुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः दधीचिपुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः ध्रुवसिद्धेः पुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः अर्थसिद्धेः पुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः शङ्खणस्य पुत्रः आसीत्"
Synonyms:
सुदर्शनः
noun
एकः राजा
"सुदर्शनः पाटलीपुत्रस्य राजा आसीत्"
Synonyms:
सुदर्शनः
noun
एकः राजा
"सुदर्शनः उज्जयिन्याः राजा आसीत्"
Synonyms:
सुदर्शनः
noun
एकः राजा
"सुदर्शनः मालवस्य राजा आसीत्"
Synonyms:
सुदर्शनः
noun
एकः पुरुषः
"सुदर्शनः इति अष्टादशस्य अर्हतः पिता अस्ति"
Synonyms:
सुदर्शनः
noun
एकं बलम्
"जैनसाहित्ये वर्तमानेषु नवबलेषु एकः सुदर्शनः अस्ति"
Synonyms:
सुदर्शनः
noun
एकः चक्रवर्ती
"सुदर्शनस्य उल्लेखः कोशे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः राक्षसः
"सुदर्शनः इति राक्षसः सरीसृपः अस्ति"
Synonyms:
सुदर्शनः
noun
एकः ऋषिः
"सुदर्शनस्य उल्लेखः बौद्धसाहित्ये वर्तते"
Synonyms:
सुदर्शनः
noun
एकः मुनिः
"सुदर्शनस्य उल्लेखः कोशे वर्तते"
Synonyms:
सुदर्शनः
noun
सुदर्शनायाः तथा अग्नेः पुत्रः
"सुदर्शनस्य उल्लेखः कोशे वर्तते"
Synonyms:
सुदर्शनः
noun
एकः विद्याधरः
"सुदर्शनस्य उल्लेखः भागवतपुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
सुदर्शनः,
पुं,
क्ली,
(शोभनं दर्शनमस्येति ।) विष्णु-चक्रम् इत्यमरः २९ तस्योत्-पत्तिर्यथा, --“तस्मात् प्रसादं कुरु मे यद्यनुग्रहभागहम् ।अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकर
रूपं तव करिष्यामि लोकानन्दकरं प्रभो ।तथेत्युक्तः रविणा भ्रमौ कृत्वा दिवाकरम्
पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ।त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधि-कम् ।दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम्
”इति मात्स्ये ११ २७-३०
*
अपि पाद्मोत्तरखण्डे १४५ अध्याये ।ईश्वर उवाच ।“नायमेभिर्म्महातेजाः शस्त्रास्त्रैर्वध्यते मया ।देवाश्च स्वस्वतेजांसि शस्त्रार्थं दीयतां मम
नारद उवाच ।अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तथा ।तान्यैक्यं वै गतानीशो दृष्ट्वा स्वञ्चामुचन्महः
तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम् ।चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।तेजःशेषेण तथा वज्रञ्च कृतवान् हरः
”तच्च शिवेन विष्णवे दत्तम् यथा, --“ततः प्रीतः प्रभु प्रादात् विष्णवे प्रवरं वरम् ।प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्
तद्दत्त्वा देवदेवाय सर्व्वभूतभयप्रदम् ।कालचक्रनिभं चक्रं शङ्करो विष्णुमव्रवीत्
वरायुधोऽयं देवेश सर्व्वायुधनिवर्हणः ।सुदर्शनो द्वादशारो यो मनःसदृशो जवी
आरात् स्थिता अमी चात्र देवा मासाश्चराशयः ।शिष्टानां रक्षणार्थाय संस्थिता ऋतवस्तु षट्
अग्निः सोमस्तथा मित्रो वरुणश्च प्रजापतिः ।इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव
हनूमांश्चाथ बलवान् देवो धन्वन्तरिस्तथा ।तपांस्येव तापसश्च द्वादशैते प्रतिष्ठिताः
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रति-ष्ठिताः
त्वमेवमादाय विभो वरायुधंशत्रुं सुराणां जहि मा विशङ्किथाः ।अमोघ एषोऽमरराजपूजितोधृतो मया देहगतस्तपोबलात्
”इति वामने ७९ अध्यायः
*
वैष्णवाङ्गे तच्चिह्नधारणविधिः यथा ब्रह्माण्डे ।“कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकांतनुम् ।चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः
”नारदीयपञ्चरात्रे ।“द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम् ।हरेः सुदर्शनं तप्तं धारयेत्तद्विचक्षणः
”इति श्रीहरिभक्तिविलासे १५ विलासः
अन्यत् मुदाशब्दे द्रष्टव्यम्
*
श्रीमन्दिरोपरिदेयतच्चक्रप्रमाणं यथा, --विम्बार्द्धमानं चक्रन्तु त्रिभागेणाथ कारयेत् ।द्वात्रिंशदङ्गुलं ज्येष्ठं कनिष्ठं त्वष्टहानितः
प्रतिमातूर्य्यभागेन कारयेद्वा सुदर्शनम् !लोहजं शैलजं वापि कारयेच्चिह्नपूर्व्वकम्
अष्टारं द्वादशारं वा मध्ये मूर्त्तिसमन्वितम् ।नारसिंहेन रौद्रेण विश्वरूपेण वा पुनः
”इत्यादि
*
“अधिवास्य विधानेन चक्रं दण्डं ध्वजं तथा ।देववत् सकलं कृत्वा मण्डपस्नपनादिकम्
नेत्रोन्मीलनकं कृत्वा पूर्व्वोक्तं सर्व्वमाचरेत् ।अधिवासयेत विधिना शय्यायां प्राप्य देशिकः
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्वुधः ।तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत्
मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् ।आरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तमाः
नाभ्यक्षप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।नारसिंहं विश्वरूपमक्षमध्ये निवेशयेत्
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् ।निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम्
तच्छक्तिं व्यापिनीं ध्वायेत् ध्वजरूपाञ्चला-ननाम् ।ततो मण्डपमध्येतु स्नाप्य पुज्य यथाविधि
पूर्व्वोक्ते विधानेन होमं कुण्डेषु कारयेत्
ततः प्रभातसमये मूर्त्तिपैः सह देशिकः ।मूर्त्तिपः आचार्य्यः ।कलसे स्वर्णशकलं न्यस्त्वा रत्नानि पञ्च ।स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः
पारदेन तु संप्लाव्य नेत्रपट्टेन स्थापयेत् ।ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम्
दुर्निरोक्ष्यं सुरैर्द्दैत्यैर्भ्रमद्वह्निस्फुलिङ्गकम् ।तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्द्दलम्
स्फुरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेशरम् ।दीप्तार्कनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम्
तप्तस्य तपनीयस्य सदृज्ञं परुषाननम् ।सर्व्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः
सर्व्ववर्णान्तबीजेन चतुर्द्द शयुतेन ।बिन्दुनालङ्कृतेनादौ प्रणवेन प्लुतेन ।अन्ते प्रणतियुक्तेन स्थापयेद्दूष्टनाशनम्
”इति श्रीहरिभक्तिविलासे १९ विलासः
*
चक्रमन्त्रो यथा ओँ नमो भगवते सुदर्शनायनिर्णाशितसकलरिपुध्वजाय भगवन्नारायण-कराम्भोरुहस्पर्शदुर्ल्ललिताय ।“एह्येहि त्वं सहस्रार चक्रराज सुदर्शन ।यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः
”इति तत्रैव १५ विलासः
सुमेरुः जम्बूवृक्षः इति मेदिनी
(यथा, मात्स्ये ११३ ७४ -- ७५ ।“सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः ।नित्यपुष्पफलोपेतः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः ।योजनानां सहस्रञ्च शतधा महान् पुनः
उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति
”)वृत्तार्हत्पिता जिनानां बलदेवः इति हेम-चन्द्रः
(मत्स्यः तत्पर्य्यायो यथा, --“मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजःशकुली पृथुरोमा सुदर्शन इत्यपि ।रोहिताद्यास्तु ये जीवास्तेमत्स्याःपरिकीर्त्तिताः
”इति भावप्रकाशस्य पूर्वखण्डे द्वितीये भागे
)
कृदन्तरूपमाला
Sanskrit
1 {@“दृशिर् प्रेक्षणे”@} 2 दर्शकः-र्शिका, दर्शकः-र्शिका, 3 दिदृक्षकः-क्षिका, 4 दरीदृशकः-शिका
5 द्रष्टा-द्रष्ट्री, दर्शयिता-त्री, दिदृक्षिता-त्री, दरीदृशिता-त्री
6 पश्यन्-न्ती, 7 8 पश्यन् 9, दर्शयन्-न्ती, 10 11 सन्दिदृक्षन्-न्ती
द्रक्ष्यन्-न्ती-ती, दर्शयिष्यन्-न्ती-ती, 12 सन्दिदृक्षिष्यन्-न्ती-ती
-- 13 संपश्यमानः, दर्शयमानः, 14 दिदृक्षमाणः, दरीदृश्यमानः, सन्द्रक्ष्यमाणः, दर्शयिष्यमाणः, दिदृक्षिष्यमाणः, दरीदृशिष्यमाणः
15 तादृक्-तादृशौ-तादृशः
-- -- -- दृष्टम्-दृष्टः-दृष्टवान्, दर्शितः, दिदृक्षितः, दरीदृशितः-तवान्
16 17 पश्यः, उत्पश्यः, 18 तादृशः, यादृशः, 19 सदृक्-सदृशः, अन्यादृक्- अन्यादृशः, ईदृक्-कीदृक्-ईदृशः-कीदृशः- 20 ईदृक्षः-कीदृक्षः, तादृक्षः, यादृक्षः, सदृक्षः, अन्यादृक्षः, सदृशी, तादृशी, 21 पापदृश्वा 22 -पारदृश्वरी, विवेकदृश्वा, 23 यमास्यदृश्वरी, 24 असूर्यम्पश्याः 25 26, 27 उग्रम्पश्यः 28, 29 कश्यपः, 30 31 सुदर्शनः, 32 ददृशिवान्-ददृश्वान् 33, मार्गदर्शी, दर्शः, 34 दिदृक्षुः, 35 सन्दिदर्शयिषुः, दरीदर्शः
द्रष्टव्यम्, दर्शयितव्यम्, दिदृक्षितव्यम्, दरीदृशितव्यम्
दर्शनीयम्, दर्शनीयम्, दिदृक्षणीयम्, दरीदृशनीयम्
दृश्यम्, दर्श्यम्, दिदृक्ष्यम्, दरीदृश्यम्
36 ईषद्दर्शनः-दुर्दर्शनः-सुदर्शनः
-- -- दृश्यमानः, दर्श्यमानः, दिदृक्ष्यमाणः, दरीदृश्यमानः
दर्शः, 37 आदर्शः, 38, 39 दर्शः दर्शः, दिदृक्षः, दरीदृशः
द्रष्टुम्, 40 द्रष्टुम्, 41 दर्शयितुम्, दिदृक्षितुम्, दरीदृशितुम्
42 दृक्, दृष्टिः, 43 दृष्टिः, दर्शना, दिदृक्षा, दरीदृशा
दर्शनम्, 44 पश्यः, दर्शनम्, दिदृक्षणम्, दरीदृशनम्
45 दृष्ट्वा, दर्शयित्वा, दिदृक्षित्वा, दरीदृशित्वा
सन्दृश्य, प्रदर्श्य, प्रदिदृक्ष्य, प्रदरीदृश्य
46 कन्यादर्शं 47, 48 मांसशोणितसन्दर्शं, विप्रदर्शम्
दर्शम् २, दृष्ट्वा २, दर्शम् २, दर्शयित्वा २, दिदृक्षम् २, दिदृक्षित्वा २, दरीदृशम्
दरीदृशित्वा
49 इति कुप्रत्यये, यथाक्रमं पश्वादेशे रूपम्।
पशुः = मन्त्रबाह्यो जनः।]] पशुः।
प्रासङ्गिक्यः
01
=>
(८६५)
02
=>
(१-भ्वादिः-९८८। सक। अनि। पर।)
03
=>
[[१। सन्नन्तान्ण्वुलि, सनो झलादित्वेन, ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वेन, अमभावे, द्वित्वादिषु कृतेषु, ‘त्रश्च--’ (८-२-३६) इत्यादिना धातुशकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[२। यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासे रीगागमः।]]
05
=>
[[३। तृचि, ‘सृजिदृशोर्झल्यमकिति’ (६-१-५८) इति अमागमे, यणादेशे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[४। शतरि, शपि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ- पश्यर्च्छ--’ (७-३-७८) इति पश्यादेशे, पररूपे, रूपमेवम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
07
=>
[हरिं]
08
=>
[[५। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति हेतौ शता। हरिदर्शनं मोक्षहेतुरित्यर्थः।]]
09
=>
[विमुच्यते]
10
=>
[ग्रामं]
11
=>
[[६। ‘दृशेश्च--’ (वा। १-३-२९) इत्यत्र ‘अकर्मकात्’ इत्युक्त्या, सकर्मकादस्मात् सम्पूर्वकात् तु यथाप्राप्तं परस्मैपदमेव भवतीति, तदन्तादस्मात् सनि परस्मै- पदमेव, नात्मनेपदमिति ध्येयम्।]]
12
=>
[ग्रामं]
13
=>
[[७। सम्पूर्वकादकर्मकादस्मात्, ‘दृशेश्चेति वक्तव्यम्’ (वा। १-३-२९) इति शानच्।]]
14
=>
[[८। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तादात्मनेपदमेव।]]
15
=>
[[९। ‘त्यदादिषु दृशोऽनालोचने कञ् च’ (३-२-६०) इत्यनेन क्विन्-कञ् इत्युभौ प्रत्ययौ भवतः। तत्र क्विनि, त्यदादीनां उपपदभूतानां ‘आ सर्वनाम्नः’ (६-३-९१) इत्यनेन दृग्दृशवतुषु परेषु आत्वे, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे रूपम्। एवम्, यादृक्, तादृक्, ईदृक् इत्यादयोऽपि ज्ञेयाः।]]
16
=>
[पृष्ठम्०७६५+ २९]
17
=>
[[१। कर्तरि, ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शपि, ‘पाघ्राध्मा- स्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना पश्यादेशे, पररूपे पश्यः इति भवतिः। ‘अनुपसर्गात्’ इति, अत्र सम्बध्यते, इति केचित्। तेन पश्यः इत्येव सिद्ध्यति। तूत्पश्य इति।]]
18
=>
[[२। ‘त्यदादिषु दृशोऽनालोचने कञ्च’ (३-२-६०) इत्यनेन कनि प्रत्यये सर्वनाम्नो दृग्दृशवतुषु दीर्घे रूपम्। स्त्रियाम्, ‘टिड्ढाणञ्’ (४-१-१५) इत्यादिना ङीप्।]]
19
=>
[[३। ‘समानान्ययोश्च’ (वा। ३-२-६०) इति क्विन्कञौ प्रत्ययौ भवतः। तत्र, ‘दृग्दृशवतुषु’ (६-३-८९) इत्यनेन समानशब्दस्य सभावे सदृक् सदृशः सदृक्षः इति भवति। ईदृक् इत्यादिषु क्विन्कञोः प्रत्यययोः ‘इदंकिमोरीश्की’ (६-३-९०) इत्यनेन प्रकृतेः की इत्येतौ आदेशौ भवत इति विशेषः।]]
20
=>
[[४। ‘दृशेः क्सश्च वक्तव्यः’ (वा। ३-२-६०) इति क्सप्रत्यये रूपम्।]]
21
=>
[[५। कर्मण्युपपदे, भूतकाले, ‘दृशेः क्वनिप्’ (३-२-९४) इति क्वनिप्। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इत्येव क्वनिप्प्रत्ययेऽस्मादपि सिद्धे, अत्र सूत्रे पुनर्वचनं मनिनादिनिवृत्त्यर्थम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीप्, रेफादेशश्च।]]
22
=>
[[आ। ‘मां घ्नता भवताऽकारि निश्शङ्कं पापदृश्वना।।’ भ। का। ६। १३०।]]
23
=>
[[B। ‘यमास्यदृश्वरी तस्य ताटका वेत्ति विक्रमम्।’ भ। का। ५। ३४।]]
24
=>
[[६। ‘असूर्यललाटयोर्दृशितपोः’ (३-२-३६) इति खश्। शित्त्वात् पश्यादेशः। खित्त्वात् मुम्। असूर्य इति निपातनात् नञोऽसमर्थसमासः।]]
25
=>
[[C। ‘असूर्यम्पश्यया मूर्त्या हृता तां मृगयावहे।।’ भ। का। ६। ९९।]]
26
=>
[राजदाराः]
27
=>
[[७। ‘उग्रम्पश्येरम्मदपाणिन्धमाश्च’ (३-२-३७) इत्यनेन खश्प्रत्ययान्तो निपातितः। उग्रमिति क्रियाविशेषणम्। ‘उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि।’ इति प्र। सर्वस्वे।]]
28
=>
[[ड्। ‘उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता।’ भ। का। ४। २३।]]
29
=>
[[८। पश्यतीति पश्यः। एव पश्यकः--स्वार्थे कन्। ‘पश्यकः कश्यपोऽभवत्’ इति पौराणिकवचनात् पृषोदरादित्वात् कल्मशम्-कश्मलम् इत्यादिष्विव वर्णव्यत्ययः।]]
30
=>
[पृष्ठम्०७६६+ २८]
31
=>
[[१। सुष्ठु दर्शयतीति सुदर्शनः। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
32
=>
[[२। क्वसौ, ‘दृशेश्चेति वक्तव्यम्’ (वा। ७-२-६८) इति इड्विकल्पे रूपद्वयम्।]]
33
=>
[[आ। ‘प्राह्णतनादित्यकरोपमप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २। २३।]]
34
=>
[[B। ‘संकथेच्छुरभिधातुमनीशा सम्मुखी बभूव दिदृक्षुः।’ शि। व। १०। ४१।]]
35
=>
[[C। ‘सन्दिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्।’ भ। का। ५। ६४।]]
36
=>
[[३। ईषदाद्युपपदेषु ‘भाषायां शासियुधिदृशि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। ‘अयं युच् वा।’ इति प्र। कौमुदी। तेन, पक्षे ईषद्दर्शः-दुर्दर्शः- सुदर्शः इत्यपि साधु।]]
37
=>
[[४। करणेऽधिकरणे चार्थे, ‘पुंसि संज्ञायां घः --’ (३-३-११८) इति घप्रत्ययः। आदर्शः = दर्पणम्।]]
38
=>
[[ड्। ‘अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु।।’ शि। व। ३। ३५।]]
39
=>
[[५। दृश्येते सूर्याचन्द्रमसावस्मिन् दिवसे इत्यधिकरणे, ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। दर्शः = अमावास्या।]]
40
=>
[[६। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्।]]
41
=>
[[E। ‘वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः।’ भ। का। ७। २९।]]
42
=>
[[७। स्त्रियाम्, सम्पदादित्वात् (वा। ३-३-९४) भावे क्विप्। ‘क्तिन्नपीष्यते’ (वा। ३-३-९४) इत्युक्त्या दृष्टिरित्यपि साधुः।]]
43
=>
[[८। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। दृष्टिः = नेत्रम्।]]
44
=>
[[९। यद्यपि, ‘पश्यार्थैश्चानालोचने’ (८-१-२५) इत्यत्र निर्देशबलात् दर्शनम् = पश्यः, भावे शप्रत्ययोऽयम्। ल्युडपवादोऽयमिति प्रतीयते, तथाऽपि, ‘अदर्शनम् लोपः’ (१-१-६०) इति ल्युडन्तस्यापि सूत्रकारनिर्देशात् ल्युडपि भवति।]]
45
=>
[पृष्ठम्०७६७+ २७]
46
=>
[[१। कर्मण्युपपदे ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति णमुल्। यां यां कन्यां पश्यति तास्सर्वा अपि वरयतीति भावः।]]
47
=>
[वरयति]
48
=>
[[आ। ‘मांसशोणितसन्दर्शं तुण्डघातमयुध्यत।।’ भ। का। ५। १०१।]]
49
=>
[[२। ‘अर्जिदृशि--’ [द। उ। १। ११२]