| YouTube Channel

सुखरात्रिका (sukharAtrikA)

 
Monier Williams Cologne
English
सुख—रात्रि or सुख—रात्रिका,
f.
a partic. night of new moon (when there is a festival in honour of Lakṣmi, celebrated with lighted lamps),
Cat.
a night when a wife may be legally approached (cf.
Mn.
iii, 47),
MW.
a quiet or comfortable night (cf. सौरात्रिक).
शब्दकल्पद्रुमः
Sanskrit
सुखरात्रिका,
स्त्री,
(सुखकरी रात्रिर्येस्या-मिति पक्षे कप् ।) दीपा-न्वितामावास्यारात्रिः तद्विधानं यथा, ज्योतिषे ।“तुलाराशिगते भानौ अमावास्यां नराधिपः ।स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य चकृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः ।ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।लक्ष्मीः संपूज्यतां लोका उल्काभिश्चापिवेष्ट्यताम्
*
दर्शद्वैधे प्रदोषव्याप्त्या निर्णयः ।“तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्सयोः ।उल्काहस्ता नराः कुर्य्युः पितॄणां मार्गदर्शनम्
”इति ज्योतिषात्
उभयतः प्रदोषप्राप्तौ परदिन एव युग्मात् ।“दण्डैकरजनीयोगो दर्शस्य स्यात् परेऽहनि ।तदा विहाय पूर्व्वेद्युः परेऽह्नि सुखरात्रिका
”इति ज्योतिर्व्वचनाच्च
उभयत्र प्रदोषाव्याप्तावपि उल्कादानं परदिनेपूर्व्वोक्तपार्व्वणानुरोधात् ।“भूताहे ये प्रकुर्व्वन्ति उल्काग्रहमचेतसः ।निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्
”इति ज्योतिर्व्वचनाच्च
*
अत्रैव लक्ष्मीः पूर्व्वाहे रात्रौ पूज्या ।“अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।पूजनीया तदा लक्ष्मीर्व्विज्ञेया सुखरात्रिका
”इति ज्योतिव्वचनात्
*
उल्काग्रहणादिपितृकृत्यत्वात् प्राचीनावीतिनादक्षिणामुखेन कर्त्तव्यम् तथा मनुः ।“प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।पित्र्यमानिधनात् कार्य्यं विधिवद्दर्भपाणिना
”तत्र ग्रहणमन्त्रः ।“शस्त्राशस्त्रहतानाञ्च भूतानां भूतदर्शयोः ।उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना
”दानमन्त्रश्च ।“अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममउज्ज्वलज्योतिषा दग्धास्तेयान्तु परमा गतिम्
”विसर्ज्जनमन्त्रः ।“यमलोकं परित्यज्य आगता ये महालये ।उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते
*ब्रह्मपुराणम् ।“अमावास्यां यदा देवाः कार्त्तिकेमासि केशवात्अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु
लक्ष्मीर्दैत्यभयान्मुक्ता सुण्वं सुप्ताम्बु जोदरे ।चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे
अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखरात्रिकादिवा तत्र भोक्तव्यमृते बालातुराज्जनात्
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि
चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु ।वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु
बस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः ।दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम्
ब्राह्मणान् भोजयित्वादौ विभोज्य बुभुक्षि-तान् ।अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ।स्निग्धैर्म्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह
”मुग्धैः सुन्दरैः मुग्धः सुन्दरमूढयोरितिविश्वः
*
अत्र लक्ष्मीपूजायां पुष्पदानकाले ।“नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ।या गतिस्त्वत्प्रपन्नानां सा मे भूयात् तदर्च्चनात्”लक्ष्म्यै नमः इत्यनेन वारत्रयं पूजयेत् ।“सुखरात्र्यां प्रदोषे तु कुवेरं पूजयन्ति ये
”इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति ।“धनदाय नमस्तुभ्यं निधिपद्माधिपाय ।भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः
”इति पठित्वा कुबेराय नमः इति त्रिः पूज-येत् ततो देवगृहादिषु दीपान् दद्यात् तत्रमन्त्रः ।“अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव ।उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्
”ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्तासुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् ।यथा, --“सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये ।बन्धुर्वन्धूनबन्धूश्च वाचा कुशलयार्च्चयेत्
प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे ।गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः
”लक्ष्मीपूजामन्त्रः ।“विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे ।महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीव्यपोहतु
या रात्रिः सर्व्वमूतानां या देवेष्ववस्थिता ।संवत्सरप्रिया या सा ममास्तु सुमङ्गला
माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा ।आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते
”लक्ष्म्यै नमः इति त्रिः पूजयेत् इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
सुखरात्रिका स्त्री सुखा रात्रियस्याः ब० कप् दीपान्विता-मास्यायां पूज्यायां लक्ष्म्याम दोपान्वितामुपक्रम्य “पूज-नीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका” ज्योतिर्वचनम् ।कष्ठभाये सुखरात्रिरप्यत्र “आख्याता भूतले देवि!सुखरात्रि! नमोऽस्तुते” इति दीपान्वितामावस्यायांलक्ष्मीपूजनमन्त्रः