सीसकं (sIsakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसीसकं, (सीसमेव । स्वार्थे कन् ।) धातु-विशेषः । सीसा इति भाषा । तत्पर्य्यायः ।नागम् २ योगेष्टम् ३ वप्रम् ४ । इत्यमरः । २ । ९ ।१०५ ॥
सीसम् ५ सीसपत्रकम् ६ गण्डूपदभवम् ७सिन्दूरकारणम् ८ वर्द्धम् ९ स्वर्णारि १०यवनेष्टम् ११ सुवर्णकम् १२ । इति हेमचन्द्रः ॥
वध्रम् १३ पिच्चटम् १४ सुवर्णारि १५ त्रपु १६त्रपुः १७ । इति शब्दरत्नावली ॥
वध्रकम् १८महावलम् १९ यवनेष्टकम् २० । इतिजटाधरः ॥
बहुमलम् २१ चीनम् २२पिष्टम् २३ । इति रत्नमाला ॥
जडम् २४भुजङ्गमम् २५ उरगम् २६ कुरङ्गम् २७ परि-पिष्टकम् २८ मृदुकृष्णायसम् २९ पद्मम् ३० तार-शुद्धिकरम् ३१ शिरावृत्तम् ३२ वयोवङ्गम् ३३चीनपिष्टम् ३४ । अस्य गुणाः ।“सीसन्तु वङ्गसाम्यं साद्रसवीर्य्यविपाकतः ।उष्णञ्च कफवातघ्नमर्शोघ्नं गुरु लेखनम् ॥
वर्णे नीलं मृदु स्निग्धं निर्म्मलञ्च सुगौरवम् ।रौप्यसंशोधने क्षिप्रं सीसकञ्च तदुत्तमम् ॥
”इति राजनिर्घण्टः ॥
* ॥
अथ सीसस्योत्पत्तिनामगुणाः ।“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ।सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ।नागः भुजङ्ग इत्यादि ।सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥
नागस्तु नागशततुल्यबलं ददादिव्याधिं विनाशयति जीवनमातनोति ।वह्निं प्रदीपयति कामबलं करोतिमृत्युञ्च नाशयति सन्ततसेवितः सः ॥
पाकेन हीनौ किल रङ्गनागौकुष्ठानि गुल्मांश्च तथा निकृष्टान् ।पाण्डुप्रमेहानिलसादसोथ-भगन्दरादीन् कुरुतः प्रयुक्तौ ॥
” * ॥
अथ सीसकस्य शोधनम् ।“तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः ।शोधनञ्चापि तस्यैव भिषग्भिर्गदितं पुरा ॥
” * ॥
अथ सीसकस्य मारणविधिः ।“ताम्बू लरससंपिष्टशिलालेपात् पुनः पुनः ।द्वात्रिंशद्भिः पुटैर्नाशो निरुत्थं भस्म जायते ॥
”शिला मनःशिला । अन्यच्च ।अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला ।काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च ।पुनः पचेत् शरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥
”इति भावप्रकाशः ॥
मारितस्यास्य गुणाः पूर्व्ववत् ॥
* ॥
अपि च ।“तैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके ।त्रिधा त्रिधा विशुद्धिः स्यात् स्वर्णादीनांसमासतः ॥
”अथ सीसकस्य मारणम् ।“कुडवं नागपत्राणां कुनट्याः स्यात् पलार्द्ध-कम् ।तण्डु लीयरसैर्य्यामं यामं वासारसैस्तथा ॥
संमर्द्य च क्रियां कृत्वा घर्म्मे संशोष्य तं पुनः ।सरावसंपुटे कृत्वा पचेद्वन्योपलैर्भिषक् ॥
एवं सप्तपुटैर्नागो भस्मीभवति निश्चितम् ।द्विगुञ्जोऽयं ध्रुवं हन्यात् प्रमेहानखिलानपि ॥
”इति वैद्यदर्पणः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
