| YouTube Channel

सिका (sikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुस शब्दे”@} 2 तोसकः-सिका, तोसकः-सिका, तुतुसिषकः-तुतोसिषकः-षिका, तोतुसकः- सिका
तोसिता-त्री, तोसयिता-त्री, तुतुसिषिता-तुतोसिषिता-त्री, तोतु- सिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुचधातुवत् 3 ज्ञेयानि।
क्विपि--तू-तुसौ-तुसः, इति रूपाणीति विशेषः।
घञि 4 तोसः।
प्रासङ्गिक्यः
01
=>
(७५९)
02
=>
(१-भ्वादिः-७१०। अक। सेट्। पर।)
03
=>
(२००)
04
=>
[[B। ‘--तोसह्रासविहीनशङ्खजनितह्लासाद् रसद्दिक्तटम्।।’ धा। का। १। ८८।]]
1 {@“बिस प्रेरणे”@} 2 ‘विस--’ इति कुत्रचिद् दृष्टः पाठोऽप्रामाणिकः।
बेसकः-सिका, बेसकः-सिका, बिबेसिषकः-बिबिसिषकः-षिका, बेबिसकः- सिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिककुस्यतिवत् 3 ज्ञेयानि।
4 बिस्तः, बिसम्।
5 बिसितम्।
प्रासङ्गिक्यः
01
=>
(१११७)
02
=>
(४-दिवादिः-१२१७। अक। अनि। पर।)
03
=>
(२३४)
04
=>
[[४। औणादिके (द। उ। ६-७) तन्प्रत्यये, ‘तितुत्रतथ--’ (७-२-९) इत्यादिना इण्निषेधे रूपमेवम्। केचित्तु धातोरस्य सेट्त्वेऽपि, ‘अपरिमाणबिस्ताचित--’ (४-१-२२) इत्यत्र बिस्त इति निपातनान्निष्ठायामनिट्त्वमिति साधयन्ति। शास्त्रस्य सङ्कोचे प्रमाणाभावात् तच्चिन्त्यम्।]]
05
=>
[[आ। ‘… वेदव्योषकृदप्लुषो बिसितधीकुस्यज्जनांहोबुसम्।’ धा। का। २। ६६।]]
1 {@“बुस उत्सर्गे”@} 2 बोसकः-सिका, बोसकः-सिका, बुबुसिषकः-बुबोसिषकः-षिका, बोबुसकः- सिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिककुस्यतिवत् 3 ज्ञेयानि।
4 बुसम्, 5 6 खलेबुसम्, 7 बुस्तः।
8
प्रासङ्गिक्यः
01
=>
(११२६)
02
=>
(४-दिवादिः-१२१९। सक। सेट्। पर।)
03
=>
(२३४)
04
=>
[[५। इगुपधलक्षणे कप्रत्यये रूपमेवम्। बुसम् = धान्यादीनां निस्सारो भागः।]]
05
=>
[[B। ‘… वेदव्योषकृदप्लुषो बिसितधीकुस्यज्जनांहोबुसम्।’ धा। का। २। ६६।]]
06
=>
[[६। यस्मिन् काले खले बुसं वर्तते कालः = खलेबुसम्। तिष्ठद्गुप्रभृतिषु (२-१-१७) पाठात् अव्ययीभावसमासः, सप्तम्या अलुक् च।]]
07
=>
[[७। औणादिके (द। उ। ६-७) तन्प्रत्यये, ‘तितुत्रत--’ (७-२-९) इत्यादिना इण्निषेधे रूपमेवम्। यद्वा, अर्धर्चादिषु (२-४-३१) बुस्त इति पाठान्निष्ठायामनिट्त्वमिति बोध्यम्।]]
08
=>
[पृष्ठम्०९३०+ २७]
1 {@“मुस खण्डने”@} 2 “आत्रेयस्तु कातन्त्रे मूर्धन्यान्तोऽयम्।
तथा ‘राघवस्यामुषः कान्ताम्’ 3 इति प्रयोगश्च, इति पाठान्तरमप्याह।” इति मा।
धा।
वृत्तौ।
मोसकः-सिका, मोसकः-सिका, मुमोसिषकः-मुमुसिषकः-षिका, मोमुसकः- सिका
मोसिता-त्री, मोसयिता-त्री, मुमोसिषिता-मुमुसिषिता-त्री, मोमु- सिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककोसतिवत् 4 ज्ञेयानि।
5 6 मुसलम्-मुसली, 7 मुस्ता, 8 9 मुस्तकम्, इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१२९१)
02
=>
(४-दिवादिः-१२२०। सक। सेट्। पर।)
03
=>
(भ। का। १५-१६)
04
=>
(२३४)
05
=>
[पृष्ठम्१०४२+ २६]
06
=>
[[१। ‘वृषादिभ्यश्चित्’ (द। उ। ८-१०९) इति कलप्रत्यये मुसलम् इति रूपम्। गौरादिपाठान्ङीषि मुसली इति रूपम्। मुसली = गृहगोधिका।]]
07
=>
[[२। बाहुलकात् औणादिके तन्प्रत्यये ‘तितुत्र--’ (७-२-९) इतीण्निषेधे रूपम्। अथवा, ‘व्रातालातसुतपुतचित्तनिमित्तमुस्त--’ इत्यादिना भोजेन क्तप्रत्यये निपातितः।’ इति धा। का। व्याख्यानात् (२-६६) एवं रूपमिति ज्ञेयम्।]]
08
=>
[[आ। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसः…।।’ धा। का। २। ६६।]]
09
=>
[[३। ‘संज्ञायाम्’ (४-३-११७) इति कन्प्रत्यये रूपं भवति। अर्धर्चादिगणे (२-४-३१) पाठात् पुंनपुंसकलिङ्गत्वम्। ‘भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्त्तरे’ इति मेदिनी।]]
1 {@“रस आस्वादनस्नेहनयोः”@} 2 अदन्तः।
‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रसकः सिका, रिरसयिषकः-षिका
रसयिता-त्री, रिरसयिषिता-त्री
4 रसयन्-न्ती, रिरसयिषन्-न्ती
रसयिष्यन्-न्ती-ती, रिरसयिषिष्यन्- न्ती-ती
रसयमानः, रिरसयिषमाणः, रसयिष्यमाणः, रिरसयिषिष्यमाणः, सुरः-सुरसौ-सुरसः
रिरसयिट्-यिषौ-यिषः, रसितम्-तः, रिरसयिषि- तम्-तः-तवान्
5 रसः, विरसः, सुरसः, सुरसी, रिरसयिषुः
रसयि- तव्यम्, रिरसयिषितव्यम्
रसनीयम्, रिरसयिषणीयम्
रस्यम्, रिरसयिष्यम्, ईषद्रसः-दूरसः-सुरसः
रस्यमानः, रिरसयिष्यमाणः, रसः, रिरसयिषः, रसयितुम्, रिरसयिषितुम्
रसना, रिरसयिषा, रसनम्, रिरसयिषणम्, रसयित्वा, रिरसयिषित्वा
6 प्ररसय्य, प्ररिरसयिष्य, रसम् २, रसयित्वा २, रिरसयिषम् २, रिरसयिषित्वा
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३८५)
02
=>
(१०-चुरादिः-१९३१। सक। सेट्। उभ।)
03
=>
(श्लो। १९३)
04
=>
[[आ। ‘देवौघे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ धा। का। ३। ६२।]]
05
=>
[[१। रस्यन्ते आस्वाद्यन्तेऽनेन इति ‘एरच्’ (३-३-५६) इति अचि रूपम्। घञ् वा इति केचित्।]]
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-१६) इति णेरयादेशः।]]