| YouTube Channel

सिंहासनं (siMhAsanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सिंहासनं,
क्ली,
(सिंहचिह्नितमासनम् ।) स्वर्ण-मयराजासनम् इत्यमरः ३२
अथसिंहासनयुक्तिः ।“राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते
शुभे मुहूर्त्ते शुभमासवर्षेसुवारवेलातिथिचन्द्रयोगे ।काले निरुत्पातनिरीतिभावेसिंहासनावस्थविधिं वदन्ति
स्थिरराशिस्थिते भानौ चन्द्रे स्थिरभोदिते ।आसनारम्भमिच्छन्ति गृहारम्भोऽपि येषु
”एतेन गृहारम्भसिंहासनयोरारम्भः तत्र क्रमः ।“बाणवेदाग्निपक्षाणि सोपानानि युगैः क्रमात्चत्वारिंशत्तथा त्रिंशत् विंशतिः षोडशैव
सिंहान्वितानि ज्ञे यानि चरणानि युगः क्रमात्पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः
अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः ।आदित्यादिदशाजानां भूपतीनां यथाक्रमम्
राज्ञः स्वहस्तैरष्टाभिरायामपरिणाहयोः ।राजपात्रमिदं नाम सोपानं पुरुषोन्नतम्
तदर्द्धमानं तन्मध्ये राजासनमुदाहृतम् ।अर्द्वोन्नतमिदं रम्यं प्रोक्तं कलिमहीभुजाम् ।दिगष्टर्द्ध्यब्धिकोणः स्याद्ब्रह्मादीनां यथा-यथम्
”अथाष्टानां लक्षणानि ।“गम्भारीकाष्ठघटितः पद्ममालोपचित्रितः ।पद्मरागविचित्राङ्गः शुद्धः काञ्चनसंवृतः
चरणाग्रे पद्मकापात् पद्मरागविचित्रिताः ।दिक्ष्त्रष्टौ पुत्त्रिका राजद्वादशाङ्गलिसम्मिताः
राजासनं चतस्रश्च एवं द्वादशपुत्त्रिकाः ।रत्नैश्च नवभिः कार्य्यं निर्म्माणं चान्तरान्तरा
रक्तवस्त्रावृतं ह्येतत् पद्मसिंहासनं मतम् ।अत्रोषित्वा नरपतिः प्रतापमतिविन्दति
भद्रेन्द्रकाष्ठघटितः शङ्खमालोपशोभितः ।शुद्धस्फटिकचित्राङ्गः शुद्धरूप्योपशोभितः
चरणाग्रे शङ्खनाभिः पुत्त्रिकाः सप्तविंशतिः ।स्थाने स्थाने विधातव्याः शुद्धस्फटिकसस्कृताः ।शुक्लपट्टावृतं ह्येतत् शङ्खसिंहासनं मतम्
पनसेनोपघटितो गजमालोपशोभितः ।विद्रुमैरपि वैदूर्य्यैः काञ्चनेनापि शोभितः
चरणाग्रे गजशिरः पुच्छादेकैकपुत्त्रिका ।माणिक्यरचिता रक्तवस्त्रादिकविभूषणम् ।गजसिंहासनं नाम साम्राज्यफलदायकम्
शालकाष्ठेन घटितो हंसमालोपशोभितः ।पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः
चरणाग्रे हंसरूपं पुत्त्रिकास्त्वे कविंशतिः ।गोमेदकोपघटितापीतवस्त्रविभूषणम् ।हंससिंहासनं नाम सर्व्वानिष्टविनाशनम्
चन्दनेनोपघटितः सिंहमालोपभूषितः ।शुद्धहीरकचित्राङ्गः शुद्धकाञ्चननिर्म्मितः
चरणानां सिंहलेखः पुत्त्रिकाश्चैकविंशतिः ।मुक्ताशुक्तिभिरन्यैश्च निर्म्मलैरेव भूषणम्
शुद्धशुण्डावृतं ह्येतत् सिंहसिंहासनं मतम् ।अत्रोषित्वा नरपतिः कृत्स्नां साधयतिक्षितिम्
भृङ्गमालोपसहितं शुद्धचम्पककल्पितम् ।शुद्धैर्म्मरकतैर्युक्तं पादाग्रे पद्मकोषिकाः
द्वाविंशतिः पुत्त्रिकास्तु नीलवस्त्रादिभूषणम् ।भृङ्गसिंहासनं नाम शत्रुक्षयजयप्रदम्
निम्बकाष्ठेन घटनामृगमालोपशोभितम् ।इन्द्रनीलैर्म्महानीलैः काञ्चनेनापि चित्रितम्
चरणाग्रे मृगशिरश्चत्वारिंशश्च पुत्त्रिकाः ।नीलवस्त्रादियुक्तन्तु मृगसिंहासनं मतम् ।लक्ष्मीविजयसम्पत्तिर्नैरुज्यपदमुत्तमम्
केशरेणोपघटितं हयमालोपशोभितम् ।समस्तवस्त्रैर्भूषाश्च पुत्त्रिकाः पञ्चसप्ततिः
चरणाग्रे हयशिरश्चित्रवस्त्रादिभूषणम् ।हयसिंहासनं नाम लक्ष्मीविजयवर्द्धनम्
इत्येतत् कथितं सारं महासिंहासनाष्टकम् ।यथा भोजेन लिखितं यथा चान्यै श्च पण्डितैः
एतस्यातिक्रमं दम्भाद्यः कुर्य्यात् पृथिवोपतिःअचिरादेव कुरुते तस्य मृत्युरतिक्रमम्
परासनस्थो यो राजा यो राजा निरासनः ।स परैर्हन्यते सिंहैरिव मत्तगजाधिपः
स्वलग्नमित्रासनमध्यसंस्थिति-र्न दुष्यतीति प्रवदन्ति तज्ज्ञाः
”इति युक्तिकल्पतरुः
*
चतूराजीक्रीडायः जयविशेषः यथा, तिथ्यादि-तत्त्वे ।“अन्यद्राजपदं राजा यदा यातो युधिष्ठिर ।तदा सिंहासनं तस्य भण्यते नृपसत्तम
राजा नृपतिं हत्वा कुर्य्यात् सिंहासनं यदाद्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्
मित्रसिंहासनं पार्थ यदा रोहति भूपतिः ।तदा सिंहासनं नाम सर्व्वं नयति तद्वलम्
यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः ।तदा घातेन हन्तव्यो बलेनापि सुरक्षितः
*
योगासनविशेषः यथा, हठप्रदीपे ।“गुल्फौ वृषणस्याधः सीवन्धाः पार्श्वयोःक्षिपेत् ।दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके
हस्तौ जान्वोः संस्थाप्य स्वाङ्गु लीः संप्रसार्य्यचव्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः
सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम्