| YouTube Channel

सारसं (sArasaM)

 
शब्दकल्पद्रुमः
Sanskrit
सारसं,
क्ली,
(सरसि भवम् सरस् + अण् ।)पद्मम् इत्यमरः १० ४०
स्त्रीकट्या-भरणम् इति केचित्
सारसं, त्रि, (सरसि भवम् सरस् + अण् ।)सरोवरोद्भवजलादि तज्जलगुणाः तथा, --“नद्याः शैलवराच्चाम्भो यत्र संस्रुत्य तिष्ठति ।तत् सरोजजलं छन्नं तदद्भः सारसं स्मृतम्
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु ।रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम्
”इति भावप्रकाशः
(यथा ।“क्षारं घनं वातकफानुकारित्वग्दोषकृत् तत् कटु दीपनञ्च ।प्रोक्तं विपाके भ्रमशोषकारिस्यात् सारसं नो सुखकारि वारि
”इति हारीते प्रथमस्थाने सप्तमेऽध्याये
)